Chanakya Neethi · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
कस्य दोषः कुले नास्ति व्याधिना को न पीडितः । व्यसनं केन न प्राप्तं कस्य सौख्यं निरंतरम् ॥ 01 ॥
आचारः कुलमाख्याति देशमाख्याति भाषणम् । संभ्रमः स्नेहमाख्याति वपुराख्याति भोजनम् ॥ 02 ॥
सुकुले योजयेत्कन्यां पुत्रं विद्यासु योजयेत् । व्यसने योजयेच्छत्रुं मित्रं धर्मेण योजयेत् ॥ 03 ॥
दुर्जनस्य च सर्पस्य वरं सर्पो न दुर्जनः । सर्पो दंशति काले तु दुर्जनस्तु पदे पदे ॥ 04 ॥
एतदर्थे कुलीनानां नृपाः कुर्वंति संग्रहम् । आदिमध्यावसानेषु न ते गच्छंति विक्रियाम् ॥ 05 ॥
प्रलये भिन्नमर्यादा भवंति किल सागराः । सागरा भेदमिच्छंति प्रलयेऽपि न साधवः ॥ 06 ॥
मूर्खस्तु प्रहर्तव्यः प्रत्यक्षो द्विपदः पशुः । भिद्यते वाक्य-शल्येन अदृशं कंटकं यथा ॥ 07 ॥
रूपयौवनसंपन्ना विशालकुलसंभवाः । विद्याहीना न शोभंते निर्गंधाः किंशुका यथा ॥ 08 ॥
कोकिलानां स्वरो रूपं स्त्रीणां रूपं पतिव्रतम् । विद्या रूपं कुरूपाणां क्षमा रूपं तपस्विनाम् ॥ 09 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥ 10 ॥
उद्योगे नास्ति दारिद्र्यं जपतो नास्ति पातकम् । मौनेन कलहो नास्ति नास्ति जागरिते भयम् ॥ 11 ॥
अतिरूपेण वा सीता अतिगर्वेण रावणः । अतिदानाद्बलिर्बद्धो ह्यतिसर्वत्र वर्जयेत् ॥ 12 ॥
को हि भारः समर्थानां किं दूरं व्यवसायिनाम् । को विदेशः सुविद्यानां कः परः प्रियवादिनाम् ॥ 13 ॥
एकेनापि सुवृक्षेण पुष्पितेन सुगंधिना । वासितं तद्वनं सर्वं सुपुत्रेण कुलं यथा ॥ 14 ॥
एकेन शुष्कवृक्षेण दह्यमानेन वह्निना । दह्यते तद्वनं सर्वं कुपुत्रेण कुलं यथा ॥ 15 ॥
एकेनापि सुपुत्रेण विद्यायुक्तेन साधुना । आह्लादितं कुलं सर्वं यथा चंद्रेण शर्वरी ॥ 16 ॥
किं जातैर्बहुभिः पुत्रैः शोकसंतापकारकैः । वरमेकः कुलालंबी यत्र विश्राम्यते कुलम् ॥ 17 ॥
लालयेत्पंचवर्षाणि दशवर्षाणि ताडयेत् । प्राप्ते तु षोडशे वर्षे पुत्रे मित्रवदाचरेत् ॥ 18 ॥
उपसर्गेऽन्यचक्रे च दुर्भिक्षे च भयावहे । असाधुजनसंपर्के यः पलायेत्स जीवति ॥ 19 ॥
धर्मार्थकाममोक्षाणां यस्यैकोऽपि न विद्यते । अजागलस्तनस्येव तस्य जन्म निरर्थकम् ॥ 20 ॥
मूर्खा यत्र न पूज्यंते धान्यं यत्र सुसंचितम् । दांपत्ये कलहो नास्ति तत्र श्रीः स्वयमागता ॥ 21 ॥
Browse Related Categories: