Hanuma · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
ॐ हनुमते नमः । ॐ श्रीप्रदाय नमः । ॐ वायुपुत्राय नमः । ॐ रुद्राय नमः । ॐ नयाय नमः । ॐ अजराय नमः । ॐ अमृत्यवे नमः । ॐ वीरवीराय नमः । ॐ ग्रामवासाय नमः । ॐ जनाश्रयाय नमः । ॐ धनदाय नमः । ॐ निर्गुणाकाराय नमः । ॐ वीराय नमः । ॐ निधिपतये नमः । ॐ मुनये नमः । ॐ पिंगाक्षाय नमः । ॐ वरदाय नमः । ॐ वाग्मिने नमः । ॐ सीताशोकविनाशनाय नमः । ॐ शिवाय नमः । 20
ॐ शर्वाय नमः । ॐ पराय नमः । ॐ अव्यक्ताय नमः । ॐ व्यक्ताव्यक्ताय नमः । ॐ धराधराय नमः । ॐ पिंगकेशाय नमः । ॐ पिंगरोमाय नमः । ॐ श्रुतिगम्याय नमः । ॐ सनातनाय नमः । ॐ अनादये नमः । ॐ भगवते नमः । ॐ दिव्याय नमः । ॐ विश्वहेतवे नमः । ॐ नराश्रयाय नमः । ॐ आरोग्यकर्त्रे नमः । ॐ विश्वेशाय नमः । ॐ विश्वनाथाय नमः । ॐ हरीश्वराय नमः । ॐ भर्गाय नमः । ॐ रामाय नमः । 40
ॐ रामभक्ताय नमः । ॐ कल्याणप्रकृतीश्वराय नमः । ॐ विश्वंभराय नमः । ॐ विश्वमूर्तये नमः । ॐ विश्वाकाराय नमः । ॐ विश्वपाय नमः । ॐ विश्वात्मने नमः । ॐ विश्वसेव्याय नमः । ॐ विश्वाय नमः । ॐ विश्वधराय नमः । ॐ रवये नमः । ॐ विश्वचेष्टाय नमः । ॐ विश्वगम्याय नमः । ॐ विश्वध्येयाय नमः । ॐ कलाधराय नमः । ॐ प्लवंगमाय नमः । ॐ कपिश्रेष्ठाय नमः । ॐ ज्येष्ठाय नमः । ॐ वेद्याय नमः । ॐ वनेचराय नमः । 60
ॐ बालाय नमः । ॐ वृद्धाय नमः । ॐ यूने नमः । ॐ तत्त्वाय नमः । ॐ तत्त्वगम्याय नमः । ॐ सखिने नमः । ॐ अजाय नमः । ॐ अंजनासूनवे नमः । ॐ अव्यग्राय नमः । ॐ ग्रामस्यांताय नमः । ॐ धराधराय नमः । ॐ भूर्लोकाय नमः । ॐ भुवर्लोकाय नमः । ॐ स्वर्लोकाय नमः । ॐ महर्लोकाय नमः । ॐ जनोलोकाय नमः । ॐ तपोलोकाय नमः । ॐ अव्ययाय नमः । ॐ सत्याय नमः । ॐ ॐकारगम्याय नमः । 80
ॐ प्रणवाय नमः । ॐ व्यापकाय नमः । ॐ अमलाय नमः । ॐ शिवधर्मप्रतिष्ठात्रे नमः । ॐ रामेष्टाय नमः । ॐ फल्गुनप्रियाय नमः । ॐ गोष्पदीकृतवारीशाय नमः । ॐ पूर्णकामाय नमः । ॐ धरापतये नमः । ॐ रक्षोघ्नाय नमः । ॐ पुंडरीकाक्षाय नमः । ॐ शरणागतवत्सलाय नमः । ॐ जानकीप्राणदात्रे नमः । ॐ रक्षःप्राणापहारकाय नमः । ॐ पूर्णाय नमः । ॐ सत्याय नमः । ॐ पीतवाससे नमः । ॐ दिवाकरसमप्रभाय नमः । ॐ द्रोणहर्त्रे नमः । ॐ शक्तिनेत्रे नमः । 100
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
ॐ शक्तिराक्षसमारकाय नमः । ॐ अक्षघ्नाय नमः । ॐ रामदूताय नमः । ॐ शाकिनीजीविताहराय नमः । ॐ बुभूकारहतारातये नमः । ॐ गर्वपर्वतमर्दनाय नमः । ॐ हेतवे नमः । ॐ अहेतवे नमः । ॐ प्रांशवे नमः । ॐ विश्वकर्त्रे नमः । ॐ जगद्गुरवे नमः । ॐ जगन्नाथाय नमः । ॐ जगन्नेत्रे नमः । ॐ जगदीशाय नमः । ॐ जनेश्वराय नमः । ॐ जगत्श्रिताय नमः । ॐ हरये नमः । ॐ श्रीशाय नमः । ॐ गरुडस्मयभंजकाय नमः । ॐ पार्थध्वजाय नमः । 120
ॐ वायुपुत्राय नमः । ॐ सितपुच्छाय नमः । ॐ अमितप्रभाय नमः । ॐ ब्रह्मपुच्छाय नमः । ॐ परब्रह्मपुच्छाय नमः । ॐ रामेष्टकारकाय नमः । ॐ सुग्रीवादियुताय नमः । ॐ ज्ञानिने नमः । ॐ वानराय नमः । ॐ वानरेश्वराय नमः । ॐ कल्पस्थायिने नमः । ॐ चिरंजीविने नमः । ॐ प्रसन्नाय नमः । ॐ सदाशिवाय नमः । ॐ सन्मतये नमः । ॐ सद्गतये नमः । ॐ भुक्तिमुक्तिदाय नमः । ॐ कीर्तिदायकाय नमः । ॐ कीर्तये नमः । ॐ कीर्तिप्रदाय नमः । 140
ॐ समुद्राय नमः । ॐ श्रीप्रदाय नमः । ॐ शिवाय नमः । ॐ उदधिक्रमणाय नमः । ॐ देवाय नमः । ॐ संसारभयनाशनाय नमः । ॐ वालिबंधनकृते नमः । ॐ विश्वजेत्रे नमः । ॐ विश्वप्रतिष्ठिताय नमः । ॐ लंकारये नमः । ॐ कालपुरुषाय नमः । ॐ लंकेशगृहभंजनाय नमः । ॐ भूतावासाय नमः । ॐ वासुदेवाय नमः । ॐ वसवे नमः । ॐ त्रिभुवनेश्वराय नमः । ॐ श्रीरामरूपाय नमः । ॐ कृष्णरूपाय नमः । ॐ लंकाप्रासादभंजनाय नमः । ॐ कृष्णाय नमः । 160
ॐ कृष्णस्तुताय नमः । ॐ शांताय नमः । ॐ शांतिदाय नमः । ॐ विश्वभावनाय नमः । ॐ विश्वभोक्त्रे नमः । ॐ मारघ्नाय नमः । ॐ ब्रह्मचारिणे नमः । ॐ जितेंद्रियाय नमः । ॐ ऊर्ध्वगाय नमः । ॐ लांगुलिने नमः । ॐ मालिने नमः । ॐ लांगूलाहतराक्षसाय नमः । ॐ समीरतनुजाय नमः । ॐ वीराय नमः । ॐ वीरमाराय नमः । ॐ जयप्रदाय नमः । ॐ जगन्मंगलदाय नमः । ॐ पुण्याय नमः । ॐ पुण्यश्रवणकीर्तनाय नमः । ॐ पुण्यकीर्तये नमः । 180
ॐ पुण्यगीतये नमः । ॐ जगत्पावनपावनाय नमः । ॐ देवेशाय नमः । ॐ अमितरोम्णे नमः । ॐ रामभक्तविधायकाय नमः । ॐ ध्यात्रे नमः । ॐ ध्येयाय नमः । ॐ जगत्साक्षिणे नमः । ॐ चेतसे नमः । ॐ चैतन्यविग्रहाय नमः । ॐ ज्ञानदाय नमः । ॐ प्राणदाय नमः । ॐ प्राणाय नमः । ॐ जगत्प्राणाय नमः । ॐ समीरणाय नमः । ॐ विभीषणप्रियाय नमः । ॐ शूराय नमः । ॐ पिप्पलाश्रयसिद्धिदाय नमः । ॐ सिद्धाय नमः । ॐ सिद्धाश्रयाय नमः । 200
ॐ कालाय नमः । ॐ कालभक्षकपूजिताय नमः । ॐ लंकेशनिधनस्थायिने नमः । ॐ लंकादाहकाय नमः । ॐ ईश्वराय नमः । ॐ चंद्रसूर्याग्निनेत्राय नमः । ॐ कालाग्नये नमः । ॐ प्रलयांतकाय नमः । ॐ कपिलाय नमः । ॐ कपिशाय नमः । ॐ पुण्यरातये नमः । ॐ द्वादशराशिगाय नमः । ॐ सर्वाश्रयाय नमः । ॐ अप्रमेयात्मने नमः । ॐ रेवत्यादिनिवारकाय नमः । ॐ लक्ष्मणप्राणदात्रे नमः । ॐ सीताजीवनहेतुकाय नमः । ॐ रामध्यायिने नमः । ॐ हृषीकेशाय नमः । ॐ विष्णुभक्ताय नमः । 220
ॐ जटिने नमः । ॐ बलिने नमः । ॐ देवारिदर्पघ्ने नमः । ॐ होत्रे नमः । ॐ धात्रे नमः । ॐ कर्त्रे नमः । ॐ जगत्प्रभवे नमः । ॐ नगरग्रामपालाय नमः । ॐ शुद्धाय नमः । ॐ बुद्धाय नमः । ॐ निरंतराय नमः । ॐ निरंजनाय नमः । ॐ निर्विकल्पाय नमः । ॐ गुणातीताय नमः । ॐ भयंकराय नमः । ॐ हनुमते नमः । ॐ दुराराध्याय नमः । ॐ तपःसाध्याय नमः । ॐ महेश्वराय नमः । ॐ जानकीघनशोकोत्थतापहर्त्रे नमः । 240
ॐ पराशराय नमः । ॐ वाङ्मयाय नमः । ॐ सदसद्रूपाय नमः । ॐ कारणाय नमः । ॐ प्रकृतेः पराय नमः । ॐ भाग्यदाय नमः । ॐ निर्मलाय नमः । ॐ नेत्रे नमः । ॐ पुच्छलंकाविदाहकाय नमः । ॐ पुच्छबद्धाय नमः । ॐ यातुधानाय नमः । ॐ यातुधानरिपुप्रियाय नमः । ॐ छायापहारिणे नमः । ॐ भूतेशाय नमः । ॐ लोकेशाय नमः । ॐ सद्गतिप्रदाय नमः । ॐ प्लवंगमेश्वराय नमः । ॐ क्रोधाय नमः । ॐ क्रोधसंरक्तलोचनाय नमः । ॐ क्रोधहर्त्रे नमः । 260
ॐ तापहर्त्रे नमः । ॐ भक्ताभयवरप्रदाय नमः । ॐ भक्तानुकंपिने नमः । ॐ विश्वेशाय नमः । ॐ पुरुहूताय नमः । ॐ पुरंदराय नमः । ॐ अग्नये नमः । ॐ विभावसवे नमः । ॐ भास्वते नमः । ॐ यमाय नमः । ॐ निरृतये नमः । ॐ वरुणाय नमः । ॐ वायुगतिमते नमः । ॐ वायवे नमः । ॐ कुबेराय नमः । ॐ ईश्वराय नमः । ॐ रवये नमः । ॐ चंद्राय नमः । ॐ कुजाय नमः । ॐ सौम्याय नमः । 280
ॐ गुरवे नमः । ॐ काव्याय नमः । ॐ शनैश्चराय नमः । ॐ राहवे नमः । ॐ केतवे नमः । ॐ मरुते नमः । ॐ दात्रे नमः । ॐ धात्रे नमः । ॐ हर्त्रे नमः । ॐ समीरजाय नमः । ॐ मशकीकृतदेवारये नमः । ॐ दैत्यारये नमः । ॐ मधुसूदनाय नमः । ॐ कामाय नमः । ॐ कपये नमः । ॐ कामपालाय नमः । ॐ कपिलाय नमः । ॐ विश्वजीवनाय नमः । ॐ भागीरथीपदांभोजाय नमः । ॐ सेतुबंधविशारदाय नमः । 300
ॐ स्वाहायै नमः । ॐ स्वधायै नमः । ॐ हविषे नमः । ॐ कव्याय नमः । ॐ हव्यवाहाय नमः । ॐ प्रकाशकाय नमः । ॐ स्वप्रकाशाय नमः । ॐ महावीराय नमः । ॐ मधुराय नमः । ॐ अमितविक्रमाय नमः । ॐ उड्डीनोड्डीनगतिमते नमः । ॐ सद्गतये नमः । ॐ पुरुषोत्तमाय नमः । ॐ जगदात्मने नमः । ॐ जगद्योनये नमः । ॐ जगदंताय नमः । ॐ अनंतराय नमः । ॐ विपाप्मने नमः । ॐ निष्कलंकाय नमः । ॐ महते नमः । 320
ॐ महदहंकृतये नमः । ॐ खाय नमः । ॐ वायवे नमः । ॐ पृथिव्यै नमः । ॐ अद्भ्यः नमः । ॐ वह्नये नमः । ॐ दिशे नमः । ॐ कालाय नमः । ॐ एकलाय नमः । ॐ क्षेत्रज्ञाय नमः । ॐ क्षेत्रपालाय नमः । ॐ पल्वलीकृतसागराय नमः । ॐ हिरण्मयाय नमः । ॐ पुराणाय नमः । ॐ खेचराय नमः । ॐ भूचराय नमः । ॐ मनवे नमः । ॐ हिरण्यगर्भाय नमः । ॐ सूत्रात्मने नमः । ॐ राजराजाय नमः । 340
ॐ विशां पतये नमः । ॐ वेदांतवेद्याय नमः । ॐ उद्गीथाय नमः । ॐ वेदांगाय नमः । ॐ वेदपारगाय नमः । ॐ प्रतिग्रामस्थिताय नमः । ॐ सद्यः स्फूर्तिदात्रे नमः । ॐ गुणाकराय नमः । ॐ नक्षत्रमालिने नमः । ॐ भूतात्मने नमः । ॐ सुरभये नमः । ॐ कल्पपादपाय नमः । ॐ चिंतामणये नमः । ॐ गुणनिधये नमः । ॐ प्रजाद्वाराय नमः । ॐ अनुत्तमाय नमः । ॐ पुण्यश्लोकाय नमः । ॐ पुरारातये नमः । ॐ मतिमते नमः । ॐ शर्वरीपतये नमः । 360
ॐ किल्किलारावसंत्रस्तभूतप्रेतपिशाचकाय नमः । ॐ ऋणत्रयहराय नमः । ॐ सूक्ष्माय नमः । ॐ स्थूलाय नमः । ॐ सर्वगतये नमः । ॐ पुंसे नमः । ॐ अपस्मारहराय नमः । ॐ स्मर्त्रे नमः । ॐ श्रुतये नमः । ॐ गाथाय नमः । ॐ स्मृतये नमः । ॐ मनवे नमः । ॐ स्वर्गद्वाराय नमः । ॐ प्रजाद्वाराय नमः । ॐ मोक्षद्वाराय नमः । ॐ यतीश्वराय नमः । ॐ नादरूपाय नमः । ॐ परस्मै ब्रह्मणे नमः । ॐ ब्रह्मणे नमः । ॐ ब्रह्मपुरातनाय नमः । 380
ॐ एकाय नमः । ॐ अनेकाय नमः । ॐ जनाय नमः । ॐ शुक्लाय नमः । ॐ स्वयंज्योतिषे नमः । ॐ अनाकुलाय नमः । ॐ ज्योतिर्ज्योतिषे नमः । ॐ अनादये नमः । ॐ सात्त्विकाय नमः । ॐ राजसाय नमः । ॐ तमसे नमः । ॐ तमोहर्त्रे नमः । ॐ निरालंबाय नमः । ॐ निराकाराय नमः । ॐ गुणाकराय नमः । ॐ गुणाश्रयाय नमः । ॐ गुणमयाय नमः । ॐ बृहत्कायाय नमः । ॐ बृहद्यशसे नमः । ॐ बृहद्धनुषे नमः । 400
ॐ बृहत्पादाय नमः । ॐ बृहन्मूर्ध्ने नमः । ॐ बृहत्स्वनाय नमः । ॐ बृहत्कर्णाय नमः । ॐ बृहन्नासाय नमः । ॐ बृहद्बाहवे नमः । ॐ बृहत्तनवे नमः । ॐ बृहद्गलाय नमः । ॐ बृहत्कायाय नमः । ॐ बृहत्पुच्छाय नमः । ॐ बृहत्कराय नमः । ॐ बृहद्गतये नमः । ॐ बृहत्सेवाय नमः । ॐ बृहल्लोकफलप्रदाय नमः । ॐ बृहद्भक्तये नमः । ॐ बृहद्वांछाफलदाय नमः । ॐ बृहदीश्वराय नमः । ॐ बृहल्लोकनुताय नमः । ॐ द्रष्ट्रे नमः । ॐ विद्यादात्रे नमः । 420
ॐ जगद्गुरवे नमः । ॐ देवाचार्याय नमः । ॐ सत्यवादिने नमः । ॐ ब्रह्मवादिने नमः । ॐ कलाधराय नमः । ॐ सप्तपातालगामिने नमः । ॐ मलयाचलसंश्रयाय नमः । ॐ उत्तराशास्थिताय नमः । ॐ श्रीशाय नमः । ॐ दिव्यौषधिवशाय नमः । ॐ खगाय नमः । ॐ शाखामृगाय नमः । ॐ कपींद्राय नमः । ॐ पुराणाय नमः । ॐ प्राणचंचुराय नमः । ॐ चतुराय नमः । ॐ ब्राह्मणाय नमः । ॐ योगिने नमः । ॐ योगिगम्याय नमः । ॐ पराय नमः । 440
ॐ अवराय नमः । ॐ अनादिनिधनाय नमः । ॐ व्यासाय नमः । ॐ वैकुंठाय नमः । ॐ पृथिवीपतये नमः । ॐ अपराजिताय नमः । ॐ जितारातये नमः । ॐ सदानंददाय नमः । ॐ ईशित्रे नमः । ॐ गोपालाय नमः । ॐ गोपतये नमः । ॐ योद्धाय नमः । ॐ कलये नमः । ॐ स्फालाय नमः । ॐ परात्पराय नमः । ॐ मनोवेगिने नमः । ॐ सदायोगिने नमः । ॐ संसारभयनाशनाय नमः । ॐ तत्त्वदात्रे नमः । ॐ तत्त्वज्ञाय नमः । 460
ॐ तत्त्वाय नमः । ॐ तत्त्वप्रकाशकाय नमः । ॐ शुद्धाय नमः । ॐ बुद्धाय नमः । ॐ नित्ययुक्ताय नमः । ॐ भक्ताकाराय नमः । ॐ जगद्रथाय नमः । ॐ प्रलयाय नमः । ॐ अमितमायाय नमः । ॐ मायातीताय नमः । ॐ विमत्सराय नमः । ॐ मायानिर्जितरक्षसे नमः । ॐ मायानिर्मितविष्टपाय नमः । ॐ मायाश्रयाय नमः । ॐ निर्लेपाय नमः । ॐ मायानिर्वर्तकाय नमः । ॐ सुखिने नमः । ॐ सुखाय नमः । ॐ सुखप्रदाय नमः । ॐ नागाय नमः । 480
ॐ महेशकृतसंस्तवाय नमः । ॐ महेश्वराय नमः । ॐ सत्यसंधाय नमः । ॐ शरभाय नमः । ॐ कलिपावनाय नमः । ॐ रसाय नमः । ॐ रसज्ञाय नमः । ॐ सते नमः । ॐ मानाय नमः । ॐ रूपाय नमः । ॐ चक्षुषे नमः । ॐ श्रुतये नमः । ॐ रवाय नमः । ॐ घ्राणाय नमः । ॐ गंधाय नमः । ॐ स्पर्शनाय नमः । ॐ स्पर्शाय नमः । ॐ हिंकारमानगाय नमः । ॐ नेतिनेतीतिगम्याय नमः । ॐ वैकुंठभजनप्रियाय नमः । 500
ॐ गिरिशाय नमः । ॐ गिरिजाकांताय नमः । ॐ दुर्वाससे नमः । ॐ कवये नमः । ॐ अंगिरसे नमः । ॐ भृगवे नमः । ॐ वसिष्ठाय नमः । ॐ च्यवनाय नमः । ॐ नारदाय नमः । ॐ तुंबुरवे नमः । ॐ हराय नमः । ॐ विश्वक्षेत्राय नमः । ॐ विश्वबीजाय नमः । ॐ विश्वनेत्राय नमः । ॐ विश्वपाय नमः । ॐ याजकाय नमः । ॐ यजमानाय नमः । ॐ पावकाय नमः । ॐ पितृभ्यः नमः । ॐ श्रद्धये नमः । 520
ॐ बुद्धये नमः । ॐ क्षमाय नमः । ॐ तंद्राय नमः । ॐ मंत्राय नमः । ॐ मंत्रयित्रे नमः । ॐ सुराय नमः । ॐ राजेंद्राय नमः । ॐ भूपतये नमः । ॐ रूढाय नमः । ॐ मालिने नमः । ॐ संसारसारथये नमः । ॐ नित्याय नमः । ॐ संपूर्णकामाय नमः । ॐ भक्तकामदुहे नमः । ॐ उत्तमाय नमः । ॐ गणपाय नमः । ॐ केशवाय नमः । ॐ भ्रात्रे नमः । ॐ पित्रे नमः । ॐ मात्रे नमः । 540
ॐ मारुतये नमः । ॐ सहस्रमूर्ध्ने नमः । ॐ सहस्रास्याय नमः । ॐ सहस्राक्षाय नमः । ॐ सहस्रपदे नमः । ॐ कामजिते नमः । ॐ कामदहनाय नमः । ॐ कामाय नमः । ॐ काम्यफलप्रदाय नमः । ॐ मुद्रोपहारिणे नमः । ॐ रक्षोघ्नाय नमः । ॐ क्षितिभारहराय नमः । ॐ बलाय नमः । ॐ नखदंष्ट्रायुधाय नमः । ॐ विष्णुभक्ताय नमः । ॐ भक्ताभयप्रदाय नमः । ॐ दर्पघ्ने नमः । ॐ दर्पदाय नमः । ॐ दंष्ट्राशतमूर्तये नमः । ॐ अमूर्तिमते नमः । 560
ॐ महानिधये नमः । ॐ महाभागाय नमः । ॐ महाभर्गाय नमः । ॐ महर्धिदाय नमः । ॐ महाकाराय नमः । ॐ महायोगिने नमः । ॐ महातेजाय नमः । ॐ महाद्युतये नमः । ॐ महाकर्मणे नमः । ॐ महानादाय नमः । ॐ महामंत्राय नमः । ॐ महामतये नमः । ॐ महाशमाय नमः । ॐ महोदाराय नमः । ॐ महादेवात्मकाय नमः । ॐ विभवे नमः । ॐ रुद्रकर्मणे नमः । ॐ क्रूरकर्मणे नमः । ॐ रत्ननाभाय नमः । ॐ कृतागमाय नमः । 580
ॐ अंभोधिलंघनाय नमः । ॐ सिद्धाय नमः । ॐ सत्यधर्मणे नमः । ॐ प्रमोदनाय नमः । ॐ जितामित्राय नमः । ॐ जयाय नमः । ॐ सोमाय नमः । ॐ विजयाय नमः । ॐ वायुवाहनाय नमः । ॐ जीवाय नमः । ॐ धात्रे नमः । ॐ सहस्रांशवे नमः । ॐ मुकुंदाय नमः । ॐ भूरिदक्षिणाय नमः । ॐ सिद्धार्थाय नमः । ॐ सिद्धिदाय नमः । ॐ सिद्धाय नमः । ॐ संकल्पाय नमः । ॐ सिद्धिहेतुकाय नमः । ॐ सप्तपातालचरणाय नमः । 600
ॐ सप्तर्षिगणवंदिताय नमः । ॐ सप्ताब्धिलंघनाय नमः । ॐ वीराय नमः । ॐ सप्तद्वीपोरुमंडलाय नमः । ॐ सप्तांगराज्यसुखदाय नमः । ॐ सप्तमातृनिषेविताय नमः । ॐ सप्तलोकैकमकुटाय नमः । ॐ सप्तहोत्राय नमः । ॐ स्वराश्रयाय नमः । ॐ सप्तसामोपगीताय नमः । ॐ सप्तपातालसंश्रयाय नमः । ॐ सप्तच्छंदोनिधये नमः । ॐ सप्तच्छंदाय नमः । ॐ सप्तजनाश्रयाय नमः । ॐ मेधादाय नमः । ॐ कीर्तिदाय नमः । ॐ शोकहारिणे नमः । ॐ दौर्भाग्यनाशनाय नमः । ॐ सर्ववश्यकराय नमः । ॐ गर्भदोषघ्ने नमः । 620
ॐ पुत्रपौत्रदाय नमः । ॐ प्रतिवादिमुखस्तंभाय नमः । ॐ रुष्टचित्तप्रसादनाय नमः । ॐ पराभिचारशमनाय नमः । ॐ दुःखघ्ने नमः । ॐ बंधमोक्षदाय नमः । ॐ नवद्वारपुराधाराय नमः । ॐ नवद्वारनिकेतनाय नमः । ॐ नरनारायणस्तुत्याय नमः । ॐ नवनाथमहेश्वराय नमः । ॐ मेखलिने नमः । ॐ कवचिने नमः । ॐ खड्गिने नमः । ॐ भ्राजिष्णवे नमः । ॐ जिष्णुसारथये नमः । ॐ बहुयोजनविस्तीर्णपुच्छाय नमः । ॐ पुच्छहतासुराय नमः । ॐ दुष्टहंत्रे नमः । ॐ नियमित्रे नमः । ॐ पिशाचग्रहशातनाय नमः । 640
ॐ बालग्रहविनाशिने नमः । ॐ धर्मनेत्रे नमः । ॐ कृपाकराय नमः । ॐ उग्रकृत्याय नमः । ॐ उग्रवेगाय नमः । ॐ उग्रनेत्राय नमः । ॐ शतक्रतवे नमः । ॐ शतमन्युस्तुताय नमः । ॐ स्तुत्याय नमः । ॐ स्तुतये नमः । ॐ स्तोत्रे नमः । ॐ महाबलाय नमः । ॐ समग्रगुणशालिने नमः । ॐ व्यग्राय नमः । ॐ रक्षोविनाशनाय नमः । ॐ रक्षोग्निदावाय नमः । ॐ ब्रह्मेशाय नमः । ॐ श्रीधराय नमः । ॐ भक्तवत्सलाय नमः । ॐ मेघनादाय नमः । 660
ॐ मेघरूपाय नमः । ॐ मेघवृष्टिनिवारणाय नमः । ॐ मेघजीवनहेतवे नमः । ॐ मेघश्यामाय नमः । ॐ परात्मकाय नमः । ॐ समीरतनयाय नमः । ॐ धात्रे नमः । ॐ तत्त्वविद्याविशारदाय नमः । ॐ अमोघाय नमः । ॐ अमोघवृष्टये नमः । ॐ अभीष्टदाय नमः । ॐ अनिष्टनाशनाय नमः । ॐ अर्थाय नमः । ॐ अनर्थापहारिणे नमः । ॐ समर्थाय नमः । ॐ रामसेवकाय नमः । ॐ अर्थिने नमः । ॐ धन्याय नमः । ॐ असुरारातये नमः । ॐ पुंडरीकाक्षाय नमः । 680
ॐ आत्मभुवे नमः । ॐ संकर्षणाय नमः । ॐ विशुद्धात्मने नमः । ॐ विद्याराशये नमः । ॐ सुरेश्वराय नमः । ॐ अचलोद्धारकाय नमः । ॐ नित्याय नमः । ॐ सेतुकृते नमः । ॐ रामसारथये नमः । ॐ आनंदाय नमः । ॐ परमानंदाय नमः । ॐ मत्स्याय नमः । ॐ कूर्माय नमः । ॐ निधये नमः । ॐ शयाय नमः । ॐ वराहाय नमः । ॐ नारसिंहाय नमः । ॐ वामनाय नमः । ॐ जमदग्निजाय नमः । ॐ रामाय नमः । 700
ॐ कृष्णाय नमः । ॐ शिवाय नमः । ॐ बुद्धाय नमः । ॐ कल्किने नमः । ॐ रामाश्रयाय नमः । ॐ हरये नमः । ॐ नंदिने नमः । ॐ भृंगिणे नमः । ॐ चंडिने नमः । ॐ गणेशाय नमः । ॐ गणसेविताय नमः । ॐ कर्माध्यक्षाय नमः । ॐ सुरारामाय नमः । ॐ विश्रामाय नमः । ॐ जगतीपतये नमः । ॐ जगन्नाथाय नमः । ॐ कपीशाय नमः । ॐ सर्वावासाय नमः । ॐ सदाश्रयाय नमः । ॐ सुग्रीवादिस्तुताय नमः । 720
ॐ दांताय नमः । ॐ सर्वकर्मणे नमः । ॐ प्लवंगमाय नमः । ॐ नखदारितरक्षसे नमः । ॐ नखयुद्धविशारदाय नमः । ॐ कुशलाय नमः । ॐ सुधनाय नमः । ॐ शेषाय नमः । ॐ वासुकये नमः । ॐ तक्षकाय नमः । ॐ स्वर्णवर्णाय नमः । ॐ बलाढ्याय नमः । ॐ पुरुजेत्रे नमः । ॐ अघनाशनाय नमः । ॐ कैवल्यदीपाय नमः । ॐ कैवल्याय नमः । ॐ गरुडाय नमः । ॐ पन्नगाय नमः । ॐ गुरवे नमः । ॐ क्लीक्लीरावहतारातिगर्वाय नमः । 740
ॐ पर्वतभेदनाय नमः । ॐ वज्रांगाय नमः । ॐ वज्रवक्त्राय नमः । ॐ भक्तवज्रनिवारकाय नमः । ॐ नखायुधाय नमः । ॐ मणिग्रीवाय नमः । ॐ ज्वालामालिने नमः । ॐ भास्कराय नमः । ॐ प्रौढप्रतापाय नमः । ॐ तपनाय नमः । ॐ भक्ततापनिवारकाय नमः । ॐ शरणाय नमः । ॐ जीवनाय नमः । ॐ भोक्त्रे नमः । ॐ नानाचेष्टाय नमः । ॐ चंचलाय नमः । ॐ स्वस्थाय नमः । ॐ अस्वास्थ्यघ्ने नमः । ॐ दुःखशातनाय नमः । ॐ पवनात्मजाय नमः । 760
ॐ पवनाय नमः । ॐ पावनाय नमः । ॐ कांताय नमः । ॐ भक्तांगाय नमः । ॐ सहनाय नमः । ॐ बलाय नमः । ॐ मेघनादरिपवे नमः । ॐ मेघनादसंहृतराक्षसाय नमः । ॐ क्षराय नमः । ॐ अक्षराय नमः । ॐ विनीतात्मने नमः । ॐ वानरेशाय नमः । ॐ सतांगतये नमः । ॐ श्रीकंठाय नमः । ॐ शितिकंठाय नमः । ॐ सहायाय नमः । ॐ सहनायकाय नमः । ॐ अस्थूलाय नमः । ॐ अनणवे नमः । ॐ भर्गाय नमः । 780
ॐ देवसंसृतिनाशनाय नमः । ॐ अध्यात्मविद्यासाराय नमः । ॐ अध्यात्मकुशलाय नमः । ॐ सुधिये नमः । ॐ अकल्मषाय नमः । ॐ सत्यहेतवे नमः । ॐ सत्यदाय नमः । ॐ सत्यगोचराय नमः । ॐ सत्यगर्भाय नमः । ॐ सत्यरूपाय नमः । ॐ सत्याय नमः । ॐ सत्यपराक्रमाय नमः । ॐ अंजनाप्राणलिंगाय नमः । ॐ वायुवंशोद्भवाय नमः । ॐ श्रुतये नमः । ॐ भद्ररूपाय नमः । ॐ रुद्ररूपाय नमः । ॐ सुरूपाय नमः । ॐ चित्ररूपधृशे नमः । ॐ मैनाकवंदिताय नमः । 800
ॐ सूक्ष्मदर्शनाय नमः । ॐ विजयाय नमः । ॐ जयाय नमः । ॐ क्रांतदिङ्मंडलाय नमः । ॐ रुद्राय नमः । ॐ प्रकटीकृतविक्रमाय नमः । ॐ कंबुकंठाय नमः । ॐ प्रसन्नात्मने नमः । ॐ ह्रस्वनासाय नमः । ॐ वृकोदराय नमः । ॐ लंबोष्ठाय नमः । ॐ कुंडलिने नमः । ॐ चित्रमालिने नमः । ॐ योगविदां वराय नमः । ॐ विपश्चिते नमः । ॐ कवये नमः । ॐ आनंदविग्रहाय नमः । ॐ अनल्पनाशनाय नमः । ॐ फाल्गुनीसूनवे नमः । ॐ अव्यग्राय नमः । 820
ॐ योगात्मने नमः । ॐ योगतत्पराय नमः । ॐ योगविदे नमः । ॐ योगकर्त्रे नमः । ॐ योगयोनये नमः । ॐ दिगंबराय नमः । ॐ अकारादिक्षकारांतवर्णनिर्मितविग्रहाय नमः । ॐ उलूखलमुखाय नमः । ॐ सिद्धसंस्तुताय नमः । ॐ परमेश्वराय नमः । ॐ श्लिष्टजंघाय नमः । ॐ श्लिष्टजानवे नमः । ॐ श्लिष्टपाणये नमः । ॐ शिखाधराय नमः । ॐ सुशर्मणे नमः । ॐ अमितधर्मणे नमः । ॐ नारायणपरायणाय नमः । ॐ जिष्णवे नमः । ॐ भविष्णवे नमः । ॐ रोचिष्णवे नमः । 840
ॐ ग्रसिष्णवे नमः । ॐ स्थाणवे नमः । ॐ हरये नमः । ॐ रुद्रानुकृते नमः । ॐ वृक्षकंपनाय नमः । ॐ भूमिकंपनाय नमः । ॐ गुणप्रवाहाय नमः । ॐ सूत्रात्मने नमः । ॐ वीतरागाय नमः । ॐ स्तुतिप्रियाय नमः । ॐ नागकन्याभयध्वंसिने नमः । ॐ कृतपूर्णाय नमः । ॐ कपालभृते नमः । ॐ अनुकूलाय नमः । ॐ अक्षयाय नमः । ॐ अपायाय नमः । ॐ अनपायाय नमः । ॐ वेदपारगाय नमः । ॐ अक्षराय नमः । ॐ पुरुषाय नमः । 860
ॐ लोकनाथाय नमः । ॐ त्र्यक्षाय नमः । ॐ प्रभवे नमः । ॐ दृढाय नमः । ॐ अष्टांगयोगफलभुवे नमः । ॐ सत्यसंधाय नमः । ॐ पुरुष्टुताय नमः । ॐ श्मशानस्थाननिलयाय नमः । ॐ प्रेतविद्रावणक्षमाय नमः । ॐ पंचाक्षरपराय नमः । ॐ पंचमातृकाय नमः । ॐ रंजनाय नमः । ॐ ध्वजाय नमः । ॐ योगिनीवृंदवंद्यश्रिये नमः । ॐ शत्रुघ्नाय नमः । ॐ अनंतविक्रमाय नमः । ॐ ब्रह्मचारिणे नमः । ॐ इंद्रियवपुषे नमः । ॐ धृतदंडाय नमः । ॐ दशात्मकाय नमः । 880
ॐ अप्रपंचाय नमः । ॐ सदाचाराय नमः । ॐ शूरसेनाय नमः । ॐ विदारकाय नमः । ॐ बुद्धाय नमः । ॐ प्रमोदाय नमः । ॐ आनंदाय नमः । ॐ सप्तजिह्वपतये नमः । ॐ धराय नमः । ॐ नवद्वारपुराधाराय नमः । ॐ प्रत्यग्राय नमः । ॐ सामगायनाय नमः । ॐ षट्चक्रधाम्ने नमः । ॐ स्वर्लोकभयहृते नमः । ॐ मानदाय नमः । ॐ मदाय नमः । ॐ सर्ववश्यकराय नमः । ॐ शक्तये नमः । ॐ अनंताय नमः । ॐ अनंतमंगलाय नमः । 900
ॐ अष्टमूर्तिधराय नमः । ॐ नेत्रे नमः । ॐ विरूपाय नमः । ॐ स्वरसुंदराय नमः । ॐ धूमकेतवे नमः । ॐ महाकेतवे नमः । ॐ सत्यकेतवे नमः । ॐ महारथाय नमः । ॐ नंदिने नमः । ॐ प्रियाय नमः । ॐ स्वतंत्राय नमः । ॐ मेखलिने नमः । ॐ डमरुप्रियाय नमः । ॐ लोहितांगाय नमः । ॐ समिधे नमः । ॐ वह्नये नमः । ॐ षडृतवे नमः । ॐ शर्वाय नमः । ॐ ईश्वराय नमः । ॐ फलभुजे नमः । 920
ॐ फलहस्ताय नमः । ॐ सर्वकर्मफलप्रदाय नमः । ॐ धर्माध्यक्षाय नमः । ॐ धर्मफलाय नमः । ॐ धर्माय नमः । ॐ धर्मप्रदाय नमः । ॐ अर्थदाय नमः । ॐ पंचविंशतितत्त्वज्ञाय नमः । ॐ तारकाय नमः । ॐ ब्रह्मतत्पराय नमः । ॐ त्रिमार्गवसतये नमः । ॐ भीमाय नमः । ॐ सर्वदुष्टनिबर्हणाय नमः । ॐ ऊर्जःस्वामिने नमः । ॐ जलस्वामिने नमः । ॐ शूलिने नमः । ॐ मालिने नमः । ॐ निशाकराय नमः । ॐ रक्तांबरधराय नमः । ॐ रक्ताय नमः । 940
ॐ रक्तमाल्यविभूषणाय नमः । ॐ वनमालिने नमः । ॐ शुभांगाय नमः । ॐ श्वेताय नमः । ॐ श्वेतांबराय नमः । ॐ युवाय नमः । ॐ जयाय नमः । ॐ अजेयपरीवाराय नमः । ॐ सहस्रवदनाय नमः । ॐ कवये नमः । ॐ शाकिनीडाकिनीयक्षरक्षोभूतप्रभंजनाय नमः । ॐ सद्योजाताय नमः । ॐ कामगतये नमः । ॐ ज्ञानमूर्तये नमः । ॐ यशस्कराय नमः । ॐ शंभुतेजसे नमः । ॐ सार्वभौमाय नमः । ॐ विष्णुभक्ताय नमः । ॐ प्लवंगमाय नमः । ॐ चतुर्णवतिमंत्रज्ञाय नमः । 960
ॐ पौलस्त्यबलदर्पघ्ने नमः । ॐ सर्वलक्ष्मीप्रदाय नमः । ॐ श्रीमते नमः । ॐ अंगदप्रियवर्धनाय नमः । ॐ स्मृतिबीजाय नमः । ॐ सुरेशानाय नमः । ॐ संसारभयनाशनाय नमः । ॐ उत्तमाय नमः । ॐ श्रीपरीवाराय नमः । ॐ श्रीभुवे नमः । ॐ उग्राय नमः । ॐ कामदुहे नमः । ॐ सदागतये नमः । ॐ मातरिश्वने नमः । ॐ रामपादाब्जषट्पदाय नमः । ॐ नीलप्रियाय नमः । ॐ नीलवर्णाय नमः । ॐ नीलवर्णप्रियाय नमः । ॐ सुहृदे नमः । ॐ रामदूताय नमः । 980
ॐ लोकबंधवे नमः । ॐ अंतरात्मने नमः । ॐ मनोरमाय नमः । ॐ श्रीरामध्यानकृते नमः । ॐ वीराय नमः । ॐ सदा किंपुरुषस्तुताय नमः । ॐ रामकार्यांतरंगाय नमः । ॐ शुद्धये नमः । ॐ गत्यै नमः । ॐ अनामयाय नमः । ॐ पुण्यश्लोकाय नमः । ॐ परानंदाय नमः । ॐ परेशप्रियसारथये नमः । ॐ लोकस्वामिने नमः । ॐ मुक्तिदात्रे नमः । ॐ सर्वकारणकारणाय नमः । ॐ महाबलाय नमः । ॐ महावीराय नमः । ॐ पारावारगतये नमः । ॐ गुरवे नमः । 1000
ॐ तारकाय नमः । ॐ भगवते नमः । ॐ त्रात्रे नमः । ॐ स्वस्तिदात्रे नमः । ॐ सुमंगलाय नमः । ॐ समस्तलोकसाक्षिणे नमः । ॐ समस्तसुरवंदिताय नमः । ॐ सीतासमेत श्रीरामपादसेवा धुरंधराय नमः । 1008
इति श्री हनुमत्सहस्रनामावलिः ।
Browse Related Categories: