Sri Krishna · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
॥ द्वादशः सर्गः ॥ ॥ सुप्रीतपीतांबरः ॥
गतवति सखीवृंदेऽमंदत्रपाभरनिर्भर-स्मरपरवशाकूतस्फीतस्मितस्नपिताधरम् । सरसमनसं दृष्ट्वा राधां मुहुर्नवपल्लव-प्रसवशयने निक्षिप्ताक्षीमुवाच हरः ॥ 68 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
॥ गीतं 23 ॥
किसलयशयनतले कुरु कामिनि चरणनलिनविनिवेशम् । तव पदपल्लववैरिपराभवमिदमनुभवतु सुवेशम् ॥ क्षणमधुना नारायणमनुगतमनुसर राधिके ॥ 1 ॥
करकमलेन करोमि चरणमहमागमितासि विदूरम् । क्षणमुपकुरु शयनोपरि मामिव नूपुरमनुगतिशूरम् ॥ 2 ॥
वदनसुधानिधिगलितममृतमिव रचय वचनमनुकूलम् । विरहमिवापनयामि पयोधररोधकमुरसि दुकूलम् ॥ 3 ॥
प्रियपरिरंभणरभसवलितमिव पुलकितमतिदुरवापम् । मदुरसि कुचकलशं विनिवेशय शोषय मनसिजतापम् ॥ 4 ॥
अधरसुधारसमुपनय भाविनि जीवय मृतमिव दासम् । त्वयि विनिहितमनसं विरहानलदग्धवपुषमविलासम् ॥ 5 ॥
शशिमुखि मुखरय मणिरशनागुणमनुगुणकंठनिदानम् । श्रुतियुगले पिकरुतविकले मम शमय चिरादवसादम् ॥ 6 ॥
मामतिविफलरुषा विकलीकृतमवलोकितमधुनेदम् । मीलितलज्जितमिव नयनं तव विरम विसृज रतिखेदम् ॥ 7 ॥
श्रीजयदेवभणितमिदमनुपदनिगदितमधुरिपुमोदम् । जनयतु रसिकजनेषु मनोरमतिरसभावविनोदम् ॥ 8 ॥
मारंके रतिकेलिसंकुलरणारंभे तया साहस-प्रायं कांतजयाय किंचिदुपरि प्रारंभि यत्संभ्रमात् । निष्पंदा जघनस्थली शिथिलता दोर्वल्लिरुत्कंपितं वक्षो मीलितमक्षि पौरुषरसः स्त्रीणां कुतः सिध्यति ॥ 69 ॥
अथ कांतं रतिक्लांतमपि मंडनवांछया । निजगाद निराबाधा राधा स्वाधीनभर्तृका ॥ 70 ॥
॥ गीतं 24 ॥
कुरु यदुनंदन चंदनशिशिरतरेण करेण पयोधरे । मृगमदपत्रकमत्र मनोभवमंगलकलशसहोदरे । निजगाद सा यदुनंदने क्रीडति हृदयानंदने ॥ 1 ॥
अलिकुलगंजनमंजनकं रतिनायकसायकमोचने । त्वदधरचुंबनलंबितकज्जलमुज्ज्वलय प्रिय लोचने ॥ 2 ॥
नयनकुरंगतरंगविकासनिरासकरे श्रुतिमंडले । मनसिजपाशविलासधरे शुभवेश निवेशय कुंडले ॥ 3 ॥
भ्रमरचयं रचहयंतमुपरि रुचिरं सुचिरं मम संमुखे । जितकमले विमले परिकर्मय नर्मजनकमलकं मुखे ॥ 4 ॥
मृगमदरसवलितं ललितं कुरु तिलकमलिकरजनीकरे । विहितकलंककलं कमलानन विश्रमितश्रमशीकरे ॥ 5 ॥
मम रुचिरे चिकुरे कुरु मानद मानसजध्वजचामरे । रतिगलिते ललिते कुसुमानि शिखंडिशिखंडकडामरे ॥ 6 ॥
सरसघने जघने मम शंबरदारणवारणकंदरे । मणिरशनावसनाभरणानि शुभाशय वासय सुंदरे ॥ 7 ॥
श्रीजयदेववचसि रुचिरे हृदयं सदयं कुरु मंडने । हरिचरणस्मरणामृतकृतकलिकलुषभवज्वरखंडने ॥ 8 ॥
रचय कुचयोः पत्रं चित्रं कुरुष्व कपोलयो-र्घटय जघने कांचीमंच स्रजा कबरीभरम् । कलय वलयश्रेणीं पाणौ पदे कुरु नूपुरा-विति निगतितः प्रीतः पीतांबरोऽपि तथाकरोत् ॥ 71 ॥
यद्गांध्गर्वकलासु कौशलमनुध्यानं च यद्वैष्णवं यच्छृंगारविवेकतत्वमपि यत्काव्येषु लीलायितम् । तत्सर्वं जयदेवपंडितकवेः कृष्णैकतानात्मनः सानंदाः परिशोधयंतु सुधियः श्रीगीतगोविंदतः ॥ 72 ॥
श्रीभोजदेवप्रभवस्य रामादेवीसुतश्रीजयदेवकस्य । पराशरादिप्रियवर्गकंठे श्रीगीतगोविंदकवित्वमस्तु ॥ 73 ॥
॥ इति श्रीजयदेवकृतौ गीतगोविंदे सुप्रीतपीतांबरो नाम द्वादशः सर्गः ॥ ॥ इति गीतगोविंदं समाप्तम् ॥
Browse Related Categories: