Subrahmanya Swamy · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
अस्य श्रीसुब्रह्मण्यकवचस्तोत्रमहामंत्रस्य, ब्रह्मा ऋषिः, अनुष्टुप्छंदः, श्रीसुब्रह्मण्यो देवता, ॐ नम इति बीजं, भगवत इति शक्तिः, सुब्रह्मण्यायेति कीलकं, श्रीसुब्रह्मण्य प्रसादसिद्ध्यर्थे जपे विनियोगः ॥
करन्यासः – ॐ सां अंगुष्ठाभ्यां नमः । ॐ सीं तर्जनीभ्यां नमः । ॐ सूं मध्यमाभ्यां नमः । ॐ सैं अनामिकाभ्यां नमः । ॐ सौं कनिष्ठिकाभ्यां नमः । ॐ सः करतलकरपृष्ठाभ्यां नमः ॥ अंगन्यासः – ॐ सां हृदयाय नमः । ॐ सीं शिरसे स्वाहा । ॐ सूं शिखायै वषट् । ॐ सैं कवचाय हुम् । ॐ सौं नेत्रत्रयाय वौषट् । ॐ सः अस्त्राय फट् । भूर्भुवस्सुवरोमिति दिग्बंधः ॥
ध्यानम् । सिंदूरारुणमिंदुकांतिवदनं केयूरहारादिभिः दिव्यैराभरणैर्विभूषिततनुं स्वर्गादिसौख्यप्रदम् । अंभोजाभयशक्तिकुक्कुटधरं रक्तांगरागोज्ज्वलं सुब्रह्मण्यमुपास्महे प्रणमतां सर्वार्थसिद्धिप्रदम् ॥ [भीतिप्रणाशोद्यतम्]
लमित्यादि पंचपूजा । ॐ लं पृथिव्यात्मने सुब्रह्मण्याय गंधं समर्पयामि । ॐ हं आकाशात्मने सुब्रह्मण्याय पुष्पाणि समर्पयामि । ॐ यं वाय्वात्मने सुब्रह्मण्याय धूपमाघ्रापयामि । ॐ रं अग्न्यात्मने सुब्रह्मण्याय दीपं दर्शयामि । ॐ वं अमृतात्मने सुब्रह्मण्याय स्वादन्नं निवेदयामि । ॐ सं सर्वात्मने सुब्रह्मण्याय सर्वोपचारान् समर्पयामि ।
कवचम् । सुब्रह्मण्योऽग्रतः पातु सेनानीः पातु पृष्ठतः । गुहो मां दक्षिणे पातु वह्निजः पातु वामतः ॥ 1 ॥
शिरः पातु महासेनः स्कंदो रक्षेल्ललाटकम् । नेत्रे मे द्वादशाक्षश्च श्रोत्रे रक्षतु विश्वभृत् ॥ 2 ॥
मुखं मे षण्मुखः पातु नासिकां शंकरात्मजः । ओष्ठौ वल्लीपतिः पातु जिह्वां पातु षडाननः ॥ 3 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
देवसेनापतिर्दंतान् चिबुकं बहुलोद्भवः । कंठं तारकजित्पातु बाहू द्वादशबाहुकः ॥ 4 ॥
हस्तौ शक्तिधरः पातु वक्षः पातु शरोद्भवः । हृदयं वह्निभूः पातु कुक्षिं पात्वंबिकासुतः ॥ 5 ॥
नाभिं शंभुसुतः पातु कटिं पातु हरात्मजः । ऊरू पातु गजारूढो जानू मे जाह्नवीसुतः ॥ 6 ॥
जंघे विशाखो मे पातु पादौ मे शिखिवाहनः । सर्वाण्यंगानि भूतेशः सर्वधातूंश्च पावकिः ॥ 7 ॥
संध्याकाले निशीथिन्यां दिवा प्रातर्जलेऽग्निषु । दुर्गमे च महारण्ये राजद्वारे महाभये ॥ 8 ॥
तुमुले रण्यमध्ये च सर्वदुष्टमृगादिषु । चोरादिसाध्वसेऽभेद्ये ज्वरादिव्याधिपीडने ॥ 9 ॥
दुष्टग्रहादिभीतौ च दुर्निमित्तादिभीषणे । अस्त्रशस्त्रनिपाते च पातु मां क्रौंचरंध्रकृत् ॥ 10 ॥
यः सुब्रह्मण्यकवचं इष्टसिद्धिप्रदं पठेत् । तस्य तापत्रयं नास्ति सत्यं सत्यं वदाम्यहम् ॥ 11 ॥
धर्मार्थी लभते धर्ममर्थार्थी चार्थमाप्नुयात् । कामार्थी लभते कामं मोक्षार्थी मोक्षमाप्नुयात् ॥ 12 ॥
यत्र यत्र जपेद्भक्त्या तत्र सन्निहितो गुहः । पूजाप्रतिष्ठाकाले च जपकाले पठेदिदम् ॥ 13 ॥
तेषामेव फलावाप्तिः महापातकनाशनम् । यः पठेच्छृणुयाद्भक्त्या नित्यं देवस्य सन्निधौ । सर्वान्कामानिह प्राप्य सोऽंते स्कंदपुरं व्रजेत् ॥ 14 ॥
उत्तरन्यासः ॥ करन्यासः – ॐ सां अंगुष्ठाभ्यां नमः । ॐ सीं तर्जनीभ्यां नमः । ॐ सूं मध्यमाभ्यां नमः । ॐ सैं अनामिकाभ्यां नमः । ॐ सौं कनिष्ठिकाभ्यां नमः । ॐ सः करतलकरपृष्ठाभ्यां नमः ॥ अंगन्यासः – ॐ सां हृदयाय नमः । ॐ सीं शिरसे स्वाहा । ॐ सूं शिखायै वषट् । ॐ सैं कवचाय हुम् । ॐ सौं नेत्रत्रयाय वौषट् । ॐ सः अस्त्राय फट् । भूर्भुवस्सुवरोमिति दिग्विमोकः ॥
इति श्री सुब्रह्मण्य कवच स्तोत्रम् ।
Browse Related Categories: