Vidura Neethi · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
॥ इति श्रीमहाभारते उद्योगपर्वणि प्रजागरपर्वणि विदुरहितवाक्ये षट्त्रिंशोऽध्यायः ॥
विदुर उवाच
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
अत्रैवोदाहरंतीममितिहासं पुरातनम् । आत्रेयस्य च संवादं साध्यानां चेति नः श्रुतम् ॥ 1॥
चरंतं हंसरूपेण महर्षिं संशितव्रतम् । साध्या देवा महाप्राज्ञं पर्यपृच्छंत वै पुरा ॥ 2॥
साध्या ऊचुः । साध्या देवा वय्मस्मो महर्षे दृष्ट्वा भवंतं न शक्नुमोऽनुमातुम् । श्रुतेन धीरो बुद्धिमांस्त्वं मतो नः काव्यां वाचं वक्तुमर्हस्युदाराम् ॥ 3॥
हंस उवाच
एतत्कार्यममराः संश्रुतं मे धृतिः शमः सत्यधर्मानुवृत्तिः । ग्रंथिं विनीय हृदयस्य सर्वं प्रियाप्रिये चात्मवशं नयीत ॥ 4॥
आक्रुश्यमानो नाक्रोशेन्मन्युरेव तितिक्षितः । आक्रोष्टारं निर्दहति सुकृतं चास्य विंदति ॥ 5॥
नाक्रोशी स्यान्नावमानी परस्य मित्रद्रोही नोत नीचोपसेवी । न चातिमानी न च हीनवृत्तो रूक्षां वाचं रुशतीं वर्जयीत ॥ 6॥
मर्माण्यस्थीनि हृदयं तथासून् घोरा वाचो निर्दहंतीह पुंसाम् । तस्माद्वाचं रुशतीं रूक्षरूपां धर्मारामो नित्यशो वर्जयीत ॥ 7॥
अरुं तुरं परुषं रूक्षवाचं वाक्कंटकैर्वितुदंतं मनुष्यान् । विद्यादलक्ष्मीकतमं जनानां मुखे निबद्धां निरृतिं वहंतम् ॥ 8॥
परश्चेदेनमधिविध्येत बाणैर् भृशं सुतीक्ष्णैरनलार्क दीप्तैः । विरिच्यमानोऽप्यतिरिच्यमानो विद्यात्कविः सुकृतं मे दधाति ॥ 9॥
यदि संतं सेवते यद्यसंतं तपस्विनं यदि वा स्तेनमेव । वासो यथा रंग वशं प्रयाति तथा स तेषां वशमभ्युपैति ॥ 10॥
वादं तु यो न प्रवदेन्न वादयेद् यो नाहतः प्रतिहन्यान्न घातयेत् । यो हंतुकामस्य न पापमिच्छेत् तस्मै देवाः स्पृहयंत्यागताय ॥ 11॥
अव्याहृतं व्याहृताच्छ्रेय आहुः सत्यं वदेद्व्याहृतं तद्द्वितीयम् । प्रियंवदेद्व्याहृतं तत्तृतीयं धर्म्यं वदेद्व्याहृतं तच्चतुर्थम् ॥ 12॥
यादृशैः संविवदते यादृशांश् चोपसेवते । यादृगिच्छेच्च भवितुं तादृग्भवति पूरुषः ॥ 13॥
यतो यतो निवर्तते ततस्ततो विमुच्यते । निवर्तनाद्धि सर्वतो न वेत्ति दुःखमण्वपि ॥ 14॥
न जीयते नोत जिगीषतेऽन्यान् न वैरक्कृच्चाप्रतिघातकश् च । निंदा प्रशंसासु समस्वभावो न शोचते हृष्यति नैव चायम् ॥ 15॥
भावमिच्छति सर्वस्य नाभावे कुरुते मतिम् । सत्यवादी मृदुर्दांतो यः स उत्तमपूरुषः ॥ 16॥
नानर्थकं सांत्वयति प्रतिज्ञाय ददाति च । राद्धापराद्धे जानाति यः स मध्यमपूरुषः ॥ 17॥
दुःशासनस्तूपहंता न शास्ता नावर्तते मन्युवशात्कृतघ्नः । न कस्य चिन्मित्रमथो दुरात्मा कलाश्चैता अधमस्येह पुंसः ॥ 18॥
न श्रद्दधाति कल्याणं परेभ्योऽप्यात्मशंकितः । निराकरोति मित्राणि यो वै सोऽधम पूरुषः ॥ 19॥
उत्तमानेव सेवेत प्राप्ते काले तु मध्यमान् । अधमांस्तु न सेवेत य इच्छेच्छ्रेय आत्मनः ॥ 20॥
प्राप्नोति वै वित्तमसद्बलेन नित्योत्थानात्प्रज्ञया पौरुषेण । न त्वेव सम्यग्लभते प्रशंसां न वृत्तमाप्नोति महाकुलानाम् ॥ 21॥
धृतराष्ट्र उवाच
महाकुलानां स्पृहयंति देवा धर्मार्थवृद्धाश्च बहुश्रुताश् च । पृच्छामि त्वां विदुर प्रश्नमेतं भवंति वै कानि महाकुलानि ॥ 22॥
विदुर उवाच
तमो दमो ब्रह्मवित्त्वं वितानाः पुण्या विवाहाः सततान्न दानम् । येष्वेवैते सप्तगुणा भवंति सम्यग्वृत्तास्तानि महाकुलानि ॥ 23॥
येषां न वृत्तं व्यथते न योनिर् वृत्तप्रसादेन चरंति धर्मम् । ये कीर्तिमिच्छंति कुले विशिष्टां त्यक्तानृतास्तानि महाकुलानि ॥ 24॥
अनिज्ययाविवाहैर्श्च वेदस्योत्सादनेन च । कुलान्यकुलतां यांति धर्मस्यातिक्रमेण च ॥ 25॥
देव द्रव्यविनाशेन ब्रह्म स्वहरणेन च । कुलान्यकुलतां यांति ब्राह्मणातिक्रमेण च ॥ 26॥
ब्राह्मणानां परिभवात्परिवादाच्च भारत । कुलान्यकुलतां यांति न्यासापहरणेन च ॥ 27॥
कुलानि समुपेतानि गोभिः पुरुषतोऽश्वतः । कुलसंख्यां न गच्छंति यानि हीनानि वृत्ततः ॥ 28॥
वृत्ततस्त्वविहीनानि कुलान्यल्पधनान्यपि । कुलसंख्यां तु गच्छंति कर्षंति च मयद्यशः ॥ 29॥
मा नः कुले वैरकृत्कश् चिदस्तु राजामात्यो मा परस्वापहारी । मित्रद्रोही नैकृतिकोऽनृती वा पूर्वाशी वा पितृदेवातिथिभ्यः ॥ 30॥
यश्च नो ब्राह्मणं हन्याद्यश्च नो ब्राह्मणांद्विषेत् । न नः स समितिं गच्छेद्यश्च नो निर्वपेत्कृषिम् ॥ 31॥
तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता । सतामेतानि गेहेषु नोच्छिद्यंते कदा चन ॥ 32॥
श्रद्धया परया राजन्नुपनीतानि सत्कृतिम् । प्रवृत्तानि महाप्राज्ञ धर्मिणां पुण्यकर्मणाम् ॥ 33॥
सूक्ष्मोऽपि भारं नृपते स्यंदनो वै शक्तो वोढुं न तथान्ये महीजाः । एवं युक्ता भारसहा भवंति महाकुलीना न तथान्ये मनुष्याः ॥ 34॥
न तन्मित्रं यस्य कोपाद्बिभेति यद्वा मित्रं शंकितेनोपचर्यम् । यस्मिन्मित्रे पितरीवाश्वसीत तद्वै मित्रं संगतानीतराणि ॥ 35॥
यदि चेदप्यसंबंधो मित्रभावेन वर्तते । स एव बंधुस्तन्मित्रं सा गतिस्तत्परायणम् ॥ 36॥
चलचित्तस्य वै पुंसो वृद्धाननुपसेवतः । पारिप्लवमतेर्नित्यमध्रुवो मित्र संग्रहः ॥ 37॥
चलचित्तमनात्मानमिंद्रियाणां वशानुगम् । अर्थाः समतिवर्तंते हंसाः शुष्कं सरो यथा ॥ 38॥
अकस्मादेव कुप्यंति प्रसीदंत्यनिमित्ततः । शीलमेतदसाधूनामभ्रं पारिप्लवं यथा ॥ 39॥
सत्कृताश्च कृतार्थाश्च मित्राणां न भवंति ये । तान्मृतानपि क्रव्यादाः कृतघ्नान्नोपभुंजते ॥ 40॥
अर्थयेदेव मित्राणि सति वासति वा धने । नानर्थयन्विजानाति मित्राणां सारफल्गुताम् ॥ 41॥
संतापाद्भ्रश्यते रूपं संतापाद्भ्रश्यते बलम् । संतापाद्भ्रश्यते ज्ञानं संतापाद्व्याधिमृच्छति ॥ 42॥
अनवाप्यं च शोकेन शरीरं चोपतप्यते । अमित्राश्च प्रहृष्यंति मा स्म शोके मनः कृथाः ॥ 43॥
पुनर्नरो म्रियते जायते च पुनर्नरो हीयते वर्धते पुनः । पुनर्नरो याचति याच्यते च पुनर्नरः शोचति शोच्यते पुनः ॥ 44॥
सुखं च दुःखं च भवाभवौ च लाभालाभौ मरणं जीवितं च । पर्यायशः सर्वमिह स्पृशंति तस्माद्धीरो नैव हृष्येन्न शोचेत् ॥ 45॥
चलानि हीमानि षडिंद्रियाणि तेषां यद्यद्वर्तते यत्र यत्र । ततस्ततः स्रवते बुद्धिरस्य छिद्रोद कुंभादिव नित्यमंभः ॥ 46॥
धृतराष्ट्र उवाच
तनुरुच्छः शिखी राजा मिथ्योपचरितो मया । मंदानां मम पुत्राणां युद्धेनांतं करिष्यति ॥ 47॥
नित्योद्विग्नमिदं सर्वं नित्योद्विग्नमिदं मनः । यत्तत्पदमनुद्विग्नं तन्मे वद महामते ॥ 48॥
विदुर उवाच
नान्यत्र विद्या तपसोर्नान्यत्रेंद्रिय निग्रहात् । नान्यत्र लोभसंत्यागाच्छांतिं पश्याम तेऽनघ ॥ 49॥
बुद्ध्या भयं प्रणुदति तपसा विंदते महत् । गुरुशुश्रूषया ज्ञानं शांतिं त्यागेन विंदति ॥ 50॥
अनाश्रिता दानपुण्यं वेद पुण्यमनाश्रिताः । रागद्वेषविनिर्मुक्ता विचरंतीह मोक्षिणः ॥ 51॥
स्वधीतस्य सुयुद्धस्य सुकृतस्य च कर्मणः । तपसश्च सुतप्तस्य तस्यांते सुखमेधते ॥ 52॥
स्वास्तीर्णानि शयनानि प्रपन्ना न वै भिन्ना जातु निद्रां लभंते । न स्त्रीषु राजन्रतिमाप्नुवंति न मागधैः स्तूयमाना न सूतैः ॥ 53॥
न वै भिन्ना जातु चरंति धर्मं न वै सुखं प्राप्नुवंतीह भिन्नाः । न वै भिन्ना गौरवं मानयंति न वै भिन्नाः प्रशमं रोचयंति ॥ 54॥
न वै तेषां स्वदते पथ्यमुक्तं योगक्षेमं कल्पते नोत तेषाम् । भिन्नानां वै मनुजेंद्र परायणं न विद्यते किं चिदन्यद्विनाशात् ॥ 55॥
संभाव्यं गोषु संपन्नं संभाव्यं ब्राह्मणे तपः । संभाव्यं स्त्रीषु चापल्यं संभाव्यं ज्ञातितो भयम् ॥ 56॥
तंतवोऽप्यायता नित्यं तंतवो बहुलाः समाः । बहून्बहुत्वादायासान्सहंतीत्युपमा सताम् ॥ 57॥
धूमायंते व्यपेतानि ज्वलंति सहितानि च । धृतराष्ट्रोल्मुकानीव ज्ञातयो भरतर्षभ ॥ 58॥
ब्राह्मणेषु च ये शूराः स्त्रीषु ज्ञातिषु गोषु च । वृंतादिव फलं पक्वं धृतराष्ट्र पतंति ते ॥ 59॥
महानप्येकजो वृक्षो बलवान्सुप्रतिष्ठितः । प्रसह्य एव वातेन शाखा स्कंधं विमर्दितुम् ॥ 60॥
अथ ये सहिता वृक्षाः संघशः सुप्रतिष्ठिताः । ते हि शीघ्रतमान्वातान्सहंतेऽन्योन्यसंश्रयात् ॥ 61॥
एवं मनुष्यमप्येकं गुणैरपि समन्वितम् । शक्यं द्विषंतो मन्यंते वायुर्द्रुममिवौकजम् ॥ 62॥
अन्योन्यसमुपष्टंभादन्योन्यापाश्रयेण च । ज्ञातयः संप्रवर्धंते सरसीवोत्पलान्युत ॥ 63॥
अवध्या ब्राह्मणा गावो स्त्रियो बालाश्च ज्ञातयः । येषां चान्नानि भुंजीत ये च स्युः शरणागताः ॥ 64॥
न मनुष्ये गुणः कश्चिदन्यो धनवतां अपि । अनातुरत्वाद्भद्रं ते मृतकल्पा हि रोगिणः ॥ 65॥
अव्याधिजं कटुकं शीर्ष रोगं पापानुबंधं परुषं तीक्ष्णमुग्रम् । सतां पेयं यन्न पिबंत्यसंतो मन्युं महाराज पिब प्रशाम्य ॥ 66॥
रोगार्दिता न फलान्याद्रियंते न वै लभंते विषयेषु तत्त्वम् । दुःखोपेता रोगिणो नित्यमेव न बुध्यंते धनभोगान्न सौख्यम् ॥ 67॥
पुरा ह्युक्तो नाकरोस्त्वं वचो मे द्यूते जितां द्रौपदीं प्रेक्ष्य राजन् । दुर्योधनं वारयेत्यक्षवत्यां कितवत्वं पंडिता वर्जयंति ॥ 68॥
न तद्बलं यन्मृदुना विरुध्यते मिश्रो धर्मस्तरसा सेवितव्यः । प्रध्वंसिनी क्रूरसमाहिता श्रीर् मृदुप्रौढा गच्छति पुत्रपौत्रान् ॥ 69॥
धार्तराष्ट्राः पांडवान्पालयंतु पांडोः सुतास्तव पुत्रांश्च पांतु । एकारिमित्राः कुरवो ह्येकमंत्रा जीवंतु राजन्सुखिनः समृद्धाः ॥ 70॥
मेढीभूतः कौरवाणां त्वमद्य त्वय्याधीनं कुरु कुलमाजमीढ । पार्थान्बालान्वनवास प्रतप्तान् गोपायस्व स्वं यशस्तात रक्षन् ॥ 71॥
संधत्स्व त्वं कौरवान्पांडुपुत्रैर् मा तेऽंतरं रिपवः प्रार्थयंतु । सत्ये स्थितास्ते नरदेव सर्वे दुर्योधनं स्थापय त्वं नरेंद्र ॥ 72॥
॥ इति श्रीमहाभारते उद्योगपर्वणि प्रजागरपर्वणि विदुरहितवाक्ये षट्त्रिंशोऽध्यायः ॥ 36॥
Browse Related Categories: