Vidura Neethi · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
॥ इति श्रीमहाभारते उद्योगपर्वणि प्रजागरपर्वणि विदुरनीतिवाक्ये चतुस्त्रिंशोऽध्यायः ॥
धृतराष्ट्र उवाच
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
जाग्रतो दह्यमानस्य यत्कार्यमनुपश्यसि । तद्ब्रूहि त्वं हि नस्तात धर्मार्थकुशलः शुचिः ॥ 1॥
त्वं मां यथावद्विदुर प्रशाधि प्रज्ञा पूर्वं सर्वमजातशत्रोः । यन्मन्यसे पथ्यमदीनसत्त्व श्रेयः करं ब्रूहि तद्वै कुरूणाम् ॥ 2॥
पापाशंगी पापमेव नौपश्यन् पृच्छामि त्वां व्याकुलेनात्मनाहम् । कवे तन्मे ब्रूहि सर्वं यथावन् मनीषितं सर्वमजातशत्रोः ॥ 3॥
विदुर उवाच
शुभं वा यदि वा पापं द्वेष्यं वा यदि वा प्रियम् । अपृष्टस्तस्य तद्ब्रूयाद्यस्य नेच्छेत्पराभवम् ॥ 4॥
तस्माद्वक्ष्यामि ते राजन्भवमिच्छन्कुरून्प्रति । वचः श्रेयः करं धर्म्यं ब्रुवतस्तन्निबोध मे ॥ 5॥
मिथ्योपेतानि कर्माणि सिध्येयुर्यानि भारत । अनुपाय प्रयुक्तानि मा स्म तेषु मनः कृथाः ॥ 6॥
तथैव योगविहितं न सिध्येत्कर्म यन्नृप । उपाययुक्तं मेधावी न तत्र ग्लपयेन्मनः ॥ 7॥
अनुबंधानवेक्षेत सानुबंधेषु कर्मसु । संप्रधार्य च कुर्वीत न वेगेन समाचरेत् ॥ 8॥
अनुबंधं च संप्रेक्ष्य विपाकांश्चैव कर्मणाम् । उत्थानमात्मनश्चैव धीरः कुर्वीत वा न वा ॥ 9॥
यः प्रमाणं न जानाति स्थाने वृद्धौ तथा क्षये । कोशे जनपदे दंडे न स राज्यावतिष्ठते ॥ 10॥
यस्त्वेतानि प्रमाणानि यथोक्तान्यनुपश्यति । युक्तो धर्मार्थयोर्ज्ञाने स राज्यमधिगच्छति ॥ 11॥
न राज्यं प्राप्तमित्येव वर्तितव्यमसांप्रतम् । श्रियं ह्यविनयो हंति जरा रूपमिवोत्तमम् ॥ 12॥
भक्ष्योत्तम प्रतिच्छन्नं मत्स्यो बडिशमायसम् । रूपाभिपाती ग्रसते नानुबंधमवेक्षते ॥ 13॥
यच्छक्यं ग्रसितुं ग्रस्यं ग्रस्तं परिणमेच्च यत् । हितं च परिणामे यत्तदद्यं भूतिमिच्छता ॥ 14॥
वनस्पतेरपक्वानि फलानि प्रचिनोति यः । स नाप्नोति रसं तेभ्यो बीजं चास्य विनश्यति ॥ 15॥
यस्तु पक्वमुपादत्ते काले परिणतं फलम् । फलाद्रसं स लभते बीजाच्चैव फलं पुनः ॥ 16॥
यथा मधु समादत्ते रक्षन्पुष्पाणि षट्पदः । तद्वदर्थान्मनुष्येभ्य आदद्यादविहिंसया ॥ 17॥
पुष्पं पुष्पं विचिन्वीत मूलच्छेदं न कारयेत् । मालाकार इवारामे न यथांगारकारकः ॥ 18॥
किं नु मे स्यादिदं कृत्वा किं नु मे स्यादकुर्वतः । इति कर्माणि संचिंत्य कुर्याद्वा पुरुषो न वा ॥ 19॥
अनारभ्या भवंत्यर्थाः के चिन्नित्यं तथागताः । कृतः पुरुषकारोऽपि भवेद्येषु निरर्थकः ॥ 20॥
कांश्चिदर्थान्नरः प्राज्ञो लभु मूलान्महाफलान् । क्षिप्रमारभते कर्तुं न विघ्नयति तादृशान् ॥ 21॥
ऋजु पश्यति यः सर्वं चक्षुषानुपिबन्निव । आसीनमपि तूष्णीकमनुरज्यंति तं प्रजाः ॥ 22॥
चक्षुषा मनसा वाचा कर्मणा च चतुर्विधम् । प्रसादयति लोकं यस्तं लोकोऽनुप्रसीदति ॥ 23॥
यस्मात्त्रस्यंति भूतानि मृगव्याधान्मृगा इव । सागरांतामपि महीं लब्ध्वा स परिहीयते ॥ 24॥
पितृपैतामहं राज्यं प्राप्तवान्स्वेन तेजसा । वायुरभ्रमिवासाद्य भ्रंशयत्यनये स्थितः ॥ 25॥
धर्ममाचरतो राज्ञः सद्भिश्चरितमादितः । वसुधा वसुसंपूर्णा वर्धते भूतिवर्धनी ॥ 26॥
अथ संत्यजतो धर्ममधर्मं चानुतिष्ठतः । प्रतिसंवेष्टते भूमिरग्नौ चर्माहितं यथा ॥ 27॥
य एव यत्नः क्रियते प्रर राष्ट्रावमर्दने । स एव यत्नः कर्तव्यः स्वराष्ट्र परिपालने ॥ 28॥
धर्मेण राज्यं विंदेत धर्मेण परिपालयेत् । धर्ममूलां श्रियं प्राप्य न जहाति न हीयते ॥ 29॥
अप्युन्मत्तात्प्रलपतो बालाच्च परिसर्पतः । सर्वतः सारमादद्यादश्मभ्य इव कांचनम् ॥ 30॥
सुव्याहृतानि सुधियां सुकृतानि ततस्ततः । संचिन्वंधीर आसीत शिला हारी शिलं यथा ॥ 31॥
गंधेन गावः पश्यंति वेदैः पश्यंति ब्राह्मणाः । चारैः पश्यंति राजानश्चक्षुर्भ्यामितरे जनाः ॥ 32॥
भूयांसं लभते क्लेशं या गौर्भवति दुर्दुहा । अथ या सुदुहा राजन्नैव तां विनयंत्यपि ॥ 33॥
यदतप्तं प्रणमति न तत्संतापयंत्यपि । यच्च स्वयं नतं दारु न तत्सन्नामयंत्यपि ॥ 34॥
एतयोपमया धीरः सन्नमेत बलीयसे । इंद्राय स प्रणमते नमते यो बलीयसे ॥ 35॥
पर्जन्यनाथाः पशवो राजानो मित्र बांधवाः । पतयो बांधवाः स्त्रीणां ब्राह्मणा वेद बांधवाः ॥ 36॥
सत्येन रक्ष्यते धर्मो विद्या योगेन रक्ष्यते । मृजया रक्ष्यते रूपं कुलं वृत्तेन रक्ष्यते ॥ 37॥
मानेन रक्ष्यते धान्यमश्वान्रक्ष्यत्यनुक्रमः । अभीक्ष्णदर्शनाद्गावः स्त्रियो रक्ष्याः कुचेलतः ॥ 38॥
न कुलं वृत्ति हीनस्य प्रमाणमिति मे मतिः । अंत्येष्वपि हि जातानां वृत्तमेव विशिष्यते ॥ 39॥
य ईर्ष्युः परवित्तेषु रूपे वीर्ये कुलान्वये । सुखे सौभाग्यसत्कारे तस्य व्याधिरनंतकः ॥ 40॥
अकार्य करणाद्भीतः कार्याणां च विवर्जनात् । अकाले मंत्रभेदाच्च येन माद्येन्न तत्पिबेत् ॥ 41॥
विद्यामदो धनमदस्तृतीयोऽभिजनो मदः । एते मदावलिप्तानामेत एव सतां दमाः ॥ 42॥
असंतोऽभ्यर्थिताः सद्भिः किं चित्कार्यं कदा चन । मन्यंते संतमात्मानमसंतमपि विश्रुतम् ॥ 43॥
गतिरात्मवतां संतः संत एव सतां गतिः । असतां च गतिः संतो न त्वसंतः सतां गतिः ॥ 44॥
जिता सभा वस्त्रवता समाशा गोमता जिता । अध्वा जितो यानवता सर्वं शीलवता जितम् ॥ 45॥
शीलं प्रधानं पुरुषे तद्यस्येह प्रणश्यति । न तस्य जीवितेनार्थो न धनेन न बंधुभिः ॥ 46॥
आढ्यानां मांसपरमं मध्यानां गोरसोत्तरम् । लवणोत्तरं दरिद्राणां भोजनं भरतर्षभ ॥ 47॥
संपन्नतरमेवान्नं दरिद्रा भुंजते सदा । क्षुत्स्वादुतां जनयति सा चाढ्येषु सुदुर्लभा ॥ 48॥
प्रायेण श्रीमतां लोके भोक्तुं शक्तिर्न विद्यते । दरिद्राणां तु राजेंद्र अपि काष्ठं हि जीर्यते ॥ 49॥
अवृत्तिर्भयमंत्यानां मध्यानां मरणाद्भयम् । उत्तमानां तु मर्त्यानामवमानात्परं भयम् ॥ 50॥
ऐश्वर्यमदपापिष्ठा मदाः पानमदादयः । ऐश्वर्यमदमत्तो हि नापतित्वा विबुध्यते ॥ 51॥
इंद्रियौरिंद्रियार्थेषु वर्तमानैरनिग्रहैः । तैरयं ताप्यते लोको नक्षत्राणि ग्रहैरिव ॥ 52॥
यो जितः पंचवर्गेण सहजेनात्म कर्शिना । आपदस्तस्य वर्धंते शुक्लपक्ष इवोडुराड् ॥ 53॥
अविजित्य य आत्मानममात्यान्विजिगीषते । अमित्रान्वाजितामात्यः सोऽवशः परिहीयते ॥ 54॥
आत्मानमेव प्रथमं देशरूपेण यो जयेत् । ततोऽमात्यानमित्रांश्च न मोघं विजिगीषते ॥ 55॥
वश्येंद्रियं जितामात्यं धृतदंडं विकारिषु । परीक्ष्य कारिणं धीरमत्यंतं श्रीर्निषेवते ॥ 56॥
रथः शरीरं पुरुषस्य राजन् नात्मा नियंतेंद्रियाण्यस्य चाश्वाः । तैरप्रमत्तः कुशलः सदश्वैर् दांतैः सुखं याति रथीव धीरः ॥ 57॥
एतान्यनिगृहीतानि व्यापादयितुमप्यलम् । अविधेया इवादांता हयाः पथि कुसारथिम् ॥ 58॥
अनर्थमर्थतः पश्यन्नर्तं चैवाप्यनर्थतः । इंद्रियैः प्रसृतो बालः सुदुःखं मन्यते सुखम् ॥ 59॥
धर्मार्थौ यः परित्यज्य स्यादिंद्रियवशानुगः । श्रीप्राणधनदारेभ्य क्षिप्रं स परिहीयते ॥ 60॥
अर्थानामीश्वरो यः स्यादिंद्रियाणामनीश्वरः । इंद्रियाणामनैश्वर्यादैश्वर्याद्भ्रश्यते हि सः ॥ 61॥
आत्मनात्मानमन्विच्छेन्मनो बुद्धींद्रियैर्यतैः । आत्मैव ह्यात्मनो बंधुरात्मैव रिपुरात्मनः ॥ 62॥
क्षुद्राक्षेणेव जालेन झषावपिहितावुभौ । कामश्च राजन्क्रोधश्च तौ प्राज्ञानं विलुंपतः ॥ 63॥
समवेक्ष्येह धर्मार्थौ संभारान्योऽधिगच्छति । स वै संभृत संभारः सततं सुखमेधते ॥ 64॥
यः पंचाभ्यंतराञ्शत्रूनविजित्य मतिक्षयान् । जिगीषति रिपूनन्यान्रिपवोऽभिभवंति तम् ॥ 65॥
दृश्यंते हि दुरात्मानो वध्यमानाः स्वकर्म भिः । इंद्रियाणामनीशत्वाद्राजानो राज्यविभ्रमैः ॥ 66॥
असंत्यागात्पापकृतामपापांस् तुल्यो दंडः स्पृशते मिश्रभावात् । शुष्केणार्द्रं दह्यते मिश्रभावात् तस्मात्पापैः सह संधिं न कुर्यात् ॥ 67॥
निजानुत्पततः शत्रून्पंच पंच प्रयोजनान् । यो मोहान्न निघृह्णाति तमापद्ग्रसते नरम् ॥ 68॥
अनसूयार्जवं शौचं संतोषः प्रियवादिता । दमः सत्यमनायासो न भवंति दुरात्मनाम् ॥ 69॥
आत्मज्ञानमनायासस्तितिक्षा धर्मनित्यता । वाक्चैव गुप्ता दानं च नैतान्यंत्येषु भारत ॥ 70॥
आक्रोश परिवादाभ्यां विहिंसंत्यबुधा बुधान् । वक्ता पापमुपादत्ते क्षममाणो विमुच्यते ॥ 71॥
हिंसा बलमसाधूनां राज्ञां दंडविधिर्बलम् । शुश्रूषा तु बलं स्त्रीणां क्षमागुणवतां बलम् ॥ 72॥
वाक्संयमो हि नृपते सुदुष्करतमो मतः । अर्थवच्च विचित्रं च न शक्यं बहुभाषितुम् ॥ 73॥
अभ्यावहति कल्याणं विविधा वाक्सुभाषिता । सैव दुर्भाषिता राजन्ननर्थायोपपद्यते ॥ 74॥
संरोहति शरैर्विद्धं वनं परशुना हतम् । वाचा दुरुक्तं बीभत्सं न संरोहति वाक्क्षतम् ॥ 75॥
कर्णिनालीकनाराचा निर्हरंति शरीरतः । वाक्षल्यस्तु न निर्हर्तुं शक्यो हृदि शयो हि सः ॥ 76॥
वाक्सायका वदनान्निष्पतंति यैराहतः शोचति रत्र्यहानि । परस्य नामर्मसु ते पतंति तान्पंडितो नावसृजेत्परेषु ॥ 77॥
यस्मै देवाः प्रयच्छंति पुरुषाय पराभवम् । बुद्धिं तस्यापकर्षंति सोऽपाचीनानि पश्यति ॥ 78॥
बुद्धौ कलुष भूतायां विनाशे प्रत्युपस्थिते । अनयो नयसंकाशो हृदयान्नापसर्पति ॥ 79॥
सेयं बुद्धिः परीता ते पुत्राणां तव भारत । पांडवानां विरोधेन न चैनां अवबुध्यसे ॥ 80॥
राजा लक्षणसंपन्नस्त्रैलोक्यस्यापि यो भवेत् । शिष्यस्ते शासिता सोऽस्तु धृतराष्ट्र युधिष्ठिरः ॥ 81॥
अतीव सर्वान्पुत्रांस्ते भागधेय पुरस्कृतः । तेजसा प्रज्ञया चैव युक्तो धर्मार्थतत्त्ववित् ॥ 82॥
आनृशंस्यादनुक्रोशाद्योऽसौ धर्मभृतां वरः । गौरवात्तव राजेंद्र बहून्क्लेशांस्तितिक्षति ॥ 83॥
॥ इति श्रीमहाभारते उद्योगपर्वणि प्रजागरपर्वणि विदुरनीतिवाक्ये चतुस्त्रिंशोऽध्यायः ॥ 34॥
Browse Related Categories: