Vidura Neethi · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
॥ इति श्रीमहाभारते उद्योगपर्वणि प्रजागरपर्वणि विदुरवाक्ये अष्टत्रिंशोऽध्यायः ॥
विदुर उवाच
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
ऊर्ध्वं प्राणा ह्युत्क्रामंति यूनः स्थविर आयति । प्रत्युत्थानाभिवादाभ्यां पुनस्तान्पतिपद्यते ॥ 1॥
पीठं दत्त्वा साधवेऽभ्यागताय आनीयापः परिनिर्णिज्य पादौ । सुखं पृष्ट्वा प्रतिवेद्यात्म संस्थं ततो दद्यादन्नमवेक्ष्य धीरः ॥ 2॥
यस्योदकं मधुपर्कं च गां च न मंत्रवित्प्रतिगृह्णाति गेहे । लोभाद्भयादर्थकार्पण्यतो वा तस्यानर्थं जीवितमाहुरार्याः ॥ 3॥
चिकित्सकः शक्य कर्तावकीर्णी स्तेनः क्रूरो मद्यपो भ्रूणहा च । सेनाजीवी श्रुतिविक्रायकश् च भृशं प्रियोऽप्यतिथिर्नोदकार्हः ॥ 4॥
अविक्रेयं लवणं पक्वमन्नं दधि क्षीरं मधु तैलं घृतं च । तिला मांसं मूलफलानि शाकं रक्तं वासः सर्वगंधा गुडश् च ॥ 5॥
अरोषणो यः समलोष्ट कांचनः प्रहीण शोको गतसंधि विग्रहः । निंदा प्रशंसोपरतः प्रियाप्रिये चरन्नुदासीनवदेष भिक्षुकः ॥ 6॥
नीवार मूलेंगुद शाकवृत्तिः सुसंयतात्माग्निकार्येष्वचोद्यः । वने वसन्नतिथिष्वप्रमत्तो धुरंधरः पुण्यकृदेष तापसः ॥ 7॥
अपकृत्वा बुद्धिमतो दूरस्थोऽस्मीति नाश्वसेत् । दीर्घौ बुद्धिमतो बाहू याभ्यां हिंसति हिंसितः ॥ 8॥
न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत् । विश्वासाद्भयमुत्पन्नं मूलान्यपि निकृंतति ॥ 9॥
अनीर्ष्युर्गुप्तदारः स्यात्संविभागी प्रियंवदः । श्लक्ष्णो मधुरवाक्स्त्रीणां न चासां वशगो भवेत् ॥ 10॥
पूजनीया महाभागाः पुण्याश्च गृहदीप्तयः । स्त्रियः श्रियो गृहस्योक्तास्तस्माद्रक्ष्या विशेषतः ॥ 11॥
पितुरंतःपुरं दद्यान्मातुर्दद्यान्महानसम् । गोषु चात्मसमं दद्यात्स्वयमेव कृषिं व्रजेत् । भृत्यैर्वणिज्याचारं च पुत्रैः सेवेत ब्राह्मणान् ॥ 12॥
अद्भ्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम् । तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति ॥ 13॥
नित्यं संतः कुले जाताः पावकोपम तेजसः । क्षमावंतो निराकाराः काष्ठेऽग्निरिव शेरते ॥ 14॥
यस्य मंत्रं न जानंति बाह्याश्चाभ्यंतराश् च ये । स राजा सर्वतश्चक्षुश्चिरमैश्वर्यमश्नुते ॥ 15॥
करिष्यन्न प्रभाषेत कृतान्येव च दर्शयेत् । धर्मकामार्थ कार्याणि तथा मंत्रो न भिद्यते ॥ 16॥
गिरिपृष्ठमुपारुह्य प्रासादं वा रहोगतः । अरण्ये निःशलाके वा तत्र मंत्रो विधीयते ॥ 17॥
नासुहृत्परमं मंत्रं भारतार्हति वेदितुम् । अपंडितो वापि सुहृत्पंडितो वाप्यनात्मवान् । अमात्ये ह्यर्थलिप्सा च मंत्ररक्षणमेव च ॥ 18॥
कृतानि सर्वकार्याणि यस्य वा पार्षदा विदुः । गूढमंत्रस्य नृपतेस्तस्य सिद्धिरसंशयम् ॥ 19॥
अप्रशस्तानि कर्माणि यो मोहादनुतिष्ठति । स तेषां विपरिभ्रंशे भ्रश्यते जीवितादपि ॥ 20॥
कर्मणां तु प्रशस्तानामनुष्ठानं सुखावहम् । तेषामेवाननुष्ठानं पश्चात्तापकरं महत् ॥ 21॥
स्थानवृद्ध क्षयज्ञस्य षाड्गुण्य विदितात्मनः । अनवज्ञात शीलस्य स्वाधीना पृथिवी नृप ॥ 22॥
अमोघक्रोधहर्षस्य स्वयं कृत्यान्ववेक्षिणः । आत्मप्रत्यय कोशस्य वसुधेयं वसुंधरा ॥ 23॥
नाममात्रेण तुष्येत छत्रेण च महीपतिः । भृत्येभ्यो विसृजेदर्थान्नैकः सर्वहरो भवेत् ॥ 24॥
ब्राह्मणो ब्राह्मणं वेद भर्ता वेद स्त्रियं तथा । अमात्यं नृपतिर्वेद राजा राजानमेव च ॥ 25॥
न शत्रुरंकमापन्नो मोक्तव्यो वध्यतां गतः । अहताद्धि भयं तस्माज्जायते नचिरादिव ॥ 26॥
दैवतेषु च यत्नेन राजसु ब्राह्मणेषु च । नियंतव्यः सदा क्रोधो वृद्धबालातुरेषु च ॥ 27॥
निरर्थं कलहं प्राज्ञो वर्जयेन्मूढ सेवितम् । कीर्तिं च लभते लोके न चानर्थेन युज्यते ॥ 28॥
प्रसादो निष्फलो यस्य क्रोधश्चापि निरर्थकः । न तं भर्तारमिच्छंति षंढं पतिमिव स्त्रियः ॥ 29॥
न बुद्धिर्धनलाभाय न जाड्यमसमृद्धये । लोकपर्याय वृत्तांतं प्राज्ञो जानाति नेतरः ॥ 30॥
विद्या शीलवयोवृद्धान्बुद्धिवृद्धांश्च भारत । धनाभिजन वृद्धांश्च नित्यं मूढोऽवमन्यते ॥ 31॥
अनार्य वृत्तमप्राज्ञमसूयकमधार्मिकम् । अनर्थाः क्षिप्रमायांति वाग्दुष्टं क्रोधनं तथा ॥ 32॥
अविसंवादनं दानं समयस्याव्यतिक्रमः । आवर्तयंति भूतानि सम्यक्प्रणिहिता च वाक् ॥ 33॥
अविसंवादको दक्षः कृतज्ञो मतिमानृजुः । अपि संक्षीण कोशोऽपि लभते परिवारणम् ॥ 34॥
धृतिः शमो दमः शौचं कारुण्यं वागनिष्ठुरा । मित्राणां चानभिद्रोहः सतैताः समिधः श्रियः ॥ 35॥
असंविभागी दुष्टात्मा कृतघ्नो निरपत्रपः । तादृङ्नराधमो लोके वर्जनीयो नराधिप ॥ 36॥
न स रात्रौ सुखं शेते स सर्प इव वेश्मनि । यः कोपयति निर्दोषं स दोषोऽभ्यंतरं जनम् ॥ 37॥
येषु दुष्टेषु दोषः स्याद्योगक्षेमस्य भारत । सदा प्रसादनं तेषां देवतानामिवाचरेत् ॥ 38॥
येऽर्थाः स्त्रीषु समासक्ताः प्रथमोत्पतितेषु च । ये चानार्य समासक्ताः सर्वे ते संशयं गताः ॥ 39॥
यत्र स्त्री यत्र कितवो यत्र बालोऽनुशास्ति च । मज्जंति तेऽवशा देशा नद्यामश्मप्लवा इव ॥ 40॥
प्रयोजनेषु ये सक्ता न विशेषेषु भारत । तानहं पंडितान्मन्ये विशेषा हि प्रसंगिनः ॥ 41॥
यं प्रशंसंति कितवा यं प्रशंसंति चारणाः । यं प्रशंसंति बंधक्यो न स जीवति मानवः ॥ 42॥
हित्वा तान्परमेष्वासान्पांडवानमितौजसः । आहितं भारतैश्वर्यं त्वया दुर्योधने महत् ॥ 43॥
तं द्रक्ष्यसि परिभ्रष्टं तस्मात्त्वं नचिरादिव । ऐश्वर्यमदसम्मूढं बलिं लोकत्रयादिव ॥ 44॥
॥ इति श्रीमहाभारते उद्योगपर्वणि प्रजागरपर्वणि विदुरवाक्ये अष्टत्रिंशोऽध्यायः ॥ 38॥
Browse Related Categories: