Shiva · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
श्रीभैरव उवाच
देवेशि देहरक्षार्थं कारणं कथ्यतां ध्रुवम् । म्रियंते साधका येन विना श्मशानभूमिषु ॥ रणेषु चातिघोरेषु महावायुजलेषु च । शृंगिमकरवज्रेषु ज्वरादिव्याधिवह्निषु
श्रीदेव्युवाच
कथयामि शृणु प्राज्ञ बटोस्तु कवचं शुभम् । गोपनीयं प्रयत्नेन मातृजारोपमं यथा ॥ तस्य ध्यानं त्रिधा प्रोक्तं सात्त्विकादिप्रभेदतः । सात्त्विकं राजसं चैव तामसं देव तत् शृणु
ध्यानम् – वंदे बालं स्फटिकसदृशं कुंडलोद्भासिवक्त्रं दिव्याकल्पैर्नवमणिमयैः किंकिणीनूपुराद्यैः । दीप्ताकारं विशदवदनं सुप्रसन्नं त्रिनेत्रं हस्ताब्जाभ्यां बटुकमनिशं शूलखड्गौदधानम् ॥ 1 ॥
उद्यद्भास्करसन्निभं त्रिनयनं रक्तांगरागस्रजं स्मेरास्यं वरदं कपालमभयं शूलं दधानं करैः । नीलग्रीवमुदारभूषणशतं शीतांशुचूडोज्ज्वलं बंधूकारुणवाससं भयहरं देवं सदा भावये ॥ 2 ॥
ध्यायेन्नीलाद्रिकांतं शशिशकलधरं मुंडमालं महेशं दिग्वस्त्रं पिंगकेशं डमरुमथ सृणिं खड्गशूलाभयानि । नागं घंटां कपालं करसरसिरुहैर्विभ्रतं भीमदंष्ट्रं सर्पाकल्पं त्रिनेत्रं मणिमयविलसत्किंकिणी नूपुराढ्यम् ॥ 3 ॥
अस्य वटुकभैरवकवचस्य महाकाल ऋषिरनुष्टुप्छंदः श्रीवटुकभैरवो देवता बं बीजं ह्रीं शक्तिरापदुद्धारणायेति कीलकं मम सर्वाभीष्टसिद्ध्यर्थे विनियोगः ।
कवचम् – ॐ शिरो मे भैरवः पातु ललाटं भीषणस्तथा । नेत्रे च भूतहननः सारमेयानुगो भ्रुवौ ॥ 1
Offered for worship and study, not as prediction. Non-commercial.
भूतनाथश्च मे कर्णौ कपोलौ प्रेतवाहनः । नासापुटौ तथोष्ठौ च भस्मांगः सर्वभूषणः ॥ 2
भीषणास्यो ममास्यं च शक्तिहस्तो गलं मम । स्कंधौ दैत्यरिपुः पातु बाहू अतुलविक्रमः ॥ 3
पाणी कपाली मे पातु मुंडमालाधरो हृदम् । वक्षःस्थलं तथा शांतः कामचारी स्तनं मम ॥ 4
उदरं च स मे तुष्टः क्षेत्रेशः पार्श्वतस्तथा । क्षेत्रपालः पृष्ठदेशं क्षेत्राख्यो नाभितस्तथा ॥ 5
कटिं पापौघनाशश्च बटुको लिंगदेशकम् । गुदं रक्षाकरः पातु ऊरू रक्षाकरः सदा ॥ 6
जानू च घुर्घुरारावो जंघे रक्षतु रक्तपः । गुल्फौ च पादुकासिद्धः पादपृष्ठं सुरेश्वरः ॥ 7
आपादमस्तकं चैव आपदुद्धारणस्तथा । सहस्रारे महापद्मे कर्पूरधवलो गुरुः ॥ 8
पातु मां वटुको देवो भैरवः सर्वकर्मसु । पूर्व स्यामसितांगो मे दिशि रक्षतु सर्वदा ॥ 9
आग्नेय्यां च रुरुः पातु दक्षिणे चंडभैरवः । नैरृत्यां क्रोधनः पातु मामुन्मत्तस्तु पश्चिमे ॥ 10
वायव्यां मे कपाली च नित्यं पायात् सुरेश्वरः । भीषणो भैरवः पातूत्तरस्यां दिशि सर्वदा ॥ 11
संहारभैरवः पातु दिश्यैशान्यां महेश्वरः । ऊर्ध्वे पातु विधाता वै पाताले नंदिको विभुः ॥ 12
सद्योजातस्तु मां पायात् सर्वतो देवसेवितः । वामदेवोऽवतु प्रीतो रणे घोरे तथावतु ॥ 13
जले तत्पुरुषः पातु स्थले पातु गुरुः सदा । डाकिनीपुत्रकः पातु दारांस्तु लाकिनीसुतः ॥ 14
पातु साकलको भ्रातॄन् श्रियं मे सततं गिरः । लाकिनीपुत्रकः पातु पशूनश्वानजांस्तथा ॥ 15
महाकालोऽवतु च्छत्रं सैन्यं वै कालभैरवः । राज्यं राज्यश्रियं पायात् भैरवो भीतिहारकः ॥ 16
रक्षाहीनंतु यत् स्थानं वर्जितं कवचेन च । तत् सर्वं रक्ष मे देव त्वं यतः सर्वरक्षकः ॥ 17
एतत् कवचमीशान तव स्नेहात् प्रकाशितम् । नाख्येयं नरलोकेषु सारभूतं च सुश्रियम् ॥ 18
यस्मै कस्मै न दातव्यं कवचेशं सुदुर्लभम् । न देयं परशिष्येभ्यः कृपणेभ्यश्च शंकर ॥ 19
यो ददाति निषिद्धेभ्यः स वै भ्रष्टो भवेद्ध्रुवम् । अनेन कवचेशेन रक्षां कृत्वा द्विजोत्तमः ॥ 20
विचरन् यत्र कुत्रापि विघ्नौघैः प्राप्यते न सः । मंत्रेण म्रियते योगी कवचं यन्न रक्षितः ॥ 21
तस्मात् सर्वप्रयत्नेन दुर्लभं पापचेतसाम् । भूर्जे रंभात्वचे वापि लिखित्वा विधिवत् प्रभो ॥ 22
धारयेत् पाठयेद्वापि संपठेद्वापि नित्यशः । संप्राप्नोति प्रभावं वै कवचस्यास्य वर्णितम् ॥ 23
नमो भैरवदेवाय सारभूताय वै नमः । नमस्त्रैलोक्यनाथाय नाथनाथाय वै नमः ॥ 24
इति विश्वसारोद्धारतंत्रे आपदुद्धारकल्पे भैरवभैरवीसंवादे वटुकभैरवकवचं समाप्तम् ॥
Browse Related Categories: