Lakshmi · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
ॐ नित्यागतायै नमः । ॐ अनंतनित्यायै नमः । ॐ नंदिन्यै नमः । ॐ जनरंजन्यै नमः । ॐ नित्यप्रकाशिन्यै नमः । ॐ स्वप्रकाशस्वरूपिण्यै नमः । ॐ महालक्ष्म्यै नमः । ॐ महाकाल्यै नमः । ॐ महाकन्यायै नमः । ॐ सरस्वत्यै नमः । ॐ भोगवैभवसंधात्र्यै नमः । ॐ भक्तानुग्रहकारिण्यै नमः । ॐ ईशावास्यायै नमः । ॐ महामायायै नमः । ॐ महादेव्यै नमः । ॐ महेश्वर्यै नमः । ॐ हृल्लेखायै नमः । ॐ परमायै नमः । ॐ शक्तये नमः । ॐ मातृकाबीजरुपिण्यै नमः । 20 ॐ नित्यानंदायै नमः । ॐ नित्यबोधायै नमः । ॐ नादिन्यै नमः । ॐ जनमोदिन्यै नमः । ॐ सत्यप्रत्ययिन्यै नमः । ॐ स्वप्रकाशात्मरूपिण्यै नमः । ॐ त्रिपुरायै नमः । ॐ भैरव्यै नमः । ॐ विद्यायै नमः । ॐ हंसायै नमः । ॐ वागीश्वर्यै नमः । ॐ शिवायै नमः । ॐ वाग्देव्यै नमः । ॐ महारात्र्यै नमः । ॐ कालरात्र्यै नमः । ॐ त्रिलोचनायै नमः । ॐ भद्रकाल्यै नमः । ॐ कराल्यै नमः । ॐ महाकाल्यै नमः । ॐ तिलोत्तमायै नमः । 40 ॐ काल्यै नमः । ॐ करालवक्त्रांतायै नमः । ॐ कामाक्ष्यै नमः । ॐ कामदायै नमः । ॐ शुभायै नमः । ॐ चंडिकायै नमः । ॐ चंडरूपेशायै नमः । ॐ चामुंडायै नमः । ॐ चक्रधारिण्यै नमः । ॐ त्रैलोक्यजनन्यै नमः । ॐ देव्यै नमः । ॐ त्रैलोक्यविजयोत्तमायै नमः । ॐ सिद्धलक्ष्म्यै नमः । ॐ क्रियालक्ष्म्यै नमः । ॐ मोक्षलक्ष्म्यै नमः । ॐ प्रसादिन्यै नमः । ॐ उमायै नमः । ॐ भगवत्यै नमः । ॐ दुर्गायै नमः । ॐ चांद्र्यै नमः । 60 ॐ दाक्षायण्यै नमः । ॐ प्रत्यंगिरायै नमः । ॐ धरायै नमः । ॐ वेलायै नमः । ॐ लोकमात्रे नमः । ॐ हरिप्रियायै नमः । ॐ पार्वत्यै नमः । ॐ परमायै नमः । ॐ देव्यै नमः । ॐ ब्रह्मविद्याप्रदायिन्यै नमः । ॐ अरूपायै नमः । ॐ बहुरूपायै नमः । ॐ विरूपायै नमः । ॐ विश्वरूपिण्यै नमः । ॐ पंचभूतात्मिकायै नमः । ॐ परायै नमः । ॐ काल्यै नमः । ॐ मायै नमः । ॐ पंचिकायै नमः । ॐ वाग्म्यै नमः । 80 ॐ हविःप्रत्यधिदेवतायै नमः । ॐ देवमात्रे नमः । ॐ सुरेशानायै नमः । ॐ वेदगर्भायै नमः । ॐ अंबिकायै नमः । ॐ धृत्यै नमः । ॐ संख्यायै नमः । ॐ जातये नमः । ॐ क्रियाशक्त्यै नमः । ॐ प्रकृत्यै नमः । ॐ मोहिन्यै नमः । ॐ मह्यै नमः । ॐ यज्ञविद्यायै नमः । ॐ महाविद्यायै नमः । ॐ गुह्यविद्यायै नमः । ॐ विभावर्यै नमः । ॐ ज्योतिष्मत्यै नमः । ॐ महामात्रे नमः । ॐ सर्वमंत्रफलप्रदायै नमः । ॐ दारिद्र्यध्वंसिन्यै नमः । 100
ॐ देव्यै नमः । ॐ हृदयग्रंथिभेदिन्यै नमः । ॐ सहस्रादित्यसंकाशायै नमः । ॐ चंद्रिकायै नमः । ॐ चंद्ररूपिण्यै नमः । ॐ गायत्र्यै नमः । ॐ सोमसंभूत्यै नमः । ॐ सावित्र्यै नमः । ॐ प्रणवात्मिकायै नमः । ॐ शांकर्यै नमः । ॐ वैष्णव्यै नमः । ॐ ब्राह्म्यै नमः । ॐ सर्वदेवनमस्कृतायै नमः । ॐ सेव्यदुर्गायै नमः । ॐ कुबेराक्ष्यै नमः । ॐ करवीरनिवासिन्यै नमः । ॐ जयायै नमः । ॐ विजयायै नमः । ॐ जयंत्यै नमः । ॐ अपराजितायै नमः । 120 ॐ कुब्जिकायै नमः । ॐ कालिकायै नमः । ॐ शास्त्र्यै नमः । ॐ वीणापुस्तकधारिण्यै नमः । ॐ सर्वज्ञशक्त्यै नमः । ॐ श्रीशक्त्यै नमः । ॐ ब्रह्मविष्णुशिवात्मिकायै नमः । ॐ इडापिंगलिकामध्यमृणालीतंतुरुपिण्यै नमः । ॐ यज्ञेशान्यै नमः । ॐ प्रथायै नमः । ॐ दीक्षायै नमः । ॐ दक्षिणायै नमः । ॐ सर्वमोहिन्यै नमः । ॐ अष्टांगयोगिन्यै नमः । ॐ देव्यै नमः । ॐ निर्बीजध्यानगोचरायै नमः । ॐ सर्वतीर्थस्थितायै नमः । ॐ शुद्धायै नमः । ॐ सर्वपर्वतवासिन्यै नमः । ॐ वेदशास्त्रप्रभायै नमः । 140 ॐ देव्यै नमः । ॐ षडंगादिपदक्रमायै नमः । ॐ शिवायै नमः । ॐ धात्र्यै नमः । ॐ शुभानंदायै नमः । ॐ यज्ञकर्मस्वरूपिण्यै नमः । ॐ व्रतिन्यै नमः । ॐ मेनकायै नमः । ॐ देव्यै नमः । ॐ ब्रह्माण्यै नमः । ॐ ब्रह्मचारिण्यै नमः । ॐ एकाक्षरपरायै नमः । ॐ तारायै नमः । ॐ भवबंधविनाशिन्यै नमः । ॐ विश्वंभरायै नमः । ॐ धराधारायै नमः । ॐ निराधारायै नमः । ॐ अधिकस्वरायै नमः । ॐ राकायै नमः । ॐ कुह्वे नमः । 160 ॐ अमावास्यायै नमः । ॐ पूर्णिमायै नमः । ॐ अनुमत्यै नमः । ॐ द्युतये नमः । ॐ सिनीवाल्यै नमः । ॐ शिवायै नमः । ॐ अवश्यायै नमः । ॐ वैश्वदेव्यै नमः । ॐ पिशंगिलायै नमः । ॐ पिप्पलायै नमः । ॐ विशालाक्ष्यै नमः । ॐ रक्षोघ्न्यै नमः । ॐ वृष्टिकारिण्यै नमः । ॐ दुष्टविद्राविण्यै नमः । ॐ देव्यै नमः । ॐ सर्वोपद्रवनाशिन्यै नमः । ॐ शारदायै नमः । ॐ शरसंधानायै नमः । ॐ सर्वशस्त्रस्वरूपिण्यै नमः । ॐ युद्धमध्यस्थितायै नमः । 180 ॐ देव्यै नमः । ॐ सर्वभूतप्रभंजन्यै नमः । ॐ अयुद्धायै नमः । ॐ युद्धरूपायै नमः । ॐ शांतायै नमः । ॐ शांतिस्वरूपिण्यै नमः । ॐ गंगायै नमः । ॐ सरस्वतीवेणीयमुनानर्मदापगायै नमः । ॐ समुद्रवसनावासायै नमः । ॐ ब्रह्मांडश्रेणिमेखलायै नमः । ॐ पंचवक्त्रायै नमः । ॐ दशभुजायै नमः । ॐ शुद्धस्फटिकसन्निभायै नमः । ॐ रक्तायै नमः । ॐ कृष्णायै नमः । ॐ सितायै नमः । ॐ पीतायै नमः । ॐ सर्ववर्णायै नमः । ॐ निरीश्वर्यै नमः । ॐ कालिकायै नमः । 200
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
ॐ चक्रिकायै नमः । ॐ देव्यै नमः । ॐ सत्यायै नमः । ॐ वटुकास्थितायै नमः । ॐ तरुण्यै नमः । ॐ वारुण्यै नमः । ॐ नार्यै नमः । ॐ ज्येष्ठादेव्यै नमः । ॐ सुरेश्वर्यै नमः । ॐ विश्वंभराधरायै नमः । ॐ कर्त्र्यै नमः । ॐ गलार्गलविभंजन्यै नमः । ॐ संध्यारात्रिर्दिवाज्योत्स्नायै नमः । ॐ कलाकाष्ठायै नमः । ॐ निमेषिकायै नमः । ॐ उर्व्यै नमः । ॐ कात्यायन्यै नमः । ॐ शुभ्रायै नमः । ॐ संसारार्णवतारिण्यै नमः । ॐ कपिलायै नमः । 220 ॐ कीलिकायै नमः । ॐ अशोकायै नमः । ॐ मल्लिकानवमल्लिकायै नमः । ॐ देविकायै नमः । ॐ नंदिकायै नमः । ॐ शांतायै नमः । ॐ भंजिकायै नमः । ॐ भयभंजिकायै नमः । ॐ कौशिक्यै नमः । ॐ वैदिक्यै नमः । ॐ देव्यै नमः । ॐ सौर्यै नमः । ॐ रूपाधिकायै नमः । ॐ अतिभायै नमः । ॐ दिग्वस्त्रायै नमः । ॐ नववस्त्रायै नमः । ॐ कन्यकायै नमः । ॐ कमलोद्भवायै नमः । ॐ श्रियै नमः । ॐ सौम्यलक्षणायै नमः । 240 ॐ अतीतदुर्गायै नमः । ॐ सूत्रप्रबोधिकायै नमः । ॐ श्रद्धायै नमः । ॐ मेधायै नमः । ॐ कृतये नमः । ॐ प्रज्ञायै नमः । ॐ धारणायै नमः । ॐ कांत्यै नमः । ॐ श्रुतये नमः । ॐ स्मृतये नमः । ॐ धृतये नमः । ॐ धन्यायै नमः । ॐ भूतये नमः । ॐ इष्ट्यै नमः । ॐ मनीषिण्यै नमः । ॐ विरक्तये नमः । ॐ व्यापिन्यै नमः । ॐ मायायै नमः । ॐ सर्वमायाप्रभंजन्यै नमः । ॐ माहेंद्र्यै नमः । 260 ॐ मंत्रिण्यै नमः । ॐ सिंह्यै नमः । ॐ इंद्रजालस्वरूपिण्यै नमः । ॐ अवस्थात्रयनिर्मुक्तायै नमः । ॐ गुणत्रयविवर्जितायै नमः । ॐ ईषणत्रयनिर्मुक्तायै नमः । ॐ सर्वरोगविवर्जितायै नमः । ॐ योगिध्यानांतगम्यायै नमः । ॐ योगध्यानपरायणायै नमः । ॐ त्रयीशिखायै नमः । ॐ विशेषज्ञायै नमः । ॐ वेदांतज्ञानरुपिण्यै नमः । ॐ भारत्यै नमः । ॐ कमलायै नमः । ॐ भाषायै नमः । ॐ पद्मायै नमः । ॐ पद्मवत्यै नमः । ॐ कृतये नमः । ॐ गौतम्यै नमः । ॐ गोमत्यै नमः । 280 ॐ गौर्यै नमः । ॐ ईशानायै नमः । ॐ हंसवाहिन्यै नमः । ॐ नारायण्यै नमः । ॐ प्रभाधारायै नमः । ॐ जाह्नव्यै नमः । ॐ शंकरात्मजायै नमः । ॐ चित्रघंटायै नमः । ॐ सुनंदायै नमः । ॐ श्रियै नमः । ॐ मानव्यै नमः । ॐ मनुसंभवायै नमः । ॐ स्तंभिन्यै नमः । ॐ क्षोभिण्यै नमः । ॐ मार्यै नमः । ॐ भ्रामिण्यै नमः । ॐ शत्रुमारिण्यै नमः । ॐ मोहिन्यै नमः । ॐ द्वेषिण्यै नमः । ॐ वीरायै नमः । 300
ॐ अघोरायै नमः । ॐ रुद्ररूपिण्यै नमः । ॐ रुद्रैकादशिन्यै नमः । ॐ पुण्यायै नमः । ॐ कल्याण्यै नमः । ॐ लाभकारिण्यै नमः । ॐ देवदुर्गायै नमः । ॐ महादुर्गायै नमः । ॐ स्वप्नदुर्गायै नमः । ॐ अष्टभैरव्यै नमः । ॐ सूर्यचंद्राग्निरूपायै नमः । ॐ ग्रहनक्षत्ररूपिण्यै नमः । ॐ बिंदुनादकलातीतायै नमः । ॐ बिंदुनादकलात्मिकायै नमः । ॐ दशवायुजयाकारायै नमः । ॐ कलाषोडशसंयुतायै नमः । ॐ काश्यप्यै नमः । ॐ कमलादेव्यै नमः । ॐ नादचक्रनिवासिन्यै नमः । ॐ मृडाधारायै नमः । 320 ॐ स्थिरायै नमः । ॐ गुह्यायै नमः । ॐ देविकायै नमः । ॐ चक्ररूपिण्यै नमः । ॐ अविद्यायै नमः । ॐ शार्वर्यै नमः । ॐ भुंजायै नमः । ॐ जंभासुरनिबर्हिण्यै नमः । ॐ श्रीकायायै नमः । ॐ श्रीकलायै नमः । ॐ शुभ्रायै नमः । ॐ कर्मनिर्मूलकारिण्यै नमः । ॐ आदिलक्ष्म्यै नमः । ॐ गुणाधारायै नमः । ॐ पंचब्रह्मात्मिकायै नमः । ॐ परायै नमः । ॐ श्रुतये नमः । ॐ ब्रह्ममुखावासायै नमः । ॐ सर्वसंपत्तिरूपिण्यै नमः । ॐ मृतसंजीवन्यै नमः । 340 ॐ मैत्र्यै नमः । ॐ कामिन्यै नमः । ॐ कामवर्जितायै नमः । ॐ निर्वाणमार्गदायै नमः । ॐ देव्यै नमः । ॐ हंसिन्यै नमः । ॐ काशिकायै नमः । ॐ क्षमायै नमः । ॐ सपर्यायै नमः । ॐ गुणिन्यै नमः । ॐ भिन्नायै नमः । ॐ निर्गुणायै नमः । ॐ खंडिताशुभायै नमः । ॐ स्वामिन्यै नमः । ॐ वेदिन्यै नमः । ॐ शक्यायै नमः । ॐ शांबर्यै नमः । ॐ चक्रधारिण्यै नमः । ॐ दंडिन्यै नमः । ॐ मुंडिन्यै नमः । 360 ॐ व्याघ्र्यै नमः । ॐ शिखिन्यै नमः । ॐ सोमसंहतये नमः । ॐ चिंतामणये नमः । ॐ चिदानंदायै नमः । ॐ पंचबाणप्रबोधिन्यै नमः । ॐ बाणश्रेणये नमः । ॐ सहस्राक्ष्यै नमः । ॐ सहस्रभुजपादुकायै नमः । ॐ संध्याबलये नमः । ॐ त्रिसंध्याख्यायै नमः । ॐ ब्रह्मांडमणिभूषणायै नमः । ॐ वासव्यै नमः । ॐ वारुणीसेनायै नमः । ॐ कुलिकायै नमः । ॐ मंत्ररंजिन्यै नमः । ॐ जितप्राणस्वरूपायै नमः । ॐ कांतायै नमः । ॐ काम्यवरप्रदायै नमः । ॐ मंत्रब्राह्मणविद्यार्थायै नमः । 380 ॐ नादरुपायै नमः । ॐ हविष्मत्यै नमः । ॐ आथर्वणिः श्रुतयै नमः । ॐ शून्यायै नमः । ॐ कल्पनावर्जितायै नमः । ॐ सत्यै नमः । ॐ सत्ताजातये नमः । ॐ प्रमायै नमः । ॐ अमेयायै नमः । ॐ अप्रमितये नमः । ॐ प्राणदायै नमः । ॐ गतये नमः । ॐ अवर्णायै नमः । ॐ पंचवर्णायै नमः । ॐ सर्वदायै नमः । ॐ भुवनेश्वर्यै नमः । ॐ त्रैलोक्यमोहिन्यै नमः । ॐ विद्यायै नमः । ॐ सर्वभर्त्र्यै नमः । ॐ क्षरायै नमः । 400
ॐ अक्षरायै नमः । ॐ हिरण्यवर्णायै नमः । ॐ हरिण्यै नमः । ॐ सर्वोपद्रवनाशिन्यै नमः । ॐ कैवल्यपदवीरेखायै नमः । ॐ सूर्यमंडलसंस्थितायै नमः । ॐ सोममंडलमध्यस्थायै नमः । ॐ वह्निमंडलसंस्थितायै नमः । ॐ वायुमंडलमध्यस्थायै नमः । ॐ व्योममंडलसंस्थितायै नमः । ॐ चक्रिकायै नमः । ॐ चक्रमध्यस्थायै नमः । ॐ चक्रमार्गप्रवर्तिन्यै नमः । ॐ कोकिलाकुलचक्रेशायै नमः । ॐ पक्षतये नमः । ॐ पंक्तिपावनायै नमः । ॐ सर्वसिद्धांतमार्गस्थायै नमः । ॐ षड्वर्णावरवर्जितायै नमः । ॐ शतरुद्रहरायै नमः । ॐ हंत्र्यै नमः । 420 ॐ सर्वसंहारकारिण्यै नमः । ॐ पुरुषायै नमः । ॐ पौरुष्यै नमः । ॐ तुष्टये नमः । ॐ सर्वतंत्रप्रसूतिकायै नमः । ॐ अर्धनारीश्वर्यै नमः । ॐ देव्यै नमः । ॐ सर्वविद्याप्रदायिन्यै नमः । ॐ भार्गव्यै नमः । ॐ याजुषीविद्यायै नमः । [ भूजुषीविद्यायै ] ॐ सर्वोपनिषदास्थितायै नमः । ॐ व्योमकेशायै नमः । ॐ अखिलप्राणायै नमः । ॐ पंचकोशविलक्षणायै नमः । ॐ पंचकोशात्मिकायै नमः । ॐ प्रतीचे नमः । ॐ पंचब्रह्मात्मिकायै नमः । ॐ शिवायै नमः । ॐ जगज्जराजनित्र्यै नमः । ॐ पंचकर्मप्रसूतिकायै नमः । 440 ॐ वाग्देव्यै नमः । ॐ आभरणाकारायै नमः । ॐ सर्वकाम्यस्थितास्थितये नमः । ॐ अष्टादशचतुःषष्टिपीठिकाविद्यायुतायै नमः । ॐ कालिकाकर्षणश्यामायै नमः । ॐ यक्षिण्यै नमः । ॐ किन्नरेश्वर्यै नमः । ॐ केतक्यै नमः । ॐ मल्लिकायै नमः । ॐ अशोकायै नमः । ॐ वाराह्यै नमः । ॐ धरण्यै नमः । ॐ ध्रुवायै नमः । ॐ नारसिंह्यै नमः । ॐ महोग्रास्यायै नमः । ॐ भक्तानामार्तिनाशिन्यै नमः । ॐ अंतर्बलायै नमः । ॐ स्थिरायै नमः । ॐ लक्ष्म्यै नमः । ॐ जरामरणनाशिन्यै नमः । 460 ॐ श्रीरंजितायै नमः । ॐ महाकायायै नमः । ॐ सोमसूर्याग्निलोचनायै नमः । ॐ अदितये नमः । ॐ देवमात्रे नमः । ॐ अष्टपुत्रायै नमः । ॐ अष्टयोगिन्यै नमः । ॐ अष्टप्रकृतये नमः । ॐ अष्टाष्टविभ्राजद्विकृताकृतये नमः । ॐ दुर्भिक्षध्वंसिन्यै नमः । ॐ सीतायै नमः । ॐ सत्यायै नमः । ॐ रुक्मिण्यै नमः । ॐ ख्यातिजायै नमः । ॐ भार्गव्यै नमः । ॐ देवयोनये नमः । ॐ तपस्विन्यै नमः । ॐ शाकंभर्यै नमः । ॐ महाशोणायै नमः । ॐ गरुडोपरिसंस्थितायै नमः । 480 ॐ सिंहगायै नमः । ॐ व्याघ्रगायै नमः । ॐ वायुगायै नमः । ॐ महाद्रिगायै नमः । ॐ अकारादिक्षकारांतायै नमः । ॐ सर्वविद्याधिदेवतायै नमः । ॐ मंत्रव्याख्याननिपुणायै नमः । ॐ ज्योतिशास्त्रैकलोचनायै नमः । ॐ इडापिंगलिकामध्यसुषुम्नायै नमः । ॐ ग्रंथिभेदिन्यै नमः । ॐ कालचक्राश्रयोपेतायै नमः । ॐ कालचक्रस्वरूपिण्यै नमः । ॐ वैशारद्यै नमः । ॐ मतिश्रेष्ठायै नमः । ॐ वरिष्ठायै नमः । ॐ सर्वदीपिकायै नमः । ॐ वैनायक्यै नमः । ॐ वरारोहायै नमः । ॐ श्रोणिवेलायै नमः । ॐ बहिर्वलये नमः । 500
ॐ जंभिन्यै नमः । ॐ जृंभिण्यै नमः । ॐ जंभकारिण्यै नमः । ॐ गणकारिकायै नमः । ॐ शरण्यै नमः । ॐ चक्रिकायै नमः । ॐ अनंतायै नमः । ॐ सर्वव्याधिचिकित्सक्यै नमः । ॐ देवक्यै नमः । ॐ देवसंकाशायै नमः । ॐ वारिधये नमः । ॐ करुणाकरायै नमः । ॐ शर्वर्यै नमः । ॐ सर्वसंपन्नायै नमः । ॐ सर्वपापप्रभंजन्यै नमः । ॐ एकमात्रायै नमः । ॐ द्विमात्रायै नमः । ॐ त्रिमात्रायै नमः । ॐ अपरायै नमः । ॐ अर्धमात्रायै नमः । 520 ॐ परायै नमः । ॐ सूक्ष्मायै नमः । ॐ सूक्ष्मार्थार्थपरायै नमः । ॐ एकवीरायै नमः । ॐ विशेषाख्यायै नमः । ॐ षष्ठीदेव्यै नमः । ॐ मनस्विन्यै नमः । ॐ नैष्कर्म्यायै नमः । ॐ निष्कलालोकायै नमः । ॐ ज्ञानकर्माधिकायै नमः । ॐ गुणायै नमः । ॐ सबंध्वानंदसंदोहायै नमः । ॐ व्योमाकारायै नमः । ॐ अनिरूपितायै नमः । ॐ गद्यपद्यात्मिकायै नमः । ॐ वाण्यै नमः । ॐ सर्वालंकारसंयुतायै नमः । ॐ साधुबंधपदन्यासायै नमः । ॐ सर्वौकसे नमः । ॐ घटिकावलये नमः । 540 ॐ षट्कर्मिण्यै नमः । ॐ कर्कशाकारायै नमः । ॐ सर्वकर्मविवर्जितायै नमः । ॐ आदित्यवर्णायै नमः । ॐ अपर्णायै नमः । ॐ कामिन्यै नमः । ॐ वररूपिण्यै नमः । ॐ ब्रह्माण्यै नमः । ॐ ब्रह्मसंतानायै नमः । ॐ वेदवागीश्वर्यै नमः । ॐ शिवायै नमः । ॐ पुराणन्यायमीमांसाधर्मशास्त्रागमश्रुतायै नमः । ॐ सद्योवेदवत्यै नमः । ॐ सर्वायै नमः । ॐ हंस्यै नमः । ॐ विद्याधिदेवतायै नमः । ॐ विश्वेश्वर्यै नमः । ॐ जगद्धात्र्यै नमः । ॐ विश्वनिर्माणकारिण्यै नमः । ॐ वैदिक्यै नमः । 560 ॐ वेदरूपायै नमः । ॐ कालिकायै नमः । ॐ कालरूपिण्यै नमः । ॐ नारायण्यै नमः । ॐ महादेव्यै नमः । ॐ सर्वतत्त्वप्रवर्तिन्यै नमः । ॐ हिरण्यवर्णरूपायै नमः । ॐ हिरण्यपदसंभवायै नमः । ॐ कैवल्यपदव्यै नमः । ॐ पुण्यायै नमः । ॐ कैवल्यज्ञानलक्षितायै नमः । ॐ ब्रह्मसंपत्तिरूपायै नमः । ॐ ब्रह्मसंपत्तिकारिण्यै नमः । ॐ वारुण्यै नमः । ॐ वारुणाराध्यायै नमः । ॐ सर्वकर्मप्रवर्तिन्यै नमः । ॐ एकाक्षरपरायै नमः । ॐ अयुक्तायै नमः । ॐ सर्वदारिद्र्यभंजिन्यै नमः । ॐ पाशांकुशान्वितायै नमः । 580 ॐ दिव्यायै नमः । ॐ वीणाव्याख्याक्षसूत्रभृते नमः । ॐ एकमूर्त्यै नमः । ॐ त्रयीमूर्त्यै नमः । ॐ मधुकैटभभंजन्यै नमः । ॐ सांख्यायै नमः । ॐ सांख्यवत्यै नमः । ॐ ज्वालायै नमः । ॐ ज्वलंत्यै नमः । ॐ कामरूपिण्यै नमः । ॐ जाग्रत्यै नमः । ॐ सर्वसंपत्तये नमः । ॐ सुषुप्तायै नमः । ॐ स्वेष्टदायिन्यै नमः । ॐ कपालिन्यै नमः । ॐ महादंष्ट्रायै नमः । ॐ भ्रुकुटीकुटिलाननायै नमः । ॐ सर्वावासायै नमः । ॐ सुवासायै नमः । ॐ बृहत्यै नमः । 600
ॐ अष्टये नमः । ॐ शक्वर्यै नमः । ॐ छंदोगणप्रतिष्ठायै नमः । ॐ कल्माष्यै नमः । ॐ करुणात्मिकायै नमः । ॐ चक्षुष्मत्यै नमः । ॐ महाघोषायै नमः । ॐ खड्गचर्मधरायै नमः । ॐ अशनये नमः । ॐ शिल्पवैचित्र्यविद्योतायै नमः । ॐ सर्वतोभद्रवासिन्यै नमः । ॐ अचिंत्यलक्षणाकारायै नमः । ॐ सूत्रभाष्यनिबंधनायै नमः । ॐ सर्ववेदार्थसंपत्तये नमः । ॐ सर्वशास्त्रार्थमातृकायै नमः । ॐ अकारादिक्षकारांतसर्ववर्णकृतस्थलायै नमः । ॐ सर्वलक्ष्म्यै नमः । ॐ सदानंदायै नमः । ॐ सारविद्यायै नमः । ॐ सदाशिवायै नमः । 620 ॐ सर्वज्ञायै नमः । ॐ सर्वशक्त्यै नमः । ॐ खेचरीरूपगायै नमः । ॐ उच्छ्रितायै नमः । ॐ अणिमादिगुणोपेतायै नमः । ॐ पराकाष्ठायै नमः । ॐ परागतये नमः । ॐ हंसयुक्तविमानस्थायै नमः । ॐ हंसारूढायै नमः । ॐ शशिप्रभायै नमः । ॐ भवान्यै नमः । ॐ वासनाशक्त्यै नमः । ॐ आकृतिस्थाखिलायै नमः । ॐ अखिलायै नमः । ॐ तंत्रहेतवे नमः । ॐ विचित्रांग्यै नमः । ॐ व्योमगंगाविनोदिन्यै नमः । ॐ वर्षायै नमः । ॐ वार्षिकायै नमः । ॐ ऋग्यजुस्सामरूपिण्यै नमः । 640 ॐ महानद्यै नमः । ॐ नदीपुण्यायै नमः । ॐ अगण्यपुण्यगुणक्रियायै नमः । ॐ समाधिगतलभ्यार्थायै नमः । ॐ श्रोतव्यायै नमः । ॐ स्वप्रियायै नमः । ॐ घृणायै नमः । ॐ नामाक्षरपरायै नमः । ॐ उपसर्गनखांचितायै नमः । ॐ निपातोरुद्वयीजंघायै नमः । ॐ मातृकायै नमः । ॐ मंत्ररूपिण्यै नमः । ॐ आसीनायै नमः । ॐ शयानायै नमः । ॐ तिष्ठंत्यै नमः । ॐ धावनाधिकायै नमः । ॐ लक्ष्यलक्षणयोगाढ्यायै नमः । ॐ ताद्रूप्यगणनाकृतयै नमः । ॐ एकरूपायै नमः । ॐ नैकरूपायै नमः । 660 ॐ तस्यै नमः । ॐ इंदुरूपायै नमः । ॐ तदाकृतये नमः । ॐ समासतद्धिताकारायै नमः । ॐ विभक्तिवचनात्मिकायै नमः । ॐ स्वाहाकारायै नमः । ॐ स्वधाकारायै नमः । ॐ श्रीपत्यर्धांगनंदिन्यै नमः । ॐ गंभीरायै नमः । ॐ गहनायै नमः । ॐ गुह्यायै नमः । ॐ योनिलिंगार्धधारिण्यै नमः । ॐ शेषवासुकिसंसेव्यायै नमः । ॐ चपलायै नमः । ॐ वरवर्णिन्यै नमः । ॐ कारुण्याकारसंपत्तये नमः । ॐ कीलकृते नमः । ॐ मंत्रकीलिकायै नमः । ॐ शक्तिबीजात्मिकायै नमः । ॐ सर्वमंत्रेष्टायै नमः । 680 ॐ अक्षयकामनायै नमः । ॐ आग्नेय्यै नमः । ॐ पार्थिवायै नमः । ॐ आप्यायै नमः । ॐ वायव्यायै नमः । ॐ व्योमकेतनायै नमः । ॐ सत्यज्ञानात्मिकानंदायै नमः । [ सत्यज्ञानात्मिकायै, नंदायै ] ॐ ब्राह्म्यै नमः । ॐ ब्रह्मणे नमः । ॐ सनातन्यै नमः । ॐ अविद्यावासनायै नमः । ॐ मायाप्रकृतये नमः । ॐ सर्वमोहिन्यै नमः । ॐ शक्तये नमः । ॐ धारणशक्तये नमः । ॐ चिदचिच्छक्तियोगिन्यै नमः । ॐ वक्त्रारुणायै नमः । ॐ महामायायै नमः । ॐ मरीचये नमः । ॐ मदमर्दिन्यै नमः । 700
ॐ विराजे नमः । ॐ स्वाहायै नमः । ॐ स्वधायै नमः । ॐ शुद्धायै नमः । ॐ निरुपास्तये नमः । ॐ सुभक्तिगायै नमः । ॐ निरूपिताद्वयीविद्यायै नमः । ॐ नित्यानित्यस्वरूपिण्यै नमः । ॐ वैराजमार्गसंचारायै नमः । ॐ सर्वसत्पथदर्शिन्यै नमः । ॐ जालंधर्यै नमः । ॐ मृडान्यै नमः । ॐ भवान्यै नमः । ॐ भवभंजन्यै नमः । ॐ त्रैकालिकज्ञानतंतवे नमः । ॐ त्रिकालज्ञानदायिन्यै नमः । ॐ नादातीतायै नमः । ॐ स्मृतये नमः । ॐ प्रज्ञायै नमः । ॐ धात्रीरूपायै नमः । 720 ॐ त्रिपुष्करायै नमः । ॐ पराजितायै नमः । ॐ विधानज्ञायै नमः । ॐ विशेषितगुणात्मिकायै नमः । ॐ हिरण्यकेशिन्यै नमः । ॐ हेमब्रह्मसूत्रविचक्षणायै नमः । ॐ असंख्येयपरार्धांतस्वरव्यंजनवैखर्यै नमः । ॐ मधुजिह्वायै नमः । ॐ मधुमत्यै नमः । ॐ मधुमासोदयायै नमः । ॐ मधवे नमः । ॐ माधव्यै नमः । ॐ महाभागायै नमः । ॐ मेघगंभीरनिस्वनायै नमः । ॐ ब्रह्मविष्णुमहेशादिज्ञातव्यार्थविशेषगायै नमः । ॐ नाभौवह्निशिखाकारायै नमः । ॐ ललाटेचंद्रसन्निभायै नमः । ॐ भ्रूमध्येभास्कराकारायै नमः । ॐ हृदिसर्वताराकृतये नमः । ॐ कृत्तिकादिभरण्यंत नक्षत्रेष्ट्यार्चितोदयायै नमः । 740 ॐ ग्रहविद्यात्मिकायै नमः । ॐ ज्योतिषे नमः । ॐ ज्योतिर्विदे नमः । ॐ मतिजीविकायै नमः । ॐ ब्रह्मांडगर्भिण्यै नमः । ॐ बालायै नमः । ॐ सप्तावरणदेवतायै नमः । ॐ वैराजोत्तमसाम्राज्यायै नमः । ॐ कुमारकुशलोदयायै नमः । ॐ बगलायै नमः । ॐ भ्रमरांबायै नमः । ॐ शिवदूत्यै नमः । ॐ शिवात्मिकायै नमः । ॐ मेरुविंध्यातिसंस्थानायै नमः । ॐ काश्मीरपुरवासिन्यै नमः । ॐ योगनिद्रायै नमः । ॐ महानिद्रायै नमः । ॐ विनिद्रायै नमः । ॐ राक्षसाश्रितायै नमः । ॐ सुवर्णदायै नमः । 760 ॐ महागंगायै नमः । ॐ पंचाख्यायै नमः । ॐ पंचसंहतये नमः । ॐ सुप्रजातायै नमः । ॐ सुवीरायै नमः । ॐ सुपोषायै नमः । ॐ सुपतये नमः । ॐ शिवायै नमः । ॐ सुगृहायै नमः । ॐ रक्तबीजांतायै नमः । ॐ हतकंदर्पजीविकायै नमः । ॐ समुद्रव्योममध्यस्थायै नमः । ॐ समबिंदुसमाश्रयायै नमः । ॐ सौभाग्यरसजीवातवे नमः । ॐ सारासारविवेकदृशे नमः । ॐ त्रिवल्यादिसुपुष्टांगायै नमः । ॐ भारत्यै नमः । ॐ भरताश्रितायै नमः । ॐ नादब्रह्ममयीविद्यायै नमः । ॐ ज्ञानब्रह्ममयीपरायै नमः । 780 ॐ ब्रह्मनाड्यै नमः । ॐ निरुक्तये नमः । ॐ ब्रह्मकैवल्यसाधनायै नमः । ॐ कालिकेयमहोदारवीर्यविक्रमरूपिण्यै नमः । ॐ वडवाग्निशिखावक्त्रायै नमः । ॐ महाकवलतर्पणायै नमः । ॐ महाभूतायै नमः । ॐ महादर्पायै नमः । ॐ महासारायै नमः । ॐ महाक्रतवे नमः । ॐ पंचभूतमहाग्रासायै नमः । ॐ पंचभूताधिदेवतायै नमः । ॐ सर्वप्रमाणायै नमः । ॐ संपत्तये नमः । ॐ सर्वरोगप्रतिक्रियायै नमः । ॐ ब्रह्मांडांतर्बहिर्व्याप्तायै नमः । ॐ विष्णुवक्षोविभूषिण्यै नमः । ॐ शांकर्यै नमः । ॐ निधिवक्त्रस्थायै नमः । ॐ प्रवरायै नमः । 800
ॐ वरहेतुक्यै नमः । ॐ हेममालायै नमः । ॐ शिखामालायै नमः । ॐ त्रिशिखायै नमः । ॐ पंचलोचनायै नमः । ॐ सर्वागमसदाचारमर्यादायै नमः । ॐ यातुभंजन्यै नमः । ॐ पुण्यश्लोकप्रबंधाढ्यायै नमः । ॐ सर्वांतर्यामिरूपिण्यै नमः । ॐ सामगानसमाराध्यायै नमः । ॐ श्रोत्रकर्णरसायनायै नमः । ॐ जीवलोकैकजीवातवे नमः । ॐ भद्रोदारविलोकनायै नमः । ॐ तडित्कोटिलसत्कांत्यै नमः । ॐ तरुण्यै नमः । ॐ हरिसुंदर्यै नमः । ॐ मीननेत्रायै नमः । ॐ इंद्राक्ष्यै नमः । ॐ विशालाक्ष्यै नमः । ॐ सुमंगलायै नमः । 820 ॐ सर्वमंगलसंपन्नायै नमः । ॐ साक्षान्मंगलदेवतायै नमः । ॐ देहहृद्दीपिकायै नमः । ॐ दीप्तये नमः । ॐ जिह्वपापप्रणाशिन्यै नमः । ॐ अर्धचंद्रोल्लसद्दंष्ट्रायै नमः । ॐ यज्ञवाटीविलासिन्यै नमः । ॐ महादुर्गायै नमः । ॐ महोत्साहायै नमः । ॐ महादेवबलोदयायै नमः । ॐ डाकिनीड्यायै नमः । ॐ शाकिनीड्यायै नमः । ॐ साकिनीड्यायै नमः । ॐ समस्तजुषे नमः । ॐ निरंकुशायै नमः । ॐ नाकिवंद्यायै नमः । ॐ षडाधाराधिदेवतायै नमः । ॐ भुवनज्ञाननिःश्रेणये नमः । ॐ भुवनाकारवल्लर्यै नमः । ॐ शाश्वत्यै नमः । 840 ॐ शाश्वताकारायै नमः । ॐ लोकानुग्रहकारिण्यै नमः । ॐ सारस्यै नमः । ॐ मानस्यै नमः । ॐ हंस्यै नमः । ॐ हंसलोकप्रदायिन्यै नमः । ॐ चिन्मुद्रालंकृतकरायै नमः । ॐ कोटिसूर्यसमप्रभायै नमः । ॐ सुखप्राणिशिरोरेखायै नमः । ॐ सददृष्टप्रदायिन्यै नमः । ॐ सर्वसांकर्यदोषघ्न्यै नमः । ॐ ग्रहोपद्रवनाशिन्यै नमः । ॐ क्षुद्रजंतुभयघ्न्यै नमः । ॐ विषरोगादिभंजन्यै नमः । ॐ सदाशांतायै नमः । ॐ सदाशुद्धायै नमः । ॐ गृहच्छिद्रनिवारिण्यै नमः । ॐ कलिदोषप्रशमन्यै नमः । ॐ कोलाहलपुरस्थितायै नमः । ॐ गौर्यै नमः । 860 ॐ लाक्षणिक्यै नमः । ॐ मुख्यायै नमः । ॐ जघन्याकृतिवर्जितायै नमः । ॐ मायायै नमः । ॐ विद्यायै नमः । ॐ मूलभूतायै नमः । ॐ वासव्यै नमः । ॐ विष्णुचेतनायै नमः । ॐ वादिन्यै नमः । ॐ वसुरूपायै नमः । ॐ वसुरत्नपरिच्छदायै नमः । ॐ छांदस्यै नमः । ॐ चंद्रहृदयायै नमः । ॐ मंत्रस्वच्छंदभैरव्यै नमः । ॐ वनमालायै नमः । ॐ वैजयंत्यै नमः । ॐ पंचदिव्यायुधात्मिकायै नमः । ॐ पीतांबरमय्यै नमः । ॐ चंचत्कौस्तुभायै नमः । ॐ हरिकामिन्यै नमः । 880 ॐ नित्यायै नमः । ॐ तथ्यायै नमः । ॐ रमायै नमः । ॐ रामायै नमः । ॐ रमण्यै नमः । ॐ मृत्युभंजन्यै नमः । ॐ ज्येष्ठायै नमः । ॐ काष्ठायै नमः । ॐ धनिष्ठांतायै नमः । ॐ शरांग्यै नमः । ॐ निर्गुणप्रियायै नमः । ॐ मैत्रेयायै नमः । ॐ मित्रविंदायै नमः । ॐ शेष्यशेषकलाशयायै नमः । ॐ वाराणसीवासलभ्यायै नमः । [ वाराणसीवासरतायै ] ॐ आर्यावर्तजनस्तुतायै नमः । ॐ जगदुत्पत्तिसंस्थानसंहारत्रयकारणायै नमः । ॐ तुभ्यं नमः । ॐ अंबायै नमः । ॐ विष्णुसर्वस्वायै नमः । 900
ॐ महेश्वर्यै नमः । ॐ सर्वलोकानां जनन्यै नमः । ॐ पुण्यमूर्तये नमः । ॐ सिद्धलक्ष्म्यै नमः । ॐ महाकाल्यै नमः । ॐ महालक्ष्म्यै नमः । ॐ सद्योजातादिपंचाग्निरूपायै नमः । ॐ पंचकपंचकायै नमः । ॐ यंत्रलक्ष्म्यै नमः । ॐ भवत्यै नमः । ॐ आदये नमः । ॐ आद्याद्यायै नमः । ॐ सृष्ट्यादिकारणाकारविततये नमः । ॐ दोषवर्जितायै नमः । ॐ जगल्लक्ष्म्यै नमः । ॐ जगन्मात्रे नमः । ॐ विष्णुपत्न्यै नमः । ॐ नवकोटिमहाशक्तिसमुपास्यपदांबुजायै नमः । ॐ कनत्सौवर्णरत्नाढ्यसर्वाभरणभूषितायै नमः । 920 ॐ अनंतानित्यमहिष्यै नमः । ॐ प्रपंचेश्वरनायक्यै नमः । ॐ अत्युच्छ्रितपदांतस्थायै नमः । ॐ परमव्योमनायक्यै नमः । ॐ नाकपृष्ठगताराध्यायै नमः । ॐ विष्णुलोकविलासिन्यै नमः । ॐ वैकुंठराजमहिष्यै नमः । ॐ श्रीरंगनगराश्रितायै नमः । ॐ रंगनायक्यै नमः । ॐ भूपुत्र्यै नमः । ॐ कृष्णायै नमः । ॐ वरदवल्लभायै नमः । ॐ कोटिब्रह्मादिसंसेव्यायै नमः । ॐ कोटिरुद्रादिकीर्तितायै नमः । ॐ मातुलुंगमयं खेटं बिभ्रत्यै नमः । ॐ सौवर्णचषकं बिभ्रत्यै नमः । ॐ पद्मद्वयं दधानायै नमः । ॐ पूर्णकुंभं बिभ्रत्यै नमः । ॐ कीरं दधानायै नमः । ॐ वरदाभये दधानायै नमः । ॐ पाशं बिभ्रत्यै नमः । 940 ॐ अंकुशं बिभ्रत्यै नमः । ॐ शंखं वहंत्यै नमः । ॐ चक्रं वहंत्यै नमः । ॐ शूलं वहंत्यै नमः । ॐ कृपाणिकां वहंत्यै नमः । ॐ धनुर्बाणौ बिभ्रत्यै नमः । ॐ अक्षमालां दधानायै नमः । ॐ चिन्मुद्रां बिभ्रत्यै नमः । ॐ अष्टादशभुजायै नमः । ॐ लक्ष्म्यै नमः । ॐ महाष्टादशपीठगायै नमः । ॐ भूमिनीलादिसंसेव्यायै नमः । ॐ स्वामिचित्तानुवर्तिन्यै नमः । ॐ पद्मायै नमः । ॐ पद्मालयायै नमः । ॐ पद्मिन्यै नमः । ॐ पूर्णकुंभाभिषेचितायै नमः । ॐ इंदिरायै नमः । ॐ इंदिराभाक्ष्यै नमः । ॐ क्षीरसागरकन्यकायै नमः । 960 ॐ भार्गव्यै नमः । ॐ स्वतंत्रेच्छायै नमः । ॐ वशीकृतजगत्पतये नमः । ॐ मंगलानांमंगलाय नमः । ॐ देवतानांदेवतायै नमः । ॐ उत्तमानामुत्तमायै नमः । ॐ श्रेयसे नमः । ॐ परमामृतायै नमः । ॐ धनधान्याभिवृद्धये नमः । ॐ सार्वभौमसुखोच्छ्रयायै नमः । ॐ आंदोलिकादिसौभाग्यायै नमः । ॐ मत्तेभादिमहोदयायै नमः । ॐ पुत्रपौत्राभिवृद्धये नमः । ॐ विद्याभोगबलादिकायै नमः । ॐ आयुरारोग्यसंपत्तये नमः । ॐ अष्टैश्वर्यायै नमः । ॐ परमेशविभूतये नमः । ॐ सूक्ष्मात्सूक्ष्मतरागतये नमः । ॐ सदयापांगसंदत्तब्रह्मेंद्रादिपदस्थितये नमः । ॐ अव्याहतमहाभाग्यायै नमः । 980 ॐ अक्षोभ्यविक्रमायै नमः । ॐ वेदानाम्समन्वयायै नमः । ॐ वेदानामविरोधायै नमः । ॐ निःश्रेयसपदप्राप्तिसाधनायै नमः । ॐ निःश्रेयसपदप्राप्तिफलायै नमः । ॐ श्रीमंत्रराजराज्ञ्यै नमः । ॐ श्रीविद्यायै नमः । ॐ क्षेमकारिण्यै नमः । ॐ श्रीं बीज जपसंतुष्टायै नमः । ॐ ऐं ह्रीं श्रीं बीजपालिकायै नमः । ॐ प्रपत्तिमार्गसुलभायै नमः । ॐ विष्णुप्रथमकिंकर्यै नमः । ॐ क्लींकारार्थसावित्र्यै नमः । ॐ सौमंगल्याधिदेवतायै नमः । ॐ श्रीषोडशाक्षरीविद्यायै नमः । ॐ श्रीयंत्रपुरवासिन्यै नमः । ॐ सर्वमंगलमांगल्यायै नमः । ॐ शिवायै नमः । ॐ सर्वार्थसाधिकायै नमः । ॐ शरण्यायै नमः । 1000 ॐ त्र्यंबकायै नमः । ॐ गौर्यै नमः । ॐ नारायण्यै नमः ।
Browse Related Categories: