Subrahmanya Swamy · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
शक्तिहस्तं विरूपाक्षं शिखिवाहं षडाननम् । दारुणं रिपुरोगघ्नं भावये कुक्कुटध्वजम् ॥
इति ध्यानम्
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
स्कंदो गुहः षण्मुखश्च फालनेत्रसुतः प्रभुः । पिंगलः कृत्तिकासूनुः शिखिवाहो द्विषड्भुजः ॥ 1 ॥
द्विषण्णेत्र-श्शक्तिधरः पिशिताश प्रभंजनः । तारकासुरसंहारी रक्षोबलविमर्दनः ॥ 2 ॥
मत्तः प्रमत्त उन्मत्तः सुरसैन्यसुरक्षकः । देवसेनापतिः प्राज्ञः कृपालु र्भक्तवत्सलः ॥ 3 ॥
उमासुत-श्शक्तिधरः कुमारः क्रौंचधारणः । सेनानी-रग्निजन्मा च विशाखः शंकरात्मजः ॥ 4 ॥
शिवस्वामी गणस्वामी सर्वस्वामी सनातनः । अनंतमूर्ति रक्षोभ्यः पार्वतीप्रियनंदनः ॥ 5 ॥
गंगासुत-श्शरोद्भूत आहूतः पावकात्मजः । जृंभः प्रजृंभ उज्जृंभः कमलासनसंस्तुतः ॥ 6 ॥
एकवर्णो द्विवर्णश्च त्रिवर्णः सुमनोहरः । चतुर्वर्णः पंचवर्णः प्रजापति-रहस्पतिः ॥ 7 ॥
अग्निगर्भ-श्शमीगर्भो विश्वरेता-स्सुरारिहा । हरिद्वर्ण-श्शुभकरो पटुश्च वटुवेषभृत् ॥ 8 ॥
पूषा गभस्ति-र्गहन श्चंद्रवर्णः कलाधरः । मायाधरो महामायी कैवल्य-श्शंकरात्मजः ॥ 9 ॥
विश्वयोनि-रमेयात्मा तेजोनिधि-रनामयः । परमेष्ठी परंब्रह्म वेदगर्भो विराट्सुतः ॥ 10 ॥
पुलिंदकन्याभर्ता च महासारस्वतावृतः । अश्रितोखिलदाता च चोरघ्नो रोगनाशनः ॥ 11 ॥
अनंतमूर्ति-रानंद-श्शिखंडीकृतकेतनः । डंभः परमडंभश्च महाडंभो वृषाकपिः ॥ 12 ॥
कारणोपात्तदेहश्च कारणातीतविग्रहः । अनीश्वरोऽमृतः प्राणः प्राणायामपरायणः ॥ 13 ॥
विरुद्धहंता वीरघ्नो रक्तश्यामगलोऽपि च । सुब्रह्मण्यो गुहः प्रीतो ब्रह्मण्यो ब्राह्मणप्रियः ॥ 14 ॥
वंशवृद्धिकरो वेदो वेद्योऽक्षयफलप्रदः ॥ 15 ॥
इति श्री सुब्रह्मण्याष्टोत्तर शतनामस्तोत्रं संपूर्णम् ।
Browse Related Categories: