Vidura Neethi · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
॥ अथ श्रीमहाभारते उद्योगपर्वणि प्रजागरपर्वणि विदुरनीतिवाक्ये त्रयस्त्रिंशोऽध्यायः ॥
वैशंपायन उवाच
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
द्वाःस्थं प्राह महाप्राज्ञो धृतराष्ट्रो महीपतिः । विदुरं द्रष्टुमिच्छामि तमिहानय माचिरम् ॥ 1॥
प्रहितो धृतराष्ट्रेण दूतः क्षत्तारमब्रवीत् । ईश्वरस्त्वां महाराजो महाप्राज्ञ दिदृक्षति ॥ 2॥
एवमुक्तस्तु विदुरः प्राप्य राजनिवेशनम् । अब्रवीद्धृतराष्ट्राय द्वाःस्थ मां प्रतिवेदय ॥ 3॥
द्वाःस्थ उवाच
विदुरोऽयमनुप्राप्तो राजेंद्र तव शासनात् । द्रष्टुमिच्छति ते पादौ किं करोतु प्रशाधि माम् ॥ 4॥
धृतराष्ट्र उवाच
प्रवेशय महाप्राज्ञं विदुरं दीर्घदर्शिनम् । अहं हि विदुरस्यास्य नाकाल्यो जातु दर्शने ॥ 5॥
द्वाःस्थ उवाच
प्रविशांतः पुरं क्षत्तर्महाराजस्य धीमतः । न हि ते दर्शनेऽकाल्यो जातु राजा ब्रवीति माम् ॥ 6॥
वैशंपायन उवाच
ततः प्रविश्य विदुरो धृतराष्ट्र निवेशनम् । अब्रवीत्प्रांजलिर्वाक्यं चिंतयानं नराधिपम् ॥ 7॥
विदुरोऽहं महाप्राज्ञ संप्राप्तस्तव शासनात् । यदि किं चन कर्तव्यमयमस्मि प्रशाधि माम् ॥ 8॥
धृतरष्त्र उवाच
संजयो विदुर प्राप्तो गर्हयित्वा च मां गतः । अजातशत्रोः श्वो वाक्यं सभामध्ये स वक्ष्यति ॥ 9॥
तस्याद्य कुरुवीरस्य न विज्ञातं वचो मया । तन्मे दहति गात्राणि तदकार्षीत्प्रजागरम् ॥ 10॥
जाग्रतो दह्यमानस्य श्रेयो यदिह पश्यसि । तद्ब्रूहि त्वं हि नस्तात धर्मार्थकुशलो ह्यसि ॥ 11॥
यतः प्राप्तः संजयः पांडवेभ्यो न मे यथावन्मनसः प्रशांतिः । सवेंद्रियाण्यप्रकृतिं गतानि किं वक्ष्यतीत्येव हि मेऽद्य चिंता ॥ 12॥
तन्मे ब्रूहि विदुर त्वं यथावन् मनीषितं सर्वमजातशत्रोः । यथा च नस्तात हितं भवेच्च प्रजाश्च सर्वाः सुखिता भवेयुः ॥- ॥
विदुर उवाच
अभियुक्तं बलवता दुर्बलं हीनसाधनम् । हृतस्वं कामिनं चोरमाविशंति प्रजागराः ॥ 13॥
कच्चिदेतैर्महादोषैर्न स्पृष्टोऽसि नराधिप । कच्चिन्न परवित्तेषु गृध्यन्विपरितप्यसे ॥ 14॥
धृतराष्ट्र उवाच
श्रोतुमिच्छामि ते धर्म्यं परं नैःश्रेयसं वचः । अस्मिन्राजर्षिवंशे हि त्वमेकः प्राज्ञसम्मतः ॥ 15॥
विदुर उवाच
रजा लक्षणसंपन्नस्त्रैलोक्यस्याधिपो भवेत् । प्रेष्यस्ते प्रेषितश्चैव धृतराष्ट्र युधिष्ठिरः ॥- ॥
विपरीततरश्च त्वं भागधेये न सम्मतः । अर्चिषां प्रक्षयाच्चैव धर्मात्मा धर्मकोविदः ॥- ॥
आनृशंस्यादनुक्रोशाद्धर्मात्सत्यात्पराक्रमात् । गुरुत्वात्त्वयि संप्रेक्ष्य बहून्क्लेषांस्तितिक्षते ॥- ॥
दुर्योधने सौबले च कर्णे दुःशासने तथा । एतेष्वैश्वर्यमाधाय कथं त्वं भूतिमिच्छसि ॥- ॥
एकस्मात्वृक्षाद्यज्ञपत्राणि राजन् स्रुक्च द्रौणी पेठनीपीडने च । एतस्माद्राजन्ब्रुवतो मे निबोध एकस्माद्वै जायतेऽसच्च सच्च ॥- ॥
आत्मज्ञानं समारंभस्तितिक्षा धर्मनित्यता । यमर्थान्नापकर्षंति स वै पण्दित उच्यते ॥- ॥
निषेवते प्रशस्तानि निंदितानि न सेवते । अनास्तिकः श्रद्दधान एतत्पंडित लक्षणम् ॥ 16॥
क्रोधो हर्षश्च दर्पश्च ह्रीस्तंभो मान्यमानिता । यमर्थान्नापकर्षंति स वै पंडित उच्यते ॥ 17॥
यस्य कृत्यं न जानंति मंत्रं वा मंत्रितं परे । कृतमेवास्य जानंति स वै पंडित उच्यते ॥ 18॥
यस्य कृत्यं न विघ्नंति शीतमुष्णं भयं रतिः । समृद्धिरसमृद्धिर्वा स वै पंडित उच्यते ॥ 19॥
यस्य संसारिणी प्रज्ञा धर्मार्थावनुवर्तते । कामादर्थं वृणीते यः स वै पंडित उच्यते ॥ 20॥
यथाशक्ति चिकीर्षंति यथाशक्ति च कुर्वते । न किं चिदवमन्यंते पंडिता भरतर्षभ ॥ 21॥
क्षिप्रं विजानाति चिरं शऋणोति विज्ञाय चार्थं भजते न कामात् । नासंपृष्टो व्यौपयुंक्ते परार्थे तत्प्रज्ञानं प्रथमं पंडितस्य ॥ 22॥
नाप्राप्यमभिवांछंति नष्टं नेच्छंति शोचितुम् । आपत्सु च न मुह्यंति नराः पंडित बुद्धयः ॥ 23॥
निश्चित्य यः प्रक्रमते नांतर्वसति कर्मणः । अवंध्य कालो वश्यात्मा स वै पंडित उच्यते ॥ 24॥
आर्य कर्मणि राज्यंते भूतिकर्माणि कुर्वते । हितं च नाभ्यसूयंति पंडिता भरतर्षभ ॥ 25॥
न हृष्यत्यात्मसम्माने नावमानेन तप्यते । गांगो ह्रद इवाक्षोभ्यो यः स पंडित उच्यते ॥ 26॥
तत्त्वज्ञः सर्वभूतानां योगज्ञः सर्वकर्मणाम् । उपायज्ञो मनुष्याणां नरः पंडित उच्यते ॥ 27॥
प्रवृत्त वाक्चित्रकथ ऊहवान्प्रतिभानवान् । आशु ग्रंथस्य वक्ता च स वै पंडित उच्यते ॥ 28॥
श्रुतं प्रज्ञानुगं यस्य प्रज्ञा चैव श्रुतानुगा । असंभिन्नार्य मर्यादः पंडिताख्यां लभेत सः ॥ 29॥
अर्थं महांतमासद्य विद्यामैश्वर्यमेव च । विचरत्यसमुन्नद्धो यस्य पंडित उच्यते ॥- ॥
अश्रुतश्च समुन्नद्धो दरिद्रश्च महामनाः । अर्थांश्चाकर्मणा प्रेप्सुर्मूढ इत्युच्यते बुधैः ॥ 30॥
स्वमर्थं यः परित्यज्य परार्थमनुतिष्ठति । मिथ्या चरति मित्रार्थे यश्च मूढः स उच्यते ॥ 31॥
अकामां कामयति यः कामयानां परित्यजेत् । बलवंतं च यो द्वेष्टि तमाहुर्मूढचेतसम् ॥- ॥
अकामान्कामयति यः कामयानान्परिद्विषन् । बलवंतं च यो द्वेष्टि तमाहुर्मूढचेतसम् ॥ 32॥
अमित्रं कुरुते मित्रं मित्रं द्वेष्टि हिनस्ति च । कर्म चारभते दुष्टं तमाहुर्मूढचेतसम् ॥ 33॥
संसारयति कृत्यानि सर्वत्र विचिकित्सते । चिरं करोति क्षिप्रार्थे स मूढो भरतर्षभ ॥ 34॥
श्राद्धं पितृभ्यो न ददाति दैवतानि नार्चति । सुहृन्मित्रं न लभते तमाहुर्मूढचेतसम् ॥- ॥
अनाहूतः प्रविशति अपृष्टो बहु भाषते । विश्वसत्यप्रमत्तेषु मूढ चेता नराधमः ॥ 35॥
परं क्षिपति दोषेण वर्तमानः स्वयं तथा । यश्च क्रुध्यत्यनीशः सन्स च मूढतमो नरः ॥ 36॥
आत्मनो बलमाज्ञाय धर्मार्थपरिवर्जितम् । अलभ्यमिच्छन्नैष्कर्म्यान्मूढ बुद्धिरिहोच्यते ॥ 37॥
अशिष्यं शास्ति यो राजन्यश्च शून्यमुपासते । कदर्यं भजते यश्च तमाहुर्मूढचेतसम् ॥ 38॥
अर्थं महांतमासाद्य विद्यामैश्वर्यमेव वा । विचरत्यसमुन्नद्धो यः स पंडित उच्यते ॥ 39॥
एकः संपन्नमश्नाति वस्ते वासश्च शोभनम् । योऽसंविभज्य भृत्येभ्यः को नृशंसतरस्ततः ॥ 40॥
एकः पापानि कुरुते फलं भुंक्ते महाजनः । भोक्तारो विप्रमुच्यंते कर्ता दोषेण लिप्यते ॥ 41॥
एकं हन्यान्न वाहन्यादिषुर्मुक्तो धनुष्मता । बुद्धिर्बुद्धिमतोत्सृष्टा हन्याद्राष्ट्रं सराजकम् ॥ 42॥
एकया द्वे विनिश्चित्य त्रींश्चतुर्भिर्वशे कुरु । पंच जित्वा विदित्वा षट्सप्त हित्वा सुखी भव ॥ 43॥
एकं विषरसो हंति शस्त्रेणैकश्च वध्यते । सराष्ट्रं स प्रजं हंति राजानं मंत्रविस्रवः ॥ 44॥
एकः स्वादु न भुंजीत एकश्चार्थान्न चिंतयेत् । एको न गच्छेदध्वानं नैकः सुप्तेषु जागृयात् ॥ 45॥
एकमेवाद्वितीयं तद्यद्राजन्नावबुध्यसे । सत्यं स्वर्गस्य सोपानं पारावारस्य नौरिव ॥ 46॥
एकः क्षमावतां दोषो द्वितीयो नोपलभ्यते । यदेनं क्षमया युक्तमशक्तं मन्यते जनः ॥ 47॥
सोऽस्य दोषो न मंतव्यः क्षमा हि परमं बलम् । क्षमा गुणो ह्यशक्तानां शक्तानां भूषणं तथा ॥- ॥
क्षमा वशीकृतिर्लोके क्षमया किं न साध्यते । शांतिशंखः करे यस्य किं करिष्यति दुर्जनः ॥- ॥
अतृणे पतितो वह्निः स्वयमेवोपशाम्यति । अक्षमावान्परं दोषैरात्मानं चैव योजयेत् ॥- ॥
एको धर्मः परं श्रेयः क्षमैका शांतिरुत्तमा । विद्यैका परमा दृष्टिरहिंसैका सुखावहा ॥ 48॥
द्वाविमौ ग्रसते भूमिः सर्पो बिलशयानिव । राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम् ॥ 49॥
द्वे कर्मणी नरः कुर्वन्नस्मिँल्लोके विरोचते । अब्रुवन्परुषं किं चिदसतो नार्थयंस्तथा ॥ 50॥
द्वाविमौ पुरुषव्याघ्र परप्रत्यय कारिणौ । स्त्रियः कामित कामिन्यो लोकः पूजित पूजकः ॥ 51॥
द्वाविमौ कंटकौ तीक्ष्णौ शरीरपरिशोषणौ । यश्चाधनः कामयते यश्च कुप्यत्यनीश्वरः ॥ 52॥
द्वावेव न विराजेते विपरीतेन कर्मणा । गृहस्थश्च निरारंभः कार्यवांश्चैव भिक्षुकः ॥- ॥
द्वाविमौ पुरुषौ राजन्स्वर्गस्य परि तिष्ठतः । प्रभुश्च क्षमया युक्तो दरिद्रश्च प्रदानवान् ॥ 53॥
न्यायागतस्य द्रव्यस्य बोद्धव्यौ द्वावतिक्रमौ । अपात्रे प्रतिपत्तिश्च पात्रे चाप्रतिपादनम् ॥ 54॥
द्वावंभसि निवेष्टव्यौ गले बद्ध्वा दृढं शिलाम् । धनवंतमदातारं दरिद्रं चातपस्विनम् ॥- ॥
द्वाविमौ पुरुषव्याघ्र सुर्यमंडलभेदिनौ । परिव्राड्योगयुक्तश्च रणे चाभिमुखो हतः ॥- ॥
त्रयो न्याया मनुष्याणां श्रूयंते भरतर्षभ । कनीयान्मध्यमः श्रेष्ठ इति वेदविदो विदुः ॥ 55॥
त्रिविधाः पुरुषा राजन्नुत्तमाधममध्यमाः । नियोजयेद्यथावत्तांस्त्रिविधेष्वेव कर्मसु ॥ 56॥
त्रय एवाधना राजन्भार्या दासस्तथा सुतः । यत्ते समधिगच्छंति यस्य ते तस्य तद्धनम् ॥ 57॥
हरणं च परस्वानां परदाराभिमर्शनम् । सुहृदश्च परित्यागस्त्रयो दोषा क्षयावहः ॥- ॥
त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः । कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ॥- ॥
वरप्रदानं राज्यां च पुत्रजन्म च भारत । शत्रोश्च मोक्षणं कृच्छ्रात्त्रीणि चैकं च तत्समम् ॥- ॥
भक्तं च बजमानं च तवास्मीति वादिनम् । त्रीनेतान् शरणं प्राप्तान्विषमेऽपि न संत्यजेत् ॥- ॥
चत्वारि राज्ञा तु महाबलेन वर्ज्यान्याहुः पंडितस्तानि विद्यात् । अल्पप्रज्ञैः सह मंत्रं न कुर्यान् न दीर्घसूत्रैरलसैश्चारणैश्च ॥ 58॥
चत्वारि ते तात गृहे वसंतु श्रियाभिजुष्टस्य गृहस्थ धर्मे । वृद्धो ज्ञातिरवसन्नः कुलीनः सखा दरिद्रो भगिनी चानपत्या ॥ 59॥
चत्वार्याह महाराज सद्यस्कानि बृहस्पतिः । पृच्छते त्रिदशेंद्राय तानीमानि निबोध मे ॥ 60॥
देवतानां च संकल्पमनुभावं च धीमताम् । विनयं कृतविद्यानां विनाशं पापकर्मणाम् ॥ 61॥
चत्वारि कर्माण्यभयंकराणि भयं प्रयच्छंत्ययथाकृतानि । मानाग्निहोत्रं उत मानमौनं मानेनाधीतमुत मानयज्ञः ॥- ॥
पंचाग्नयो मनुष्येण परिचर्याः प्रयत्नतः । पिता माताग्निरात्मा च गुरुश्च भरतर्षभ ॥ 62॥
पंचैव पूजयँल्लोके यशः प्राप्नोति केवलम् । देवान्पितॄन्मनुष्यांश्च भिक्षूनतिथिपंचमान् ॥ 63॥
पंच त्वानुगमिष्यंति यत्र यत्र गमिष्यसि । मित्राण्यमित्रा मध्यस्था उपजीव्योपजीविनः ॥ 64॥
पंचेंद्रियस्य मर्त्यस्य छिद्रं चेदेकमिंद्रियम् । ततोऽस्य स्रवति प्रज्ञा दृतेः पादादिवोदकम् ॥ 65॥
षड्दोषाः पुरुषेणेह हातव्या भूतिमिच्छता । निद्रा तंद्री भयं क्रोध आलस्यं दीर्घसूत्रता ॥ 66॥
षडिमान्पुरुषो जह्याद्भिन्नां नावमिवार्णवे । अप्रवक्तारमाचार्यमनधीयानमृत्विजम् ॥ 67॥
अरक्षितारं राजानं भार्यां चाप्रिय वादिनीम् । ग्रामकारं च गोपालं वनकामं च नापितम् ॥ 68॥
षडेव तु गुणाः पुंसा न हातव्याः कदाचन । सत्यं दानमनालस्यमनसूया क्षमा धृतिः ॥ 69॥
अर्थागमो नित्यमरोगिता च प्रिया च भार्या प्रियवादिनी च । वश्यश्च पुत्रोऽर्थकरी च विद्या षट् जीवलोकस्य सुखानि राजन् ॥- ॥
षण्णामात्मनि नित्यानामैश्वर्यं योऽधिगच्छति । न स पापैः कुतोऽनर्थैर्युज्यते विजितेंद्रियः ॥ 70॥
षडिमे षट्सु जीवंति सप्तमो नोपलभ्यते । चोराः प्रमत्ते जीवंति व्याधितेषु चिकित्सकाः ॥ 71॥
प्रमदाः कामयानेषु यजमानेषु याजकाः । राजा विवदमानेषु नित्यं मूर्खेषु पंडिताः ॥ 72॥
षडिमानि विनश्यंति मुहूर्तमनवेक्षणात् । गावः सेवा कृषिर्भार्या विद्या वृषलसंगतिः ॥- ॥
षडेते ह्यवमन्यंते नित्यं पूर्वोपकारिणम् । आचार्यं शिक्षिता शिष्याः कृतदारश्च मातरम् ॥- ॥
नारिं विगतकामस्तु कृतार्थाश्च प्रयोजकम् । नावं निस्तीर्णकांतारा नातुराश्च चिकित्सकम् ॥- ॥
आरोग्यमानृण्यमविप्रवासः सद्भिर्मनुष्यैः सह संप्रयोगः । स्वप्रत्यया वृत्तिरभीतवासः षट् जीवलोकस्य सुखानि राजन् ॥- ॥
ईर्षुर्घृणी नसंतुष्टः क्रोधनो नित्यशंकितः । परभाग्योपजीवी च षडेते नित्यदुःखिताः ॥- ॥
सप्त दोषाः सदा राज्ञा हातव्या व्यसनोदयाः । प्रायशो यैर्विनश्यंति कृतमूलाश्च पार्थिवाः ॥ 73॥
स्त्रियोऽक्षा मृगया पानं वाक्पारुष्यं च पंचमम् । महच्च दंडपारुष्यमर्थदूषणमेव च ॥ 74॥
अष्टौ पूर्वनिमित्तानि नरस्य विनशिष्यतः । ब्राह्मणान्प्रथमं द्वेष्टि ब्राह्मणैश्च विरुध्यते ॥ 75॥
ब्राह्मण स्वानि चादत्ते ब्राह्मणांश्च जिघांसति । रमते निंदया चैषां प्रशंसां नाभिनंदति ॥ 76॥
नैतान्स्मरति कृत्येषु याचितश्चाभ्यसूयति । एतांदोषान्नरः प्राज्ञो बुद्ध्या बुद्ध्वा विवर्जयेत् ॥ 77॥
अष्टाविमानि हर्षस्य नव नीतानि भारत । वर्तमानानि दृश्यंते तान्येव सुसुखान्यपि ॥ 78॥
समागमश्च सखिभिर्महांश्चैव धनागमः । पुत्रेण च परिष्वंगः सन्निपातश्च मैथुने ॥ 79॥
समये च प्रियालापः स्वयूथेषु च सन्नतिः । अभिप्रेतस्य लाभश्च पूजा च जनसंसदि ॥ 80॥
अष्टौ गुणाः पुरुषं दीपयंति प्रज्ञा च कौल्यं च दमः श्रुतं च । पराक्रमश्चाबहुभाषिता च दानं यथाशक्ति कृतज्ञता च ॥- ॥
नवद्वारमिदं वेश्म त्रिस्थूणं पंच साक्षिकम् । क्षेत्रज्ञाधिष्ठितं विद्वान्यो वेद स परः कविः ॥ 81॥
दश धर्मं न जानंति धृतराष्ट्र निबोध तान् । मत्तः प्रमत्त उन्मत्तः श्रांतः क्रुद्धो बुभुक्षितः ॥ 82॥
त्वरमाणश्च भीरुश्च लुब्धः कामी च ते दश । तस्मादेतेषु भावेषु न प्रसज्जेत पंडितः ॥ 83॥
अत्रैवोदाहरंतीममितिहासं पुरातनम् । पुत्रार्थमसुरेंद्रेण गीतं चैव सुधन्वना ॥ 84॥
यः काममन्यू प्रजहाति राजा पात्रे प्रतिष्ठापयते धनं च । विशेषविच्छ्रुतवान्क्षिप्रकारी तं सर्वलोकः कुरुते प्रमाणम् ॥ 85॥
जानाति विश्वासयितुं मनुष्यान् विज्ञात दोषेषु दधाति दंडम् । जानाति मात्रां च तथा क्षमां च तं तादृशं श्रीर्जुषते समग्रा ॥ 86॥
सुदुर्बलं नावजानाति कंचिद्- युक्तो रिपुं सेवते बुद्धिपूर्वम् । न विग्रहं रोचयते बलस्थैः काले च यो विक्रमते स धीरः ॥ 87॥
प्राप्यापदं न व्यथते कदा चिद् उद्योगमन्विच्छति चाप्रमत्तः । दुःखं च काले सहते जितात्मा धुरंधरस्तस्य जिताः सपत्नाः ॥ 88॥
अनर्थकं विप्र वासं गृहेभ्यः पापैः संधिं परदाराभिमर्शम् । दंभं स्तैन्यं पैशुनं मद्य पानं न सेवते यः स सुखी सदैव ॥ 89॥
न संरंभेणारभतेऽर्थवर्गम् आकारितः शंसति तथ्यमेव । न मात्रार्थे रोचयते विवादं नापूजितः कुप्यति चाप्यमूढः ॥ 90॥
न योऽभ्यसूयत्यनुकंपते च न दुर्बलः प्रातिभाव्यं करोति । नात्याह किं चित्क्षमते विवादं सर्वत्र तादृग्लभते प्रशंसाम् ॥ 91॥
यो नोद्धतं कुरुते जातु वेषं न पौरुषेणापि विकत्थतेऽन्यान् । न मूर्च्छितः कटुकान्याह किं चित् प्रियं सदा तं कुरुते जनोऽपि ॥ 92॥
न वैरमुद्दीपयति प्रशांतं न दर्ममारोहति नास्तमेति । न दुर्गतोऽस्मीति करोति मन्युं तमार्य शीलं परमाहुरग्र्यम् ॥ 93॥
न स्वे सुखे वै कुरुते प्रहर्षं नान्यस्य दुःखे भवति प्रतीतः । दत्त्वा न पश्चात्कुरुतेऽनुतापं न कत्थते सत्पुरुषार्य शीलः ॥ 94॥
देशाचारान्समयांजातिधर्मान् बुभूषते यस्तु परावरज्ञः । स तत्र तत्राधिगतः सदैव महाजनस्याधिपत्यं करोति ॥ 95॥
दंभं मोहं मत्सरं पापकृत्यं राजद्विष्टं पैशुनं पूगवैरम् । मत्तोन्मत्तैर्दुर्जनैश्चापि वादं यः प्रज्ञावान्वर्जयेत्स प्रधानः ॥ 96॥
दमं शौचं दैवतं मंगलानि प्रायश्चित्तं विविधाँल्लोकवादान् । एतानि यः कुरुते नैत्यकानि तस्योत्थानं देवता राधयंति ॥ 97॥
समैर्विवाहं कुरुते न हीनैः समैः सख्यं व्यवहारं कथाश्च । गुणैर्विशिष्टांश्च पुरो दधाति विपश्चितस्तस्य नयाः सुनीताः ॥ 98॥
मितं भुंक्ते संविभज्याश्रितेभ्यो मितं स्वपित्यमितं कर्मकृत्वा । ददात्यमित्रेष्वपि याचितः सं- स्तमात्मवंतं प्रजहात्यनर्थाः ॥ 99॥
चिकीर्षितं विप्रकृतं च यस्य नान्ये जनाः कर्म जानंति किं चित् । मंत्रे गुप्ते सम्यगनुष्ठिते च स्वल्पो नास्य व्यथते कश्चिदर्थः ॥ 100॥
यः सर्वभूतप्रशमे निविष्टः सत्यो मृदुर्दानकृच्छुद्ध भावः । अतीव संज्ञायते ज्ञातिमध्ये महामणिर्जात्य इव प्रसन्नः ॥ 101॥
य आत्मनापत्रपते भृशं नरः स सर्वलोकस्य गुरुर्भवत्युत । अनंत तेजाः सुमनाः समाहितः स्वतेजसा सूर्य इवावभासते ॥ 102॥
वने जाताः शापदग्धस्य राज्ञः पांडोः पुत्राः पंच पंचेंद्र कल्पाः । त्वयैव बाला वर्धिताः शिक्षिताश्च तवादेशं पालयंत्यांबिकेय ॥ 103॥
प्रदायैषामुचितं तात राज्यं सुखी पुत्रैः सहितो मोदमानः । न देवानां नापि च मानुषाणां भविष्यसि त्वं तर्कणीयो नरेंद्र ॥ 104॥
॥ इति श्रीमहाभारते उद्योगपर्वणि प्रजागरपर्वणि विदुरनीतिवाक्ये त्रयस्त्रिंशोऽध्यायः ॥ 33 ॥
Browse Related Categories: