Chanakya Neethi · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
यस्य चित्तं द्रवीभूतं कृपया सर्वजंतुषु । तस्य ज्ञानेन मोक्षेण किं जटाभस्मलेपनैः ॥ 01 ॥
एकमप्यक्षरं यस्तु गुरुः शिष्यं प्रबोधयेत् । पृथिव्यां नास्ति तद्द्रव्यं यद्दत्त्वा सोऽनृणी भवेत् ॥ 02 ॥
खलानां कंटकानां च द्विविधैव प्रतिक्रिया । उपानन्मुखभंगो वा दूरतो वा विसर्जनम् ॥ 02 ॥
कुचैलिनं दंतमलोपधारिणं बह्वाशिनं निष्ठुरभाषिणं च । सूर्योदये चास्तमिते शयानं विमुंचति श्रीर्यदि चक्रपाणिः ॥ 04 ॥
त्यजंति मित्राणि धनैर्विहीनं पुत्राश्च दाराश्च सुहृज्जनाश्च । तमर्थवंतं पुनराश्रयंति अर्थो हि लोके मनुष्यस्य बंधुः ॥ 05 ॥
अन्यायोपार्जितं द्रव्यं दश वर्षाणि तिष्ठति । प्राप्ते चैकादशे वर्षे समूलं तद्विनश्यति ॥ 06 ॥
अयुक्तं स्वामिनो युक्तं युक्तं नीचस्य दूषणम् । अमृतं राहवे मृत्युर्विषं शंकरभूषणम् ॥ 07 ॥
तद्भोजनं यद्द्विजभुक्तशेषं तत्सौहृदं यत्क्रियते परस्मिन् । सा प्राज्ञता या न करोति पापं दंभं विना यः क्रियते स धर्मः ॥ 08 ॥
मणिर्लुंठति पादाग्रे काचः शिरसि धार्यते । क्रयविक्रयवेलायां काचः काचो मणिर्मणिः ॥ 09 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
अनंतशास्त्रं बहुलाश्च विद्याः स्वल्पश्च कालो बहुविघ्नता च । यत्सारभूतं तदुपासनीयां हंसो यथा क्षीरमिवांबुमध्यात् ॥ 10 ॥
दूरागतं पथि श्रांतं वृथा च गृहमागतम् । अनर्चयित्वा यो भुंक्ते स वै चांडाल उच्यते ॥ 11 ॥
पठंति चतुरो वेदांधर्मशास्त्राण्यनेकशः । आत्मानं नैव जानंति दर्वी पाकरसं यथा ॥ 12 ॥
धन्या द्विजमयी नौका विपरीता भवार्णवे । तरंत्यधोगताः सर्वे उपरिष्ठाः पतंत्यधः ॥ 13 ॥
अयममृतनिधानं नायकोऽप्योषधीनाम् अमृतमयशरीरः कांतियुक्तोऽपि चंद्रः । भवतिविगतरश्मिर्मंडलं प्राप्य भानोः परसदननिविष्टः को लघुत्वं न याति ॥ 14 ॥
अलिरयं नलिनीदलमध्यगः कमलिनीमकरंदमदालसः । विधिवशात्परदेशमुपागतः कुटजपुष्परसं बहु मन्यते ॥ 15 ॥
पीतः क्रुद्धेन तातश्चरणतलहतो वल्लभो येन रोषा दाबाल्याद्विप्रवर्यैः स्ववदनविवरे धार्यते वैरिणी मे । गेहं मे छेदयंति प्रतिदिवसमुमाकांतपूजानिमित्तं तस्मात्खिन्ना सदाहं द्विजकुलनिलयं नाथ युक्तं त्यजामि ॥ 16 ॥
बंधनानि खलु संति बहूनि प्रेमरज्जुकृतबंधनमन्यत् । दारुभेदनिपुणोऽपि षडंघ्रि- र्निष्क्रियो भवति पंकजकोशेः ॥ 17 ॥
छिन्नोऽपि चंदन तरुर्न जहाति गंधं वृद्धोऽपि वारणपति-र्नजहाति लीलाम् । हंत्रार्पितो मधुरतां न जहाति चेक्षुः क्षीणोऽपि न त्यजति शिलगुणान् कुलीनः ॥ 18 ॥
Browse Related Categories: