Devi · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
भृगुरुवाच
चतुर्वक्त्र जगन्नाथ स्तोत्रं वद मयि प्रभो । यस्यानुष्ठानमात्रेण नरो भक्तिमवाप्नुयात् ॥ 1
Offered for worship and study, not as prediction. Non-commercial.
ब्रह्मोवाच सहस्रनाम्नामाकृष्य नाम्नामष्टोत्तरं शतम् । गुह्याद्गुह्यतरं गुह्यं सुंदर्याः परिकीर्तितम् ॥ 2 ॥
अस्य श्रीषोडश्यष्टोत्तरशतनामस्तोत्रस्य शंभुरृषिः अनुष्टुप् छंदः श्रीषोडशी देवता धर्मार्थकाममोक्षसिद्ध्यर्थे जपे विनियोगः ।
त्रिपुरा षोडशी माता त्र्यक्षरा त्रितया त्रयी । सुंदरी सुमुखी सेव्या सामवेदपरायणा ॥ 3 ॥
शारदा शब्दनिलया सागरा सरिदंबरा । शुद्धा शुद्धतनुः साध्वी शिवध्यानपरायणा ॥ 4 ॥
स्वामिनी शंभुवनिता शांभवी च सरस्वती । समुद्रमथिनी शीघ्रगामिनी शीघ्रसिद्धिदा ॥ 5 ॥
साधुसेव्या साधुगम्या साधुसंतुष्टमानसा । खट्वांगधारिणी खर्वा खड्गखर्परधारिणी ॥ 6 ॥
षड्वर्गभावरहिता षड्वर्गपरिचारिका । षड्वर्गा च षडंगा च षोढा षोडशवार्षिकी ॥ 7 ॥
क्रतुरूपा क्रतुमती ऋभुक्षक्रतुमंडिता । कवर्गादिपवर्गांता अंतस्थाऽनंतरूपिणी ॥ 8 ॥
अकाराकाररहिता कालमृत्युजरापहा । तन्वी तत्त्वेश्वरी तारा त्रिवर्षा ज्ञानरूपिणी ॥ 9 ॥
काली कराली कामेशी छाया संज्ञाप्यरुंधती । निर्विकल्पा महावेगा महोत्साहा महोदरी ॥ 10 ॥
मेघा बलाका विमला विमलज्ञानदायिनी । गौरी वसुंधरा गोप्त्री गवां पतिनिषेविता ॥ 11 ॥
भगांगा भगरूपा च भक्तिभावपरायणा । छिन्नमस्ता महाधूमा तथा धूम्रविभूषणा ॥ 12 ॥
धर्मकर्मादिरहिता धर्मकर्मपरायणा । सीता मातंगिनी मेधा मधुदैत्यविनाशिनी ॥ 13 ॥
भैरवी भुवना माताऽभयदा भवसुंदरी । भावुका बगला कृत्या बाला त्रिपुरसुंदरी ॥ 14 ॥
रोहिणी रेवती रम्या रंभा रावणवंदिता । शतयज्ञमयी सत्त्वा शतक्रतुवरप्रदा ॥ 15 ॥
शतचंद्रानना देवी सहस्रादित्यसन्निभा । सोमसूर्याग्निनयना व्याघ्रचर्मांबरावृता ॥ 16 ॥
अर्धेंदुधारिणी मत्ता मदिरा मदिरेक्षणा । इति ते कथितं गोप्यं नाम्नामष्टोत्तरं शतम् ॥ 17 ॥
सुंदर्याः सर्वदं सेव्यं महापातकनाशनम् । गोपनीयं गोपनीयं गोपनीयं कलौ युगे ॥ 18 ॥
सहस्रनामपाठस्य फलं यद्वै प्रकीर्तितम् । तस्मात्कोटिगुणं पुण्यं स्तवस्यास्य प्रकीर्तनात् ॥ 19 ॥
पठेत्सदा भक्तियुतो नरो यो निशीथकालेऽप्यरुणोदये वा । प्रदोषकाले नवमीदिनेऽथवा लभेत भोगान्परमाद्भुतान्प्रियान् ॥ 20 ॥
इति ब्रह्मयामले पूर्वखंडे षोडश्यष्टोत्तरशतनाम स्तोत्रम् ।
Browse Related Categories: