Guru · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम् । पराशरात्मजं वंदे शुकतातं तपोनिधिम् ॥ 1
व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे । नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः ॥ 2
कृष्णद्वैपायनं व्यासं सर्वलोकहिते रतम् । वेदाब्जभास्करं वंदे शमादिनिलयं मुनिम् ॥ 3
वेदव्यासं स्वात्मरूपं सत्यसंधं परायणम् । शांतं जितेंद्रियक्रोधं सशिष्यं प्रणमाम्यहम् ॥ 4
अचतुर्वदनो ब्रह्मा द्विबाहुरपरो हरिः । अफाललोचनः शंभुः भगवान् बादरायणः ॥ 5
शंकरं शंकराचार्यं केशवं बादरायणम् । सूत्रभाष्यकृतौ वंदे भगवंतौ पुनः पुनः ॥ 6
ब्रह्मसूत्रकृते तस्मै वेदव्यासाय वेधसे । ज्ञानशक्त्यवताराय नमो भगवतो हरेः ॥ 7
व्यासः समस्तधर्माणां वक्ता मुनिवरेडितः । चिरंजीवी दीर्घमायुर्ददातु जटिलो मम ॥ 8
प्रज्ञाबलेन तपसा चतुर्वेदविभाजकः । कृष्णद्वैपायनो यश्च तस्मै श्रीगुरवे नमः ॥ 9
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
जटाधरस्तपोनिष्ठः शुद्धयोगो जितेंद्रियः । कृष्णाजिनधरः कृष्णस्तस्मै श्रीगुरवे नमः ॥ 10
भारतस्य विधाता च द्वितीय इव यो हरिः । हरिभक्तिपरो यश्च तस्मै श्रीगुरवे नमः ॥ 11
जयति पराशरसूनुः सत्यवती हृदयनंदनो व्यासः । यस्यास्य कमलगलितं भारतममृतं जगत्पिबति ॥ 12
वेदविभागविधात्रे विमलाय ब्रह्मणे नमो विश्वदृशे । सकलधृतिहेतुसाधनसूत्रसृजे सत्यवत्यभिव्यक्ति मते ॥ 13
वेदांतवाक्यकुसुमानि समानि चारु जग्रंथ सूत्रनिचयेन मनोहरेण । मोक्षार्थिलोकहितकामनया मुनिर्यः तं बादरायणमहं प्रणमामि भक्त्या ॥ 14
इति श्री वेदव्यास स्तुतिः ।
Browse Related Categories: