Vedic · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
ॐ सर्वे वै देवा देवीमुपतस्थुः कासि त्वं महादेवीति ॥ 1 ॥
साऽब्रवीदहं ब्रह्मस्वरूपिणी । मत्तः प्रकृतिपुरुषात्मकं जगत् । शून्यं चाशून्यं च ॥ 2 ॥
अहमानंदानानंदौ । अहं-विँज्ञानाविज्ञाने । अहं ब्रह्माब्रह्मणि वेदितव्ये । अहं पंचभूतान्यपंचभूतानि । अहमखिलं जगत् ॥ 3 ॥
वेदोऽहमवेदोऽहम् । विद्याऽहमविद्याऽहम् । अजाऽहमनजाऽहम् । अधश्चोर्ध्वं च तिर्यक्चाहम् ॥ 4 ॥
अहं रुद्रेभिर्वसुभिश्चरामि । अहमादित्यैरुत विश्वदेवैः । अहं मित्रावरुणावुभौ बिभर्मि । अहमिंद्राग्नी अहमश्विनावुभौ ॥ 5 ॥
अहं सोमं त्वष्टारं पूषणं भगं दधामि । अहं-विँष्णुमुरुक्रमं ब्रह्माणमुत प्रजापतिं दधामि ॥ 6 ॥
अ॒हं द॑धामि॒ द्रवि॑णं ह॒विष्म॑ते सुप्रा॒व्ये॒3 यज॑मानाय सुन्व॒ते । अ॒हं राष्ट्री॑ सं॒गम॑नी॒ वसू॑नां चिकि॒तुषी॑ प्रथ॒मा य॒ज्ञिया॑नाम् । अ॒हं सु॑वे पि॒तर॑मस्य मू॒र्धन्मम॒ योनि॑र॒प्स्वंतः स॑मु॒द्रे । य एवं-वेँद । स देवीं संपदमाप्नोति ॥ 7 ॥
ते देवा अब्रुवन् नमो देव्यै महादेव्यै शिवायै सततं नमः । नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ॥ 8 ॥
Offered for worship and study, not as prediction. Non-commercial.
ताम॒ग्निव॑र्णां॒ तप॑सा ज्वलं॒तीं-वैँ॑रोच॒नीं क॑र्मफ॒लेषु॒ जुष्टा᳚म् । दु॒र्गां दे॒वीं शर॑णं प्रप॑द्यामहेऽसुरान्नाशयित्र्यै ते नमः ॥ 9 ॥
(ऋ.वे.8.100.11) दे॒वीं-वाँच॑मजनयंत दे॒वास्तां-विँ॒श्वरू॑पाः प॒शवो॑ वदंति । सा नो॑ मं॒द्रेष॒मूर्जं॒ दुहा॑ना धे॒नुर्वाग॒स्मानुप॒ सुष्टु॒तैतु॑ ॥ 10 ॥
कालरात्रीं ब्रह्मस्तुतां-वैँष्णवीं स्कंदमातरम् । सरस्वतीमदितिं दक्षदुहितरं नमामः पावनां शिवाम् ॥ 11 ॥
महालक्ष्म्यै च विद्महे सर्वशक्त्यै च धीमहि । तन्नो देवी प्रचोदयात् ॥ 12 ॥
अदितिर्ह्यजनिष्ट दक्ष या दुहिता तव । तां देवा अन्वजायंत भद्रा अमृतबंधवः ॥ 13 ॥
कामो योनिः कमला वज्रपाणि- र्गुहा हसा मातरिश्वाभ्रमिंद्रः । पुनर्गुहा सकला मायया च पुरूच्यैषा विश्वमातादिविद्योम् ॥ 14 ॥
एषाऽऽत्मशक्तिः । एषा विश्वमोहिनी । पाशांकुशधनुर्बाणधरा । एषा श्रीमहाविद्या । य एवं-वेँद स शोकं तरति ॥ 15 ॥
नमस्ते अस्तु भगवति मातरस्मान्पाहि सर्वतः ॥ 16 ॥
सैषाष्टौ वसवः । सैषैकादश रुद्राः । सैषा द्वादशादित्याः । सैषा विश्वेदेवाः सोमपा असोमपाश्च । सैषा यातुधाना असुरा रक्षांसि पिशाचा यक्षा सिद्धाः । सैषा सत्त्वरजस्तमांसि । सैषा ब्रह्मविष्णुरुद्ररूपिणी । सैषा प्रजापतींद्रमनवः । सैषा ग्रहनक्षत्रज्योतींषि । कलाकाष्ठादिकालरूपिणी । तामहं प्रणौमि नित्यम् । पापापहारिणीं देवीं भुक्तिमुक्तिप्रदायिनीम् । अनंतां-विँजयां शुद्धां शरण्यां शिवदां शिवाम् ॥ 17 ॥
वियदीकारसंयुँक्तं-वीँतिहोत्रसमन्वितम् । अर्धेंदुलसितं देव्या बीजं सर्वार्थसाधकम् ॥ 18 ॥
एवमेकाक्षरं ब्रह्म यतयः शुद्धचेतसः । ध्यायंति परमानंदमया ज्ञानांबुराशयः ॥ 19 ॥
वाङ्माया ब्रह्मसूस्तस्मात् षष्ठं-वँक्त्रसमन्वितम् । सूर्योऽवामश्रोत्रबिंदुसंयुँक्तष्टात्तृतीयकः । नारायणेन सम्मिश्रो वायुश्चाधरयुक्ततः । विच्चे नवार्णकोऽर्णः स्यान्महदानंददायकः ॥ 20 ॥
हृत्पुंडरीकमध्यस्थां प्रातःसूर्यसमप्रभाम् । पाशांकुशधरां सौम्यां-वँरदाभयहस्तकाम् । त्रिनेत्रां रक्तवसनां भक्तकामदुघां भजे ॥ 21 ॥
नमामि त्वां महादेवीं महाभयविनाशिनीम् । महादुर्गप्रशमनीं महाकारुण्यरूपिणीम् ॥ 22 ॥
यस्याः स्वरूपं ब्रह्मादयो न जानंति तस्मादुच्यते अज्ञेया । यस्या अंतो न लभ्यते तस्मादुच्यते अनंता । यस्या लक्ष्यं नोपलक्ष्यते तस्मादुच्यते अलक्ष्या । यस्या जननं नोपलभ्यते तस्मादुच्यते अजा । एकैव सर्वत्र वर्तते तस्मादुच्यते एका । एकैव विश्वरूपिणी तस्मादुच्यते नैका । अत एवोच्यते अज्ञेयानंतालक्ष्याजैका नैकेति ॥ 23 ॥
मंत्राणां मातृका देवी शब्दानां ज्ञानरूपिणी । ज्ञानानां चिन्मयातीता शून्यानां शून्यसाक्षिणी । यस्याः परतरं नास्ति सैषा दुर्गा प्रकीर्तिता ॥ 24 ॥
तां दुर्गां दुर्गमां देवीं दुराचारविघातिनीम् । नमामि भवभीतोऽहं संसारार्णवतारिणीम् ॥ 25 ॥
इदमथर्वशीर्षं-योँऽधीते स पंचाथर्वशीर्षजपफलमाप्नोति । इदमथर्वशीर्षमज्ञात्वा योऽर्चां स्थापयति । शतलक्षं प्रजप्त्वाऽपि सोऽर्चासिद्धिं न विंदति । शतमष्टोत्तरं चास्य पुरश्चर्याविधिः स्मृतः । दशवारं पठेद्यस्तु सद्यः पापैः प्रमुच्यते । महादुर्गाणि तरति महादेव्याः प्रसादतः । 26 ॥
सायमधीयानो दिवसकृतं पापं नाशयति । प्रातरधीयानो रात्रिकृतं पापं नाशयति । सायं प्रातः प्रयुंजानो अपापो भवति । निशीथे तुरीयसंध्यायां जप्त्वा वाक्सिद्धिर्भवति । नूतनायां प्रतिमायां जप्त्वा देवतासान्निध्यं भवति । प्राणप्रतिष्ठायां जप्त्वा प्राणानां प्रतिष्ठा भवति । भौमाश्विन्यां महादेवीसन्निधौ जप्त्वा महामृत्युं तरति । स महामृत्युं तरति । य एवं-वेँद । इत्युपनिषत् ॥ 27 ॥
इति देव्यथर्वशीर्षम् ।
Browse Related Categories: