Devi · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
वंदे वंदारु मंदारमिंदिरानंदकंदलम् । अमंदानंदसंदोह बंधुरं सिंधुराननम् ॥
अंगं हरेः पुलकभूषणमाश्रयंती भृंगांगनेव मुकुलाभरणं तमालम् । अंगीकृताखिलविभूतिरपांगलीला मांगल्यदास्तु मम मंगलदेवतायाः ॥ 1 ॥
मुग्धा मुहुर्विदधती वदने मुरारेः प्रेमत्रपाप्रणिहितानि गतागतानि । माला दृशोर्मधुकरीव महोत्पले या सा मे श्रियं दिशतु सागरसंभवायाः ॥ 2 ॥
आमीलिताक्षमधिगम्य मुदा मुकुंदम्- आनंदकंदमनिमेषमनंगतंत्रम् । आकेकरस्थितकनीनिकपक्ष्मनेत्रं भूत्यै भवेन्मम भुजंगशयांगनायाः ॥ 3 ॥
बाह्वंतरे मधुजितः श्रितकौस्तुभे या हारावलीव हरिनीलमयी विभाति । कामप्रदा भगवतोऽपि कटाक्षमाला कल्याणमावहतु मे कमलालयायाः ॥ 4 ॥
कालांबुदालिललितोरसि कैटभारेः धाराधरे स्फुरति या तटिदंगनेव । मातुस्समस्तजगतां महनीयमूर्तिः भद्राणि मे दिशतु भार्गवनंदनायाः ॥ 5 ॥
प्राप्तं पदं प्रथमतः खलु यत्प्रभावात् मांगल्यभाजि मधुमाथिनि मन्मथेन । मय्यापतेत्तदिह मंथरमीक्षणार्धं मंदालसं च मकरालयकन्यकायाः ॥ 6 ॥
विश्वामरेंद्रपदविभ्रमदानदक्षं आनंदहेतुरधिकं मुरविद्विषोऽपि । ईषन्निषीदतु मयि क्षणमीक्षणार्थं इंदीवरोदरसहोदरमिंदिरायाः ॥ 7 ॥
Offered for worship and study, not as prediction. Non-commercial.
इष्टा विशिष्टमतयोऽपि यया दयार्द्र दृष्ट्या त्रिविष्टपपदं सुलभं लभंते । दृष्टिः प्रहृष्ट कमलोदरदीप्तिरिष्टां पुष्टिं कृषीष्ट मम पुष्करविष्टरायाः ॥ 8 ॥
दद्याद्दयानुपवनो द्रविणांबुधारा- मस्मिन्न किंचन विहंगशिशौ विषण्णे । दुष्कर्मघर्ममपनीय चिराय दूरं नारायणप्रणयिनीनयनांबुवाहः ॥ 9 ॥
गीर्देवतेति गरुडध्वजसुंदरीति शाकंभरीति शशिशेखरवल्लभेति । सृष्टिस्थितिप्रलयकेलिषु संस्थितायै तस्यै नमस्त्रिभुवनैकगुरोस्तरुण्यै ॥ 10 ॥
श्रुत्यै नमोऽस्तु शुभकर्मफलप्रसूत्यै रत्यै नमोऽस्तु रमणीयगुणार्णवायै । शक्त्यै नमोऽस्तु शतपत्रनिकेतनायै पुष्ट्यै नमोऽस्तु पुरुषोत्तमवल्लभायै ॥ 11 ॥
नमोऽस्तु नालीकनिभाननायै नमोऽस्तु दुग्धोदधिजन्मभूम्यै । नमोऽस्तु सोमामृतसोदरायै नमोऽस्तु नारायणवल्लभायै ॥ 12 ॥
नमोऽस्तु हेमांबुजपीठिकायै नमोऽस्तु भूमंडलनायिकायै । नमोऽस्तु देवादिदयापरायै नमोऽस्तु शारंगायुधवल्लभायै ॥ 13 ॥
नमोऽस्तु देव्यै भृगुनंदनायै नमोऽस्तु विष्णोरुरसिस्थितायै । नमोऽस्तु लक्ष्म्यै कमलालयायै नमोऽस्तु दामोदरवल्लभायै ॥ 14 ॥
नमोऽस्तु कांत्यै कमलेक्षणायै नमोऽस्तु भूत्यै भुवनप्रसूत्यै । नमोऽस्तु देवादिभिरर्चितायै नमोऽस्तु नंदात्मजवल्लभायै ॥ 15 ॥
संपत्कराणि सकलेंद्रियनंदनानि साम्राज्यदानविभवानि सरोरुहाक्षि । त्वद्वंदनानि दुरितोद्धरणोद्यतानि मामेव मातरनिशं कलयंतु मान्ये ॥ 16 ॥
यत्कटाक्षसमुपासनाविधिः सेवकस्य सकलार्थसंपदः । संतनोति वचनांगमानसैः त्वां मुरारिहृदयेश्वरीं भजे ॥ 17 ॥
सरसिजनिलये सरोजहस्ते [सरसिजनयनॆ] धवलतमांशुकगंधमाल्यशोभे । भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीद मह्यम् ॥ 18 ॥
दिग्घस्तिभिः कनककुंभमुखावसृष्ट स्वर्वाहिनी विमलचारुजलप्लुतांगीम् । प्रातर्नमामि जगतां जननीमशेष लोकाधिनाथ-गृहिणीम्-अमृताब्धिपुत्रीम् ॥ 19 ॥
कमले कमलाक्षवल्लभे त्वं करुणापूरतरंगितैरपांगैः । अवलोकय मामकिंचनानां प्रथमं पात्रमकृत्रिमं दयायाः ॥ 20 ॥
स्तुवंति ये स्तुतिभिरमूभिरन्वहं त्रयीमयीं त्रिभुवनमातरं रमाम् । गुणाधिका गुरुतर-भाग्य-भागिनो [भागिनह्] भवंति ते भुवि बुधभाविताशयाः ॥ 21 ॥
सुवर्णधारास्तोत्रं यच्छंकराचार्य निर्मितम् । त्रिसंध्यं यः पठेन्नित्यं स कुबेरसमो भवेत् ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविंदभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ कनकधारास्तोत्रं संपूर्णम् ।
Browse Related Categories: