Sri Krishna · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
॥ नवमः सर्गः ॥ ॥ मंदमुकुंदः ॥
तामथ मन्मथखिन्नां रतिरसभिन्नां विषादसंपन्नाम् । अनुचिंतितहरिचरितां कलहांतरितमुवाच सखी ॥ 51 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
॥ गीतं 18 ॥
हरिरभिसरति वहति मधुपवने । किमपरमधिकसुखं सखि भुवने ॥ माधवे मा कुरु मानिनि मानमये ॥ 1 ॥
तालफलादपि गुरुमतिसरसम् । किं विफलीकुरुषे कुचकलशम् ॥ 2 ॥
कति न कथितमिदमनुपदमचिरम् । मा परिहर हरिमतिशयरुचिरम् ॥ 3 ॥
किमिति विषीदसि रोदिषि विकला । विहसति युवतिसभा तव सकला ॥ 4 ॥
सजलनलिनीदलशीतलशयने । हरिमवलोक्य सफलय् नयने ॥ 5 ॥
जनयसि मनसि किमिति गुरुखेदम् । शृणु मम वचनमनीहितभेदम् ॥ 6 ॥
हरिरुपयातु वदतु बहुमधुरम् । किमिति करोषि हृदयमतिविधुरम् ॥ 7 ॥
श्रीजयदेवभणितमतिललितम् । सुखयतु रसिकजनं हरिचरितम् ॥ 8 ॥
स्निग्धे यत्परुषासि यत्प्रणमति स्तब्धासि यद्रागिणि द्वेषस्थासि यदुन्मुखे विमुखतां यातासि तस्मिन्प्रिये । युक्तं तद्विपरीतकारिणि तव श्रीखंडचर्चा विषं शीतांशुस्तपनो हिमं हुतवहः क्रीडामुदो यातनाः ॥ 52 ॥
॥ इति गीतगोविंदे कलहांतरितावर्णने मंदमुकुंदो नाम नवमः सर्गः ॥
Browse Related Categories: