Devi · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
विष्णुपत्नि जगन्मातः विष्णुवक्षस्थलस्थिते । पद्मासने पद्महस्ते पद्मावति नमोऽस्तु ते ॥ 1 ॥
वेंकटेशप्रिये पूज्ये क्षीराब्दितनये शुभे । पद्मेरमे लोकमातः पद्मावति नमोऽस्तु ते ॥ 2 ॥
कल्याणी कमले कांते कल्याणपुरनायिके । कारुण्यकल्पलतिके पद्मावति नमोऽस्तु ते ॥ 3 ॥
सहस्रदलपद्मस्थे कोटिचंद्रनिभानने । पद्मपत्रविशालाक्षी पद्मावति नमोऽस्तु ते ॥ 4 ॥
सर्वज्ञे सर्ववरदे सर्वमंगलदायिनी । सर्वसम्मानिते देवी पद्मावति नमोऽस्तु ते ॥ 5 ॥
सर्वहृद्दहरावासे सर्वपापभयापहे । अष्टैश्वर्यप्रदे लक्ष्मी पद्मावति नमोऽस्तु ते ॥ 6 ॥
देहि मे मोक्षसाम्राज्यं देहि त्वत्पाददर्शनम् । अष्टैश्वर्यं च मे देहि पद्मावति नमोऽस्तु ते ॥ 7 ॥
नक्रश्रवणनक्षत्रे कृतोद्वाहमहोत्सवे । कृपया पाहि नः पद्मे त्वद्भक्तिभरितान् रमे ॥ 8 ॥
इंदिरे हेमवर्णाभे त्वां वंदे परमात्मिकाम् । भवसागरमग्नं मां रक्ष रक्ष महेश्वरी ॥ 9 ॥
Offered for worship and study, not as prediction. Non-commercial.
कल्याणपुरवासिन्यै नारायण्यै श्रियै नमः । शृतिस्तुतिप्रगीतायै देवदेव्यै च मंगलम् ॥ 10 ॥
Browse Related Categories: