Surya Bhagavan · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
ध्यानं ॐ ध्यायेस्सदा सवितृमंडलमध्यवर्ती नारायणस्सरसिजासन सन्निविष्टः । केयूरवान् मकरकुंडलवान् किरीटी हारी हिरण्मयवपुः धृतशंखचक्रः ॥
सूर्यं सुंदरलोकनाथममृतं वेदांतसारम् शिवं ज्ञानब्रह्ममयं सुरेशममलं लोकैकचित्रस्वयम् । इंद्रादित्यनराधिपसुरगुरुं त्रैलोकचूडामणिम् ब्रह्मविष्णुशिवस्वरूपहृदयं वंदे सदा भास्करम् ॥
द्वादशादित्य नामानि ॐ मित्राय नमः । ॐ रवये नमः । ॐ सूर्याय नमः । ॐ भानवे नमः । ॐ खगाय नमः । ॐ पूष्णे नमः । ॐ हिरण्यगर्भाय नमः । ॐ मरीचये नमः । ॐ आदित्याय नमः । ॐ सवित्रे नमः । ॐ अर्काय नमः । ॐ भास्कराय नमः । ॐ श्रीसवितृसूर्यनारायणाय नमः ॥
फलशृतिः आदित्यस्य नमस्कारान् ये कुर्वंति दिने दिने । आयुः प्रज्ञां बलं वीर्यं तेजस्तेषां च जायते ॥
Browse Related Categories:
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts