Vishnu · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
करारविंदेन पदारविंदं मुखारविंदे विनिवेशयंतम् । वटस्य पत्रस्य पुटे शयानं बालं मुकुंदं मनसा स्मरामि ॥
श्रीकृष्ण गोविंद हरे मुरारे हे नाथ नारायण वासुदेव । जिह्वे पिबस्वामृतमेतदेव गोविंद दामोदर माधवेति ॥ 1
विक्रेतुकामाखिलगोपकन्या मुरारिपादार्पितचित्तवृत्तिः । दध्यादिकं मोहवशादवोचत् गोविंद दामोदर माधवेति ॥ 2
गृहे गृहे गोपवधूकदंबाः सर्वे मिलित्वा समवाप्य योगम् । पुण्यानि नामानि पठंति नित्यं गोविंद दामोदर माधवेति ॥ 3
सुखं शयाना निलये निजेऽपि नामानि विष्णोः प्रवदंति मर्त्याः । ते निश्चितं तन्मयतां व्रजंति गोविंद दामोदर माधवेति ॥ 4
जिह्वे सदैवं भज सुंदराणि नामानि कृष्णस्य मनोहराणि । समस्त भक्तार्तिविनाशनानि गोविंद दामोदर माधवेति ॥ 5
सुखावसाने इदमेव सारं दुःखावसाने इदमेव ज्ञेयम् । देहावसाने इदमेव जाप्यं गोविंद दामोदर माधवेति ॥ 6
जिह्वे रसज्ञे मधुरप्रिये त्वं सत्यं हितं त्वां परमं वदामि । अवर्णयेथा मधुराक्षराणि गोविंद दामोदर माधवेति ॥ 7
त्वामेव याचे मम देहि जिह्वे समागते दंडधरे कृतांते । वक्तव्यमेवं मधुरं सुभक्त्या गोविंद दामोदर माधवेति ॥ 8
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
श्रीकृष्ण राधावर गोकुलेश गोपाल गोवर्धननाथ विष्णो । जिह्वे पिबस्वामृतमेतदेव गोविंद दामोदर माधवेति ॥ 9
Browse Related Categories: