Samskritam Songs · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
वंदे भारतमातरं वद, भारत ! वंदे मातरं वंदे मातरं, वंदे मातरं, वंदे मातरम् ॥
जन्मभूरियं वीरवराणां त्यागधनानां धीराणां मातृभूमये लोकहिताय च नित्यसमर्पितचित्तानाम् । जितकोपानां कृतकृत्यानां वित्तं तृणवद् दृष्टवतां मातृसेवनादात्मजीवने सार्थकतामानीतवताम् ॥ 1 ॥
ग्रामे ग्रामे कर्मदेशिकास्तत्त्ववेदिनो धर्मरताः । अर्थसंचयस्त्यागहेतुको धर्मसम्मतः काम इह । नश्वरबुद्धिः क्षणपरिवर्तिनि काये, आत्मन्यादरधीः जातो यत्र हि स्वस्य जन्मना धन्यं मन्यत आत्मानम् ॥ 2 ॥
मातस्त्वत्तो वित्तं चित्तं स्वत्वं प्रतिभा देहबलं नाहं कर्ता, कारयसि त्वं, निःस्पृहता मम कर्मफले । अर्पितमेतज्जीवनपुष्पं मातस्तव शुभपादपले नान्यो मंत्रो नान्यचिंतनं नान्यद्देशहिताद्धि ॠते ॥ 3 ॥
रचन: श्री जनार्दन हेग्डे
Browse Related Categories:
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts