Shiva · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
ध्यानं वासुदेवेंद्रयोगींद्रं नत्वा ज्ञानप्रदं गुरुम् । मुमुक्षूणां हितार्थाय तत्त्वबोधोभिधीयते ॥
साधनचतुष्टयसंपन्नाधिकारिणां मोक्षसाधनभूतं तत्त्वविवेकप्रकारं वक्ष्यामः ।
साधनचतुष्टयम् साधनचतुष्टयं किम् ? नित्यानित्यवस्तुविवेकः । इहामुत्रार्थफलभोगविरागः । शमादिषट्कसंपत्तिः । मुमुक्षुत्वं चेति ।
नित्यानित्यवस्तुविवेकः नित्यानित्यवस्तुविवेकः कः ? नित्यवस्त्वेकं ब्रह्म तद्व्यतिरिक्तं सर्वमनित्यम् । अयमेव नित्यानित्यवस्तुविवेकः ।
विरागः विरागः कः ? इहस्वर्गभोगेषु इच्छाराहित्यम् ।
शमादिसाधनसंपत्तिः शमादिसाधनसंपत्तिः का ? शमो दम उपरमस्तितिक्षा श्रद्धा समाधानं च इति ।शमः कः ? मनोनिग्रहः । दमः कः ? चक्षुरादिबाह्येंद्रियनिग्रहः । उपरमः कः ? स्वधर्मानुष्ठानमेव । तितिक्षा का ? शीतोष्णसुखदुःखादिसहिष्णुत्वम् । श्रद्धा कीदृशी ? गुरुवेदांतवाक्यादिषु विश्वासः श्रद्धा । समाधानं किम् ? चित्तैकाग्रता ।
मुमुक्षुत्वं मुमुक्षुत्वं किम् ? मोक्षो मे भूयाद् इति इच्छा । एतत् साधनचतुष्टयम् । ततस्तत्त्वविवेकस्याधिकारिणो भवंति ।
तत्त्वविवेकः तत्त्वविवेकः कः ? आत्मा सत्यं तदन्यत् सर्वं मिथ्येति ।आत्मा कः ? स्थूलसूक्ष्मकारणशरीराद्व्यतिरिक्तः पंचकोशातीतः सन् अवस्थात्रयसाक्षी सच्चिदानंदस्वरूपः सन् यस्तिष्ठति स आत्मा ।
Offered for worship and study, not as prediction. Non-commercial.
शरीरत्रयं (स्थूलशरीरम्) स्थूलशरीरं किम् ? पंचीकृतपंचमहाभूतैः कृतं सत्कर्मजन्यं सुखदुःखादिभोगायतनं शरीरम् अस्ति जायते वर्धते विपरिणमते अपक्षीयते विनश्यतीति षड्विकारवदेतत्स्थूलशरीरम् ।
शरीरत्रयं (सूक्ष्मशरीरम्) सूक्ष्मशरीरं किम् ? अपंचीकृतपंचमहाभूतैः कृतं सत्कर्मजन्यं सुखदुःखादिभोगसाधनं पंचज्ञानेंद्रियाणि पंचकर्मेंद्रियाणि पंचप्राणादयः मनश्चैकं बुद्धिश्चैका एवं सप्तदशाकलाभिः सह यत्तिष्ठति तत्सूक्ष्मशरीरम् ।
ज्ञानेंद्रियाणि श्रोत्रं त्वक् चक्षुः रसना घ्राणं इति पंच ज्ञानेंद्रियाणि । श्रोत्रस्य दिग्देवता । त्वचो वायुः । चक्षुषः सूर्यः । रसनाया वरुणः । घ्राणस्य अश्विनौ । इति ज्ञानेंद्रियदेवताः । श्रोत्रस्य विषयः शब्दग्रहणम् । त्वचो विषयः स्पर्शग्रहणम् । चक्षुषो विषयः रूपग्रहणम् । रसनाया विषयः रसग्रहणम् । घ्राणस्य विषयः गंधग्रहणं इति ।
पंचकर्मेंद्रियाणि वाक्पाणिपादपायूपस्थानीति पंचकर्मेंद्रियाणि । वाचो देवता वह्निः । हस्तयोरिंद्रः । पादयोर्विष्णुः । पायोर्मृत्युः । उपस्थस्य प्रजापतिः । इति कर्मेंद्रियदेवताः । वाचो विषयः भाषणम् । पाण्योर्विषयः वस्तुग्रहणम् । पादयोर्विषयः गमनम् । पायोर्विषयः मलत्यागः । उपस्थस्य विषयः आनंद इति ।
कारणशरीरम् कारणशरीरं किम् ? अनिर्वाच्यानाद्यविद्यारूपं शरीरद्वयस्य कारणमात्रं सत्स्वरूपाऽज्ञानं निर्विकल्पकरूपं यदस्ति तत्कारणशरीरम् ।
अवस्थात्रयम् अवस्थात्रयं किम् ? जाग्रत्स्वप्नसुषुप्त्यवस्थाः ।
जाग्रदवस्था जाग्रदवस्था का ? श्रोत्रादिज्ञानेंद्रियैः शब्दादिविषयैश्च ज्ञायते इति यत् सा जाग्रदावस्था । स्थूल शरीराभिमानी आत्मा विश्व इत्युच्यते ।
स्वप्नावस्था स्वप्नावस्था केति चेत् ? जाग्रदवस्थायां यद्दृष्टं यद् श्रुतम् तज्जनितवासनया निद्रासमये यः प्रपंचः प्रतीयते सा स्वप्नावस्था । सूक्ष्मशरीराभिमानी आत्मा तैजस इत्युच्यते ।
सुषुप्त्यवस्था अतः सुषुप्त्यवस्था का ? अहं किमपि न जानामि सुखेन मया निद्राऽनुभूयत इति सुषुप्त्यवस्था । कारणशरीराभिमानी आत्मा प्राज्ञ इत्युच्यते ।
पंच कोशाः पंच कोशाः के ? अन्नमयः प्राणमयः मनोमयः विज्ञानमयः आनंदमयश्चेति ।
अन्नमयकोशः अन्नमयः कः ? अन्नरसेनैव भूत्वा अन्नरसेनैव वृद्धिं प्राप्य अन्नरूपपृथिव्यां यद्विलीयते तदन्नमयः कोशः स्थूलशरीरम् ।
प्राणमयकोशः प्राणमयः कः ? प्राणाद्याः पंचवायवः वागादींद्रियपंचकं प्राणमयः कोशः ।
मनोमयकोशः मनोमयः कोशः कः ? मनश्च ज्ञानेंद्रियपंचकं मिलित्वा यो भवति स मनोमयः कोशः ।
विज्ञानमयकोशः विज्ञानमयः कः ? बुद्धिज्ञानेंद्रियपंचकं मिलित्वा यो भवति स विज्ञानमयः कोशः
आनंदमयकोशः आनंदमयः कः ? एवमेव कारणशरीरभूताविद्यास्थमलिनसत्त्वं प्रियादिवृत्तिसहितं सत् आनंदमयः कोशः । एतत्कोशपंचकम् ।
पंचकोशातीत मदीयं शरीरं मदीयाः प्राणाः मदीयं मनश्च मदीया बुद्धिर्मदीयं अज्ञानमिति स्वेनैव ज्ञायते तद्यथा मदीयत्वेन ज्ञातं कटककुंडल गृहादिकं स्वस्माद्भिन्नं तथा पंचकोशादिकं स्वस्माद्भिन्नम् मदीयत्वेन ज्ञातमात्मा न भवति ॥
आत्मन् आत्मा तर्हि कः ? सच्चिदानंदस्वरूपः । सत्किम् ? कालत्रयेऽपि तिष्ठतीति सत् । चित्किम् ? ज्ञानस्वरूपः । आनंदः कः ? सुखस्वरूपः । एवं सच्चिदानंदस्वरूपं स्वात्मानं विजानीयात् ।
जगत् अथ चतुर्विंशतितत्त्वोत्पत्तिप्रकारं वक्ष्यामः ।
माया ब्रह्माश्रया सत्त्वरजस्तमोगुणात्मिका माया अस्ति ।
पंचभूताः ततः आकाशः संभूतः । आकाशाद् वायुः । वायोस्तेजः । तेजस आपः । अभ्धयः पृथिवी ।
सत्त्वगुणः एतेषां पंचतत्त्वानां मध्ये आकाशस्य सात्विकांशात् श्रोत्रेंद्रियं संभूतम् । वायोः सात्विकांशात् त्वगिंद्रियं संभूतम् । अग्नेः सात्विकांशात् चक्षुरिंद्रियं संभूतम् । जलस्य सात्विकांशात् रसनेंद्रियं संभूतम् । पृथिव्याः सात्विकांशात् घ्राणेंद्रियं संभूतम् ।
अंतःकरण एतेषां पंचतत्त्वानां समष्टिसात्विकांशात् मनोबुद्ध्यहंकार चित्तांतःकरणानि संभूतानि । संकल्पविकल्पात्मकं मनः । निश्चयात्मिका बुद्धिः । अहंकर्ता अहंकारः । चिंतनकर्तृ चित्तम् । मनसो देवता चंद्रमाः । बुद्धे ब्रह्मा । अहंकारस्य रुद्रः । चित्तस्य वासुदेवः ।
रजोगुणः एतेषां पंचतत्त्वानां मध्ये आकाशस्य राजसांशात् वागिंद्रियं संभूतम् । वायोः राजसांशात् पाणींद्रियं संभूतम् । वन्हेः राजसांशात् पादेंद्रियं संभूतम् । जलस्य राजसांशात् उपस्थेंद्रियं संभूतम् । पृथिव्या राजसांशात् गुदेंद्रियं संभूतम् । एतेषां समष्टिराजसांशात् पंचप्राणाः संभूताः ।
तमोगुणः एतेषां पंचतत्त्वानां तामसांशात् पंचीकृतपंचतत्त्वानि भवंति । पंचीकरणं कथं इति चेत् । एतेषां पंचमहाभूतानां तामसांशस्वरूपम् एकमेकं भूतं द्विधा विभज्य एकमेकमर्धं पृथक् तूष्णीं व्यवस्थाप्य अपरमपरमर्धं चतुर्धां विभज्य स्वार्धमन्येषु अर्धेषु स्वभागचतुष्टयसंयोजनं कार्यम् । तदा पंचीकरणं भवति । एतेभ्यः पंचीकृतपंचमहाभूतेभ्यः स्थूलशरीरं भवति । एवं पिंडब्रह्मांडयोरैक्यं संभूतम् ।
जीवः, ईश्वरः च स्थूलशरीराभिमानि जीवनामकं ब्रह्मप्रतिबिंबं भवति । स एव जीवः प्रकृत्या स्वस्मात् ईश्वरं भिन्नत्वेन जानाति । अविद्योपाधिः सन् आत्मा जीव इत्युच्यते । मायोपाधिः सन् ईश्वर इत्युच्यते । एवं उपाधिभेदात् जीवेश्वरभेददृष्टिः यावत्पर्यंतं तिष्ठति तावत्पर्यंतं जन्ममरणादिरूपसंसारो न निवर्तते । तस्मात्कारणान्न जीवेश्वरयोर्भेदबुद्धिः स्वीकार्या ।
तत् त्वं असि ननु साहंकारस्य किंचिज्ज्ञस्य जीवस्य निरहंकारस्य सर्वज्ञस्य ईश्वरस्य तत्त्वमसीति महावाक्यात् कथमभेदबुद्धिः स्यादुभयोः विरुद्धधर्माक्रांतत्वात् । इति चेन्न । स्थूलसूक्ष्मशरीराभिमानी त्वंपदवाच्यार्थः । उपाधिविनिर्मुक्तं समाधिदशासंपन्नं शुद्धं चैतन्यं त्वंपदलक्ष्यार्थः । एवं सर्वज्ञत्वादिविशिष्ट ईश्वरः तत्पदवाच्यार्थः । उपाधिशून्यं शुद्धचैतन्यं तत्पदलक्ष्यार्थः । एवं च जीवेश्वरयो चैतन्यरूपेणाऽभेदे बाधकाभावः ।
जीवन्मुक्तः एवं च वेदांतवाक्यैः सद्गुरूपदेशेन च सर्वेष्वपि भूतेषु येषां ब्रह्मबुद्धिरुत्पन्ना ते जीवन्मुक्ताः इत्यर्थः ।ननु जीवन्मुक्तः कः ? यथा देहोऽहं पुरुषोऽहं ब्राह्मणोऽहं शूद्रोऽहमस्मीति दृढनिश्चयस्तथा नाहं ब्राह्मणः न शूद्रः न पुरुषः किंतु असंगः सच्चिदानंद स्वरूपः प्रकाशरूपः सर्वांतर्यामी चिदाकाशरूपोऽस्मीति दृढनिश्चय रूपोऽपरोक्षज्ञानवान् जीवन्मुक्तः ॥ब्रह्मैवाहमस्मीत्यपरोक्षज्ञानेन निखिलकर्मबंधविनिर्मुक्तः स्यात् ।
कर्माणि कर्माणि कतिविधानि संतीति चेत् आगामिसंचितप्रारब्धभेदेन त्रिविधानि संति ।
आगामि कर्म ज्ञानोत्पत्त्यनंतरं ज्ञानिदेहकृतं पुण्यपापरूपं कर्म यदस्ति तदागामीत्यभिधीयते ।
संचित कर्म संचितं कर्म किम् ? अनंतकोटिजन्मनां बीजभूतं सत् यत्कर्मजातं पूर्वार्जितं तिष्ठति तत् संचितं ज्ञेयम् ।
प्रारब्ध कर्म प्रारब्धं कर्म किमिति चेत् । इदं शरीरमुत्पाद्य इह लोके एवं सुखदुःखादिप्रदं यत्कर्म तत्प्रारब्धं भोगेन नष्टं भवति प्रारब्धकर्मणां भोगादेव क्षय इति ।
कर्म मुक्तः संचितं कर्म ब्रह्मैवाहमिति निश्चयात्मकज्ञानेन नश्यति ।आगामि कर्म अपि ज्ञानेन नश्यति किंच आगामि कर्मणां नलिनीदलगतजलवत् ज्ञानिनां संबंधो नास्ति ।
ज्ञानिः किंच ये ज्ञानिनं स्तुवंति भजंति अर्चयंति तान्प्रति ज्ञानिकृतं आगामि पुण्यं गच्छति । ये ज्ञानिनं निंदंति द्विषंति दुःखप्रदानं कुर्वंति तान्प्रति ज्ञानिकृतं सर्वमागामि क्रियमाणं यदवाच्यं कर्म पापात्मकं तद्गच्छति । सुहृदः पुण्यकृतं दुर्हृदः पापकृत्यं गृह्णंति ।
ब्रह्मानंदम् तथा चात्मवित्संसारं तीर्त्वा ब्रह्मानंदमिहैव प्राप्नोति । तरति शोकमात्मवित् इति श्रुतेः । तनुं त्यजतु वा काश्यां श्वपचस्य गृहेऽथ वा । ज्ञानसंप्राप्तिसमये मुक्ताऽसौ विगताशयः । इति स्मृतेश्च ।इति श्रीशंकरभगवत्पादाचार्यप्रणीतः तत्त्वबोधप्रकरणं समाप्तम् ।
Browse Related Categories: