Nitya Parayana · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
(कृ.य.तै.आ.4.36.1)
अत्रि॑णा त्वा क्रिमे हन्मि । कण्वे॑न ज॒मद॑ग्निना । वि॒श्वाव॑सो॒र्ब्रह्म॑णा ह॒तः । क्रिमी॑णा॒ग्ं॒ राजा᳚ । अप्ये॑षाग् स्थ॒पति॑र्ह॒तः । अथो॑ मा॒ताऽथो॑ पि॒ता । अथो᳚ स्थू॒रा अथो᳚ क्षु॒द्राः । अथो॑ कृ॒ष्णा अथो᳚ श्वे॒ताः । अथो॑ आ॒शाति॑का ह॒ताः । श्वे॒ताभि॑स्स॒ह सर्वे॑ ह॒ताः ॥ 36
आह॒राव॑द्य । शृ॒तस्य॑ ह॒विषो॒ यथा᳚ । तत्स॒त्यम् । यद॒मुं-यँ॒मस्य॒ जंभ॑योः । आद॑धामि॒ तथा॒ हि तत् । खण्फण्म्रसि॑ ॥ 37
ॐ शांतिः शांतिः शांतिः ।
Browse Related Categories:
Offered for worship and study, not as prediction. Non-commercial.