Devi · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
ते ध्यानयोगानुगता अपश्यन् त्वामेव देवीं स्वगुणैर्निगूढाम् । त्वमेव शक्तिः परमेश्वरस्य मां पाहि सर्वेश्वरि मोक्षदात्रि ॥ 1 ॥
देवात्मशक्तिः श्रुतिवाक्यगीता महर्षिलोकस्य पुरः प्रसन्ना । गुहा परं व्योम सतः प्रतिष्ठा मां पाहि सर्वेश्वरि मोक्षदात्रि ॥ 2 ॥
परास्य शक्तिः विविधैव श्रूयसे श्वेताश्ववाक्योदितदेवि दुर्गे । स्वाभाविकी ज्ञानबलक्रिया ते मां पाहि सर्वेश्वरि मोक्षदात्रि ॥ 3 ॥
देवात्मशब्देन शिवात्मभूता यत्कूर्मवायव्यवचोविवृत्या त्वं पाशविच्छेदकरी प्रसिद्धा मां पाहि सर्वेश्वरि मोक्षदात्रि ॥ 4 ॥
त्वं ब्रह्मपुच्छा विविधा मयूरी ब्रह्मप्रतिष्ठास्युपदिष्टगीता । ज्ञानस्वरूपात्मतयाखिलानां मां पाहि सर्वेश्वरि मोक्षदात्रि ॥ 5 ॥
इति परमपूज्य श्री चंद्रशेखरेंद्र सरस्वती स्वामि कृतं दुर्गा पंचरत्नं संपूर्णम् ।
Browse Related Categories:
Offered for worship and study, not as prediction. Non-commercial.