Devi · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
ॐ क्रीं काल्यै नमः । ॐ क्रूं कराल्यै नमः । ॐ कल्याण्यै नमः । ॐ कमलायै नमः । ॐ कलायै नमः । ॐ कलावत्यै नमः । ॐ कलाढ्यायै नमः । ॐ कलापूज्यायै नमः । ॐ कलात्मिकायै नमः । ॐ कलादृष्टायै नमः । ॐ कलापुष्टायै नमः । ॐ कलामस्तायै नमः । ॐ कलाकरायै नमः । ॐ कलाकोटिसमाभासायै नमः । ॐ कलाकोटिप्रपूजितायै नमः । ॐ कलाकर्मायै नमः । ॐ कलाधारायै नमः । ॐ कलापारायै नमः । ॐ कलागमायै नमः । ॐ कलाधारायै नमः । 20
ॐ कमलिन्यै नमः । ॐ ककारायै नमः । ॐ करुणायै नमः । ॐ कव्यै नमः । ॐ ककारवर्णसर्वांग्यै नमः । ॐ कलाकोटिप्रभूषितायै नमः । ॐ ककारकोटिगुणितायै नमः । ॐ ककारकोटिभूषणायै नमः । ॐ ककारवर्णहृदयायै नमः । ॐ ककारमनुमंडितायै नमः । ॐ ककारवर्णनिलयायै नमः । ॐ ककशब्दपरायणायै नमः । ॐ ककारवर्णमुकुटायै नमः । ॐ ककारवर्णभूषणायै नमः । ॐ ककारवर्णरूपायै नमः । ॐ काकशब्दपरायणायै नमः । ॐ कवीरास्फालनरतायै नमः । ॐ कमलाकरपूजितायै नमः । ॐ कमलाकरनाथायै नमः । ॐ कमलाकररूपधृषे नमः । 40
ॐ कमलाकरसिद्धिस्थायै नमः । ॐ कमलाकरपारदायै नमः । ॐ कमलाकरमध्यस्थायै नमः । ॐ कमलाकरतोषितायै नमः । ॐ कथंकारपरालापायै नमः । ॐ कथंकारपरायणायै नमः । ॐ कथंकारपदांतस्थायै नमः । ॐ कथंकारपदार्थभुवे नमः । ॐ कमलाक्ष्यै नमः । ॐ कमलजायै नमः । ॐ कमलाक्षप्रपूजितायै नमः । ॐ कमलाक्षवरोद्युक्तायै नमः । ॐ ककारायै नमः । ॐ कर्बुराक्षरायै नमः । ॐ करतारायै नमः । ॐ करच्छिन्नायै नमः । ॐ करश्यामायै नमः । ॐ करार्णवायै नमः । ॐ करपूज्यायै नमः । ॐ कररतायै नमः । 60
ॐ करदायै नमः । ॐ करपूजितायै नमः । ॐ करतोयायै नमः । ॐ करामर्षायै नमः । ॐ कर्मनाशायै नमः । ॐ करप्रियायै नमः । ॐ करप्राणायै नमः । ॐ करकजायै नमः । ॐ करकायै नमः । ॐ करकांतरायै नमः । ॐ करकाचलरूपायै नमः । ॐ करकाचलशोभिन्यै नमः । ॐ करकाचलपुत्र्यै नमः । ॐ करकाचलतोषितायै नमः । ॐ करकाचलगेहस्थायै नमः । ॐ करकाचलरक्षिण्यै नमः । ॐ करकाचलसम्मान्यायै नमः । ॐ करकाचलकारिण्यै नमः । ॐ करकाचलवर्षाढ्यायै नमः । ॐ करकाचलरंजितायै नमः । 80
ॐ करकाचलकांतारायै नमः । ॐ करकाचलमालिन्यै नमः । ॐ करकाचलभोज्यायै नमः । ॐ करकाचलरूपिण्यै नमः । ॐ करामलकसंस्थायै नमः । ॐ करामलकसिद्धिदायै नमः । ॐ करामलकसंपूज्यायै नमः । ॐ करामलकतारिण्यै नमः । ॐ करामलककाल्यै नमः । ॐ करामलकरोचिन्यै नमः । ॐ करामलकमात्रे नमः । ॐ करामलकसेविन्यै नमः । ॐ करामलकबद्ध्येयायै नमः । ॐ करामलकदायिन्यै नमः । ॐ कंजनेत्रायै नमः । ॐ कंजगत्यै नमः । ॐ कंजस्थायै नमः । ॐ कंजधारिण्यै नमः । ॐ कंजमालाप्रियकर्यै नमः । ॐ कंजरूपायै नमः । 100
Offered for worship and study, not as prediction. Non-commercial.
ॐ कंजजायै नमः । ॐ कंजजात्यै नमः । ॐ कंजगत्यै नमः । ॐ कंजहोमपरायणायै नमः । ॐ कंजमंडलमध्यस्थायै नमः । ॐ कंजाभरणभूषितायै नमः । ॐ कंजसम्माननिरतायै नमः । ॐ कंजोत्पत्तिपरायणायै नमः । ॐ कंजराशिसमाकारायै नमः । ॐ कंजारण्यनिवासिन्यै नमः । ॐ करंजवृक्षमध्यस्थायै नमः । ॐ करंजवृक्षवासिन्यै नमः । ॐ करंजफलभूषाढ्यायै नमः । ॐ करंजवनवासिन्यै नमः । ॐ करंजमालाभरणायै नमः । ॐ करवालपरायणायै नमः । ॐ करवालप्रहृष्टात्मने नमः । ॐ करवालप्रियागत्यै नमः । ॐ करवालप्रियाकंथायै नमः । ॐ करवालविहारिण्यै नमः । 120
ॐ करवालमय्यै नमः । ॐ कर्मायै नमः । ॐ करवालप्रियंकर्यै नमः । ॐ कबंधमालाभरणायै नमः । ॐ कबंधराशिमध्यगायै नमः । ॐ कबंधकूटसंस्थानायै नमः । ॐ कबंधानंतभूषणायै नमः । ॐ कबंधनादसंतुष्टायै नमः । ॐ कबंधासनधारिण्यै नमः । ॐ कबंधगृहमध्यस्थायै नमः । ॐ कबंधवनवासिन्यै नमः । ॐ कबंधकांचीकरण्यै नमः । ॐ कबंधराशिभूषणायै नमः । ॐ कबंधमालाजयदायै नमः । ॐ कबंधदेहवासिन्यै नमः । ॐ कबंधासनमान्यायै नमः । ॐ कपालमाल्यधारिण्यै नमः । ॐ कपालमालामध्यस्थायै नमः । ॐ कपालव्रततोषितायै नमः । ॐ कपालदीपसंतुष्टायै नमः । 140
ॐ कपालदीपरूपिण्यै नमः । ॐ कपालदीपवरदायै नमः । ॐ कपालकज्जलस्थितायै नमः । ॐ कपालमालाजयदायै नमः । ॐ कपालजपतोषिण्यै नमः । ॐ कपालसिद्धिसंहृष्टायै नमः । ॐ कपालभोजनोद्यतायै नमः । ॐ कपालव्रतसंस्थानायै नमः । ॐ कपालकमलालयायै नमः । ॐ कवित्वामृतसारायै नमः । ॐ कवित्वामृतसागरायै नमः । ॐ कवित्वसिद्धिसंहृष्टायै नमः । ॐ कवित्वादानकारिण्यै नमः । ॐ कविपूज्यायै नमः । ॐ कविगत्यै नमः । ॐ कविरूपायै नमः । ॐ कविप्रियायै नमः । ॐ कविब्रह्मानंदरूपायै नमः । ॐ कवित्वव्रततोषितायै नमः । ॐ कविमानससंस्थानायै नमः । 160
ॐ कविवांछाप्रपूरण्यै नमः । ॐ कविकंठस्थितायै नमः । ॐ कं ह्रीं कं कं कं कविपूर्तिदायै नमः । ॐ कज्जलायै नमः । ॐ कज्जलादानमानसायै नमः । ॐ कज्जलप्रियायै नमः । ॐ कपालकज्जलसमायै नमः । ॐ कज्जलेशप्रपूजितायै नमः । ॐ कज्जलार्णवमध्यस्थायै नमः । ॐ कज्जलानंदरूपिण्यै नमः । ॐ कज्जलप्रियसंतुष्टायै नमः । ॐ कज्जलप्रियतोषिण्यै नमः । ॐ कपालमालाभरणायै नमः । ॐ कपालकरभूषणायै नमः । ॐ कपालकरभूषाढ्यायै नमः । ॐ कपालचक्रमंडितायै नमः । ॐ कपालकोटिनिलयायै नमः । ॐ कपालदुर्गकारिण्यै नमः । ॐ कपालगिरिसंस्थानायै नमः । ॐ कपालचक्रवासिन्यै नमः । 180
ॐ कपालपात्रसंतुष्टायै नमः । ॐ कपालार्घ्यपरायणायै नमः । ॐ कपालार्घ्यप्रियप्राणायै नमः । ॐ कपालार्घ्यवरप्रदायै नमः । ॐ कपालचक्ररूपायै नमः । ॐ कपालरूपमात्रगायै नमः । ॐ कदल्यै नमः । ॐ कदलीरूपायै नमः । ॐ कदलीवनवासिन्यै नमः । ॐ कदलीपुष्पसंप्रीतायै नमः । ॐ कदलीफलमानसायै नमः । ॐ कदलीहोमसंतुष्टायै नमः । ॐ कदलीदर्शनोद्यतायै नमः । ॐ कदलीगर्भमध्यस्थायै नमः । ॐ कदलीवनसुंदर्यै नमः । ॐ कदंबपुष्पनिलयायै नमः । ॐ कदंबवनमध्यगायै नमः । ॐ कदंबकुसुमामोदायै नमः । ॐ कदंबवनतोषिण्यै नमः । ॐ कदंबपुष्पसंपूज्यायै नमः । 200
ॐ कदंबपुष्पहोमदायै नमः । ॐ कदंबपुष्पमध्यस्थायै नमः । ॐ कदंबफलभोजिन्यै नमः । ॐ कदंबकाननांतःस्थायै नमः । ॐ कदंबाचलवासिन्यै नमः । ॐ कक्षपायै नमः । ॐ कक्षपाराध्यायै नमः । ॐ कक्षपासनसंस्थितायै नमः । ॐ कर्णपूरायै नमः । ॐ कर्णनासायै नमः । ॐ कर्णाढ्यायै नमः । ॐ कालभैरव्यै नमः । ॐ कलप्रीतायै नमः । ॐ कलहदायै नमः । ॐ कलहायै नमः । ॐ कलहातुरायै नमः । ॐ कर्णयक्ष्यै नमः । ॐ कर्णवार्ताकथिन्यै नमः । ॐ कर्णसुंदर्यै नमः । ॐ कर्णपिशाचिन्यै नमः । 220
ॐ कर्णमंजर्यै नमः । ॐ कविकक्षदायै नमः । ॐ कविकक्षविरूपाढ्यायै नमः । ॐ कविकक्षस्वरूपिण्यै नमः । ॐ कस्तूरीमृगसंस्थानायै नमः । ॐ कस्तूरीमृगरूपिण्यै नमः । ॐ कस्तूरीमृगसंतोषायै नमः । ॐ कस्तूरीमृगमध्यगायै नमः । ॐ कस्तूरीरसनीलांग्यै नमः । ॐ कस्तूरीगंधतोषितायै नमः । ॐ कस्तूरीपूजकप्राणायै नमः । ॐ कस्तूरीपूजकप्रियायै नमः । ॐ कस्तूरीप्रेमसंतुष्टायै नमः । ॐ कस्तूरीप्राणधारिण्यै नमः । ॐ कस्तूरीपूजकानंदायै नमः । ॐ कस्तूरीगंधरूपिण्यै नमः । ॐ कस्तूरीमालिकारूपायै नमः । ॐ कस्तूरीभोजनप्रियायै नमः । ॐ कस्तूरीतिलकानंदायै नमः । ॐ कस्तूरीतिलकप्रियायै नमः । 240
ॐ कस्तूरीहोमसंतुष्टायै नमः । ॐ कस्तूरीतर्पणोद्यतायै नमः । ॐ कस्तूरीमार्जनोद्युक्तायै नमः । ॐ कस्तूरीचक्रपूजितायै नमः । ॐ कस्तूरीपुष्पसंपूज्यायै नमः । ॐ कस्तूरीचर्वणोद्यतायै नमः । ॐ कस्तूरीगर्भमध्यस्थायै नमः । ॐ कस्तूरीवस्त्रधारिण्यै नमः । ॐ कस्तूरिकामोदरतायै नमः । ॐ कस्तूरीवनवासिन्यै नमः । ॐ कस्तूरीवनसंरक्षायै नमः । ॐ कस्तूरीप्रेमधारिण्यै नमः । ॐ कस्तूरीशक्तिनिलयायै नमः । ॐ कस्तूरीशक्तिकुंडगायै नमः । ॐ कस्तूरीकुंडसंस्नातायै नमः । ॐ कस्तूरीकुंडमज्जनायै नमः । ॐ कस्तूरीजीवसंतुष्टायै नमः । ॐ कस्तूरीजीवधारिण्यै नमः । ॐ कस्तूरीपरमामोदायै नमः । ॐ कस्तूरीजीवनक्षमायै नमः । 260
ॐ कस्तूरीजातिभावस्थायै नमः । ॐ कस्तूरीगंधचुंबनायै नमः । ॐ कस्तूरीगंधसंशोभाविराजितकपालभुवे नमः । ॐ कस्तूरीमदनांतःस्थायै नमः । ॐ कस्तूरीमदहर्षदायै नमः । ॐ कस्तूर्यै नमः । ॐ कवितानाढ्यायै नमः । ॐ कस्तूरीगृहमध्यगायै नमः । ॐ कस्तूरीस्पर्शकप्राणायै नमः । ॐ कस्तूरीनिंदकांतकायै नमः । ॐ कस्तूर्यामोदरसिकायै नमः । ॐ कस्तूरीक्रीडनोद्यतायै नमः । ॐ कस्तूरीदाननिरतायै नमः । ॐ कस्तूरीवरदायिन्यै नमः । ॐ कस्तूरीस्थापनासक्तायै नमः । ॐ कस्तूरीस्थानरंजिन्यै नमः । ॐ कस्तूरीकुशलप्राणायै नमः । ॐ कस्तूरीस्तुतिवंदितायै नमः । ॐ कस्तूरीवंदकाराध्यायै नमः । ॐ कस्तूरीस्थानवासिन्यै नमः । 280
ॐ कहरूपायै नमः । ॐ कहाढ्यायै नमः । ॐ कहानंदायै नमः । ॐ कहात्मभुवे नमः । ॐ कहपूज्यायै नमः । ॐ कहात्याख्यायै नमः । ॐ कहहेयायै नमः । ॐ कहात्मिकायै नमः । ॐ कहमालायै नमः । ॐ कंठभूषायै नमः । ॐ कहमंत्रजपोद्यतायै नमः । ॐ कहनामस्मृतिपरायै नमः । ॐ कहनामपरायणायै नमः । ॐ कहपारायणरतायै नमः । ॐ कहदेव्यै नमः । ॐ कहेश्वर्यै नमः । ॐ कहहेतवे नमः । ॐ कहानंदायै नमः । ॐ कहनादपरायणायै नमः । ॐ कहमात्रे नमः । 300
ॐ कहांतःस्थायै नमः । ॐ कहमंत्रायै नमः । ॐ कहेश्वर्यै नमः । ॐ कहगेयायै नमः । ॐ कहाराध्यायै नमः । ॐ कहध्यानपरायणायै नमः । ॐ कहतंत्रायै नमः । ॐ कहकहायै नमः । ॐ कहचर्यापरायणायै नमः । ॐ कहाचारायै नमः । ॐ कहगत्यै नमः । ॐ कहतांडवकारिण्यै नमः । ॐ कहारण्यायै नमः । ॐ कहरत्यै नमः । ॐ कहशक्तिपरायणायै नमः । ॐ कहराज्यनतायै नमः । ॐ कर्मसाक्षिण्यै नमः । ॐ कर्मसुंदर्यै नमः । ॐ कर्मविद्यायै नमः । ॐ कर्मगत्यै नमः । 320
ॐ कर्मतंत्रपरायणायै नमः । ॐ कर्ममात्रायै नमः । ॐ कर्मगात्रायै नमः । ॐ कर्मधर्मपरायणायै नमः । ॐ कर्मरेखानाशकर्त्र्यै नमः । ॐ कर्मरेखाविनोदिन्यै नमः । ॐ कर्मरेखामोहकर्यै नमः । ॐ कर्मकीर्तिपरायणायै नमः । ॐ कर्मविद्यायै नमः । ॐ कर्मसारायै नमः । ॐ कर्माधारायै नमः । ॐ कर्मभुवे नमः । ॐ कर्मकार्यै नमः । ॐ कर्महार्यै नमः । ॐ कर्मकौतुकसुंदर्यै नमः । ॐ कर्मकाल्यै नमः । ॐ कर्मतारायै नमः । ॐ कर्मच्छिन्नायै नमः । ॐ कर्मदायै नमः । ॐ कर्मचांडालिन्यै नमः । 340
ॐ कर्मवेदमात्रे नमः । ॐ कर्मभुवे नमः । ॐ कर्मकांडरतानंतायै नमः । ॐ कर्मकांडानुमानितायै नमः । ॐ कर्मकांडपरीणाहायै नमः । ॐ कमठ्यै नमः । ॐ कमठाकृत्यै नमः । ॐ कमठाराध्यहृदयायै नमः । ॐ कमठाकंठसुंदर्यै नमः । ॐ कमठासनसंसेव्यायै नमः । ॐ कमठ्यै नमः । ॐ कर्मतत्परायै नमः । ॐ करुणाकरकांतायै नमः । ॐ करुणाकरवंदितायै नमः । ॐ कठोरायै नमः । ॐ करमालायै नमः । ॐ कठोरकुचधारिण्यै नमः । ॐ कपर्दिन्यै नमः । ॐ कपटिन्यै नमः । ॐ कठिनायै नमः । 360
ॐ कंकभूषणायै नमः । ॐ करभोर्वै नमः । ॐ कठिनदायै नमः । ॐ करभायै नमः । ॐ करभालयायै नमः । ॐ कलभाषामय्यै नमः । ॐ कल्पायै नमः । ॐ कल्पनायै नमः । ॐ कल्पदायिन्यै नमः । ॐ कमलस्थायै नमः । ॐ कलामालायै नमः । ॐ कमलास्यायै नमः । ॐ क्वणत्प्रभायै नमः । ॐ ककुद्मिन्यै नमः । ॐ कष्टवत्यै नमः । ॐ करणीयकथार्चितायै नमः । ॐ कचार्चितायै नमः । ॐ कचतन्वै नमः । ॐ कचसुंदरधारिण्यै नमः । ॐ कठोरकुचसंलग्नायै नमः । 380
ॐ कटिसूत्रविराजितायै नमः । ॐ कर्णभक्षप्रियायै नमः । ॐ कंदायै नमः । ॐ कथायै नमः । ॐ कंदगत्यै नमः । ॐ कल्यै नमः । ॐ कलिघ्न्यै नमः । ॐ कलिदूत्यै नमः । ॐ कविनायकपूजितायै नमः । ॐ कणकक्षानियंत्र्यै नमः । ॐ कश्चित्कविवरार्चितायै नमः । ॐ कर्त्र्यै नमः । ॐ कर्तृकाभूषायै नमः । ॐ कारिण्यै नमः । ॐ कर्णशत्रुपायै नमः । ॐ करणेश्यै नमः । ॐ करणपायै नमः । ॐ कलवाचायै नमः । ॐ कलानिध्यै नमः । ॐ कलनायै नमः । 400
ॐ कलनाधारायै नमः । ॐ कारिकायै नमः । ॐ करकायै नमः । ॐ करायै नमः । ॐ कलगेयायै नमः । ॐ कर्कराश्यै नमः । ॐ कर्कराशिप्रपूजितायै नमः । ॐ कन्याराश्यै नमः । ॐ कन्यकायै नमः । ॐ कन्यकाप्रियभाषिण्यै नमः । ॐ कन्यकादानसंतुष्टायै नमः । ॐ कन्यकादानतोषिण्यै नमः । ॐ कन्यादानकरानंदायै नमः । ॐ कन्यादानग्रहेष्टदायै नमः । ॐ कर्षणायै नमः । ॐ कक्षदहनायै नमः । ॐ कामितायै नमः । ॐ कमलासनायै नमः । ॐ करमालानंदकर्त्र्यै नमः । ॐ करमालाप्रतोषितायै नमः । 420
ॐ करमालाशयानंदायै नमः । ॐ करमालासमागमायै नमः । ॐ करमालासिद्धिदात्र्यै नमः । ॐ करमालाकरप्रियायै नमः । ॐ करप्रियायै नमः । ॐ कररतायै नमः । ॐ करदानपरायणायै नमः । ॐ कलानंदायै नमः । ॐ कलिगत्यै नमः । ॐ कलिपूज्यायै नमः । ॐ कलिप्रस्वै नमः । ॐ कलनादनिनादस्थायै नमः । ॐ कलनादवरप्रदायै नमः । ॐ कलनादसमाजस्थायै नमः । ॐ कहोलायै नमः । ॐ कहोलदायै नमः । ॐ कहोलगेहमध्यस्थायै नमः । ॐ कहोलवरदायिन्यै नमः । ॐ कहोलकविताधारायै नमः । ॐ कहोलृषिमानितायै नमः । 440
ॐ कहोलमानसाराध्यायै नमः । ॐ कहोलवाक्यकारिण्यै नमः । ॐ कर्तृरूपायै नमः । ॐ कर्तृमय्यै नमः । ॐ कर्तृमात्रे नमः । ॐ कर्तर्यै नमः । ॐ कनीयायै नमः । ॐ कनकाराध्यायै नमः । ॐ कनीनकमय्यै नमः । ॐ कनीयानंदनिलयायै नमः । ॐ कनकानंदतोषितायै नमः । ॐ कनीयककरायै नमः । ॐ काष्ठायै नमः । ॐ कथार्णवकर्यै नमः । ॐ कर्यै नमः । ॐ करिगम्यायै नमः । ॐ करिगत्यै नमः । ॐ करिध्वजपरायणायै नमः । ॐ करिनाथप्रियायै नमः । ॐ कंठायै नमः । 460
ॐ कथानकप्रतोषितायै नमः । ॐ कमनीयायै नमः । ॐ कमनकायै नमः । ॐ कमनीयविभूषणायै नमः । ॐ कमनीयसमाजस्थायै नमः । ॐ कमनीयव्रतप्रियायै नमः । ॐ कमनीयगुणाराध्यायै नमः । ॐ कपिलायै नमः । ॐ कपिलेश्वर्यै नमः । ॐ कपिलाराध्यहृदयायै नमः । ॐ कपिलाप्रियवादिन्यै नमः । ॐ कहचक्रमंत्रवर्णायै नमः । ॐ कहचक्रप्रसूनकायै नमः । ॐ केईलह्रींस्वरूपायै नमः । ॐ केईलह्रींवरप्रदायै नमः । ॐ केईलह्रींसिद्धिदात्र्यै नमः । ॐ केईलह्रींस्वरूपिण्यै नमः । ॐ केईलह्रींमंत्रवर्णायै नमः । ॐ केईलह्रींप्रसूकलायै नमः । ॐ केवर्गायै नमः । 480
ॐ कपाटस्थायै नमः । ॐ कपाटोद्घाटनक्षमायै नमः । ॐ कंकाल्यै नमः । ॐ कपाल्यै नमः । ॐ कंकालप्रियभाषिण्यै नमः । ॐ कंकालभैरवाराध्यायै नमः । ॐ कंकालमानसंस्थितायै नमः । ॐ कंकालमोहनिरतायै नमः । ॐ कंकालमोहदायिन्यै नमः । ॐ कलुषघ्न्यै नमः । ॐ कलुषहायै नमः । ॐ कलुषार्तिविनाशिन्यै नमः । ॐ कलिपुष्पायै नमः । ॐ कलादानायै नमः । ॐ कशिप्वै नमः । ॐ कश्यपार्चितायै नमः । ॐ कश्यपायै नमः । ॐ कश्यपाराध्यायै नमः । ॐ कलिपूर्णकलेवरायै नमः । ॐ कलेवरकर्यै नमः । 500
ॐ कांच्यै नमः । ॐ कवर्गायै नमः । ॐ करालकायै नमः । ॐ करालभैरवाराध्यायै नमः । ॐ करालभैरवेश्वर्यै नमः । ॐ करालायै नमः । ॐ कलनाधारायै नमः । ॐ कपर्दीशवरप्रदायै नमः । ॐ कपर्दीशप्रेमलतायै नमः । ॐ कपर्दिमालिकायुतायै नमः । ॐ कपर्दिजपमालाढ्यायै नमः । ॐ करवीरप्रसूनदायै नमः । ॐ करवीरप्रियप्राणायै नमः । ॐ करवीरप्रपूजितायै नमः । ॐ कर्णिकारसमाकारायै नमः । ॐ कर्णिकारप्रपूजितायै नमः । ॐ करीषाग्निस्थितायै नमः । ॐ कर्षायै नमः । ॐ कर्षमात्रसुवर्णदायै नमः । ॐ कलशायै नमः । 520
ॐ कलशाराध्यायै नमः । ॐ कषायायै नमः । ॐ करिगानदायै नमः । ॐ कपिलायै नमः । ॐ कलकंठ्यै नमः । ॐ कलिकल्पलता मतायै नमः । ॐ कल्पमात्रे नमः । ॐ कल्पलतायै नमः । ॐ कल्पकार्यै नमः । ॐ कल्पभुवे नमः । ॐ कर्पूरामोदरुचिरायै नमः । ॐ कर्पूरामोदधारिण्यै नमः । ॐ कर्पूरमालाभरणायै नमः । ॐ कर्पूरवासपूर्तिदायै नमः । ॐ कर्पूरमालाजयदायै नमः । ॐ कर्पूरार्णवमध्यगायै नमः । ॐ कर्पूरतर्पणरतायै नमः । ॐ कटकांबरधारिण्यै नमः । ॐ कपटेश्ववरसंपूज्यायै नमः । ॐ कपटेश्वररूपिण्यै नमः । 540
ॐ कट्वै नमः । ॐ कपिध्वजाराध्यायै नमः । ॐ कलापपुष्पधारिण्यै नमः । ॐ कलापपुष्परुचिरायै नमः । ॐ कलापपुष्पपूजितायै नमः । ॐ क्रकचायै नमः । ॐ क्रकचाराध्यायै नमः । ॐ कथंब्रूमायै नमः । ॐ करालतायै नमः । ॐ कथंकारविनिर्मुक्तायै नमः । ॐ काल्यै नमः । ॐ कालक्रियायै नमः । ॐ क्रतवे नमः । ॐ कामिन्यै नमः । ॐ कामिनीपूज्यायै नमः । ॐ कामिनीपुष्पधारिण्यै नमः । ॐ कामिनीपुष्पनिलयायै नमः । ॐ कामिनीपुष्पपूर्णिमायै नमः । ॐ कामिनीपुष्पपूजार्हायै नमः । ॐ कामिनीपुष्पभूषणायै नमः । 560
ॐ कामिनीपुष्पतिलकायै नमः । ॐ कामिनीकुंडचुंबनायै नमः । ॐ कामिनीयोगसंतुष्टायै नमः । ॐ कामिनीयोगभोगदायै नमः । ॐ कामिनीकुंडसम्मग्नायै नमः । ॐ कामिनीकुंडमध्यगायै नमः । ॐ कामिनीमानसाराध्यायै नमः । ॐ कामिनीमानतोषितायै नमः । ॐ कामिनीमानसंचारायै नमः । ॐ कालिकायै नमः । ॐ कालकालिकायै नमः । ॐ कामायै नमः । ॐ कामदेव्यै नमः । ॐ कामेश्यै नमः । ॐ कामसंभवायै नमः । ॐ कामभावायै नमः । ॐ कामरतायै नमः । ॐ कामार्तायै नमः । ॐ काममंजर्यै नमः । ॐ काममंजीररणितायै नमः । 580
ॐ कामदेवप्रियांतरायै नमः । ॐ कामकाल्यै नमः । ॐ कामकलायै नमः । ॐ कालिकायै नमः । ॐ कमलार्चितायै नमः । ॐ कादिकायै नमः । ॐ कमलायै नमः । ॐ काल्यै नमः । ॐ कालानलसमप्रभायै नमः । ॐ कल्पांतदहनायै नमः । ॐ कांतायै नमः । ॐ कांतारप्रियवासिन्यै नमः । ॐ कालपूज्यायै नमः । ॐ कालरतायै नमः । ॐ कालमात्रे नमः । ॐ कालिन्यै नमः । ॐ कालवीरायै नमः । ॐ कालघोरायै नमः । ॐ कालसिद्धायै नमः । ॐ कालदायै नमः । 600
ॐ कालांजनसमाकारायै नमः । ॐ कालंजरनिवासिन्यै नमः । ॐ कालृद्ध्यै नमः । ॐ कालवृद्ध्यै नमः । ॐ कारागृहविमोचिन्यै नमः । ॐ कादिविद्यायै नमः । ॐ कादिमात्रे नमः । ॐ कादिस्थायै नमः । ॐ कादिसुंदर्यै नमः । ॐ काश्यै नमः । ॐ कांच्यै नमः । ॐ कांचीशायै नमः । ॐ काशीशवरदायिन्यै नमः । ॐ क्रीं बीजायै नमः । ॐ क्रीं बीजहृदयाय नमः स्मृतायै नमः । ॐ काम्यायै नमः । ॐ काम्यगत्यै नमः । ॐ काम्यसिद्धिदात्र्यै नमः । ॐ कामभुवे नमः । ॐ कामाख्यायै नमः । 620
ॐ कामरूपायै नमः । ॐ कामचापविमोचिन्यै नमः । ॐ कामदेवकलारामायै नमः । ॐ कामदेवकलालयायै नमः । ॐ कामरात्र्यै नमः । ॐ कामदात्र्यै नमः । ॐ कांताराचलवासिन्यै नमः । ॐ कामरूपायै नमः । ॐ कामगत्यै नमः । ॐ कामयोगपरायणायै नमः । ॐ कामसम्मर्दनरतायै नमः । ॐ कामगेहविकाशिन्यै नमः । ॐ कालभैरवभार्यायै नमः । ॐ कालभैरवकामिन्यै नमः । ॐ कालभैरवयोगस्थायै नमः । ॐ कालभैरवभोगदायै नमः । ॐ कामधेनवे नमः । ॐ कामदोग्ध्र्यै नमः । ॐ काममात्रे नमः । ॐ कांतिदायै नमः । 640 ॐ कामुकायै नमः । ॐ कामुकाराध्यायै नमः । ॐ कामुकानंदवर्धिन्यै नमः । ॐ कार्तवीर्यायै नमः । ॐ कार्तिकेयायै नमः । ॐ कार्तिकेयप्रपूजितायै नमः । ॐ कार्यायै नमः । ॐ कारणदायै नमः । ॐ कार्यकारिण्यै नमः । ॐ कारणांतरायै नमः । ॐ कांतिगम्यायै नमः । ॐ कांतिमय्यै नमः । ॐ कांत्यायै नमः । ॐ कात्यायन्यै नमः । ॐ कायै नमः । ॐ कामसारायै नमः । ॐ काश्मीरायै नमः । ॐ काश्मीराचारतत्परायै नमः । ॐ कामरूपाचाररतायै नमः । ॐ कामरूपप्रियंवदायै नमः । 660
ॐ कामरूपाचारसिद्ध्यै नमः । ॐ कामरूपमनोमय्यै नमः । ॐ कार्तिक्यै नमः । ॐ कार्तिकाराध्यायै नमः । ॐ कांचनारप्रसूनभुवे नमः । ॐ कांचनारप्रसूनाभायै नमः । ॐ कांचनारप्रपूजितायै नमः । ॐ कांचरूपायै नमः । ॐ कांचभूम्यै नमः । ॐ कांस्यपात्रप्रभोजिन्यै नमः । ॐ कांस्यध्वनिमय्यै नमः । ॐ कामसुंदर्यै नमः । ॐ कामचुंबनायै नमः । ॐ काशपुष्पप्रतीकाशायै नमः । ॐ कामद्रुमसमागमायै नमः । ॐ कामपुष्पायै नमः । ॐ कामभूम्यै नमः । ॐ कामपूज्यायै नमः । ॐ कामदायै नमः । ॐ कामदेहायै नमः । 680
ॐ कामगेहायै नमः । ॐ कामबीजपरायणायै नमः । ॐ कामध्वजसमारूढायै नमः । ॐ कामध्वजसमास्थितायै नमः । ॐ काश्यप्यै नमः । ॐ काश्यपाराध्यायै नमः । ॐ काश्यपानंददायिन्यै नमः । ॐ कालिंदीजलसंकाशायै नमः । ॐ कालिंदीजलपूजितायै नमः । ॐ कादेवपूजानिरतायै नमः । ॐ कादेवपरमार्थदायै नमः । ॐ कर्मणायै नमः । ॐ कर्मणाकारायै नमः । ॐ कामकर्मणकारिण्यै नमः । ॐ कार्मणत्रोटनकर्यै नमः । ॐ काकिन्यै नमः । ॐ कारणाह्वयायै नमः । ॐ काव्यामृतायै नमः । ॐ कालिंगायै नमः । ॐ कालिंगमर्दनोद्यतायै नमः । 700
ॐ कालागुरुविभूषाढ्यायै नमः । ॐ कालागुरुविभूतिदायै नमः । ॐ कालागुरुसुगंधायै नमः । ॐ कालागुरुप्रतर्पणायै नमः । ॐ कावेरीनीरसंप्रीतायै नमः । ॐ कावेरीतीरवासिन्यै नमः । ॐ कालचक्रभ्रमाकारायै नमः । ॐ कालचक्रनिवासिन्यै नमः । ॐ काननायै नमः । ॐ काननाधारायै नमः । ॐ कार्वै नमः । ॐ कारुणिकामय्यै नमः । ॐ कांपिल्यवासिन्यै नमः । ॐ काष्ठायै नमः । ॐ कामपत्न्यै नमः । ॐ कामभुवे नमः । ॐ कादंबरीपानरतायै नमः । ॐ कादंबर्यै नमः । ॐ कलायै नमः । ॐ कामवंद्यायै नमः । 720
ॐ कामेश्यै नमः । ॐ कामराजप्रपूजितायै नमः । ॐ कामराजेश्वरीविद्यायै नमः । ॐ कामकौतुकसुंदर्यै नमः । ॐ कांबोजजायै नमः । ॐ कांछिनदायै नमः । ॐ कांस्यकांचनकारिण्यै नमः । ॐ कांचनाद्रिसमाकारायै नमः । ॐ कांचनाद्रिप्रदानदायै नमः । ॐ कामकीर्त्यै नमः । ॐ कामकेश्यै नमः । ॐ कारिकायै नमः । ॐ कांतराश्रयायै नमः । ॐ कामभेद्यै नमः । ॐ कामार्तिनाशिन्यै नमः । ॐ कामभूमिकायै नमः । ॐ कालनिर्णाशिन्यै नमः । ॐ काव्यवनितायै नमः । ॐ कामरूपिण्यै नमः । ॐ कायस्थाकामसंदीप्त्यै नमः । 740
ॐ काव्यदायै नमः । ॐ कालसुंदर्यै नमः । ॐ कामेश्यै नमः । ॐ कारणवरायै नमः । ॐ कामेशीपूजनोद्यतायै नमः । ॐ कांचीनूपुरभूषाढ्यायै नमः । ॐ कुंकुमाभरणान्वितायै नमः । ॐ कालचक्रायै नमः । ॐ कालगत्यै नमः । ॐ कालचक्रमनोभवायै नमः । ॐ कुंदमध्यायै नमः । ॐ कुंदपुष्पायै नमः । ॐ कुंदपुष्पप्रियायै नमः । ॐ कुजायै नमः । ॐ कुजमात्रे नमः । ॐ कुजाराध्यायै नमः । ॐ कुठारवरधारिण्यै नमः । ॐ कुंजरस्थायै नमः । ॐ कुशरतायै नमः । ॐ कुशेशयविलोचनायै नमः । 760
ॐ कुनट्यै नमः । ॐ कुरर्यै नमः । ॐ कुद्रायै नमः । ॐ कुरंग्यै नमः । ॐ कुटजाश्रयायै नमः । ॐ कुंभीनसविभूषायै नमः । ॐ कुंभीनसवधोद्यतायै नमः । ॐ कुंभकर्णमनोल्लासायै नमः । ॐ कुलचूडामण्यै नमः । ॐ कुलायै नमः । ॐ कुलालगृहकन्यायै नमः । ॐ कुलचूडामणिप्रियायै नमः । ॐ कुलपूज्यायै नमः । ॐ कुलाराध्यायै नमः । ॐ कुलपूजापरायणायै नमः । ॐ कुलभूषायै नमः । ॐ कुक्ष्यै नमः । ॐ कुररीगणसेवितायै नमः । ॐ कुलपुष्पायै नमः । ॐ कुलरतायै नमः । 780
ॐ कुलपुष्पपरायणायै नमः । ॐ कुलवस्त्रायै नमः । ॐ कुलाराध्यायै नमः । ॐ कुलकुंडसमप्रभायै नमः । ॐ कुलकुंडसमोल्लासायै नमः । ॐ कुंडपुष्पपरायणायै नमः । ॐ कुंडपुष्पप्रसन्नास्यायै नमः । ॐ कुंडगोलोद्भवात्मिकायै नमः । ॐ कुंडगोलोद्भवाधारायै नमः । ॐ कुंडगोलमय्यै नमः । ॐ कुह्वै नमः । ॐ कुंडगोलप्रियप्राणायै नमः । ॐ कुंडगोलप्रपूजितायै नमः । ॐ कुंडगोलमनोल्लासायै नमः । ॐ कुंडगोलबलप्रदायै नमः । ॐ कुंडदेवरतायै नमः । ॐ क्रुद्धायै नमः । ॐ कुलसिद्धिकरायै परायै नमः । ॐ कुलकुंडसमाकारायै नमः । ॐ कुलकुंडसमानभुवे नमः । 800
ॐ कुंडसिद्ध्यै नमः । ॐ कुंडृद्ध्यै नमः । ॐ कुमारीपूजनोद्यतायै नमः । ॐ कुमारीपूजकप्राणायै नमः । ॐ कुमारीपूजकालयायै नमः । ॐ कुमारीकामसंतुष्टायै नमः । ॐ कुमारीपूजनोत्सुकायै नमः । ॐ कुमारीव्रतसंतुष्टायै नमः । ॐ कुमारीरूपधारिण्यै नमः । ॐ कुमारीभोजनप्रीतायै नमः । ॐ कुमार्यै नमः । ॐ कुमारदायै नमः । ॐ कुमारमात्रे नमः । ॐ कुलदायै नमः । ॐ कुलयोन्यै नमः । ॐ कुलेश्वर्यै नमः । ॐ कुललिंगायै नमः । ॐ कुलानंदायै नमः । ॐ कुलरम्यायै नमः । ॐ कुतर्कधृषे नमः । 820
ॐ कुंत्यै नमः । ॐ कुलकांतायै नमः । ॐ कुलमार्गपरायणायै नमः । ॐ कुल्लायै नमः । ॐ कुरुकुल्लायै नमः । ॐ कुल्लुकायै नमः । ॐ कुलकामदायै नमः । ॐ कुलिशांग्यै नमः । ॐ कुब्जिकायै नमः । ॐ कुब्जिकानंदवर्धिन्यै नमः । ॐ कुलीनायै नमः । ॐ कुंजरगत्यै नमः । ॐ कुंजरेश्वरगामिन्यै नमः । ॐ कुलपाल्यै नमः । ॐ कुलवत्यै नमः । ॐ कुलदीपिकायै नमः । ॐ कुलयोगेश्वर्यै नमः । ॐ कुंडायै नमः । ॐ कुंकुमारुणविग्रहायै नमः । ॐ कुंकुमानंदसंतोषायै नमः । 840
ॐ कुंकुमार्णववासिन्यै नमः । ॐ कुंकुमायै नमः । ॐ कुसुमप्रीतायै नमः । ॐ कुलभुवे नमः । ॐ कुलसुंदर्यै नमः । ॐ कुमुद्वत्यै नमः । ॐ कुमुदिन्यै नमः । ॐ कुशलायै नमः । ॐ कुलटालयायै नमः । ॐ कुलटालयमध्यस्थायै नमः । ॐ कुलटासंगतोषितायै नमः । ॐ कुलटाभवनोद्युक्तायै नमः । ॐ कुशावर्तायै नमः । ॐ कुलार्णवायै नमः । ॐ कुलार्णवाचाररतायै नमः । ॐ कुंडल्यै नमः । ॐ कुंडलाकृत्यै नमः । ॐ कुमत्यै नमः । ॐ कुलश्रेष्ठायै नमः । ॐ कुलचक्रपरायणायै नमः । 860
ॐ कूटस्थायै नमः । ॐ कूटदृष्ट्यै नमः । ॐ कुंतलायै नमः । ॐ कुंतलाकृत्यै नमः । ॐ कुशलाकृतिरूपायै नमः । ॐ कूर्चबीजधरायै नमः । ॐ क्वै नमः । ॐ कुं कुं कुं कुं शब्दरतायै नमः । ॐ क्रुं क्रुं क्रुं क्रुं परायणायै नमः । ॐ कुं कुं कुं शब्दनिलयायै नमः । ॐ कुक्कुरालयवासिन्यै नमः । ॐ कुक्कुरासंगसंयुक्तायै नमः । ॐ कुक्कुरानंतविग्रहायै नमः । ॐ कूर्चारंभायै नमः । ॐ कूर्चबीजायै नमः । ॐ कूर्चजापपरायणायै नमः । ॐ कुलिन्यै नमः । ॐ कुलसंस्थानायै नमः । ॐ कूर्चकंठपरागत्यै नमः । ॐ कूर्चवीणाभालदेशायै नमः । 880
ॐ कूर्चमस्तकभूषितायै नमः । ॐ कुलवृक्षगतायै नमः । ॐ कूर्मायै नमः । ॐ कूर्माचलनिवासिन्यै नमः । ॐ कुलबिंदवे नमः । ॐ कुलशिवायै नमः । ॐ कुलशक्तिपरायणायै नमः । ॐ कुलबिंदुमणिप्रख्यायै नमः । ॐ कुंकुमद्रुमवासिन्यै नमः । ॐ कुचमर्दनसंतुष्टायै नमः । ॐ कुचजापपरायणायै नमः । ॐ कुचस्पर्शनसंतुष्टायै नमः । ॐ कुचालिंगनहर्षदायै नमः । ॐ कुमतिघ्न्यै नमः । ॐ कुबेरार्च्यायै नमः । ॐ कुचभुवे नमः । ॐ कुलनायिकायै नमः । ॐ कुगायनायै नमः । ॐ कुचधरायै नमः । ॐ कुमात्रे नमः । 900
ॐ कुंददंतिन्यै नमः । ॐ कुगेयायै नमः । ॐ कुहराभासायै नमः । ॐ कुगेयाकुघ्नदारिकायै नमः । ॐ कीर्त्यै नमः । ॐ किरातिन्यै नमः । ॐ क्लिन्नायै नमः । ॐ किन्नरायै नमः । ॐ किन्नर्यै नमः । ॐ क्रियायै नमः । ॐ क्रींकारायै नमः । ॐ क्रींजपासक्तायै नमः । ॐ क्रीं हूं स्त्रीं मंत्ररूपिण्यै नमः । ॐ किर्मीरितदृशापांग्यै नमः । ॐ किशोर्यै नमः । ॐ किरीटिन्यै नमः । ॐ कीटभाषायै नमः । ॐ कीटयोन्यै नमः । ॐ कीटमात्रे नमः । ॐ कीटदायै नमः । 920
ॐ किंशुकायै नमः । ॐ कीरभाषायै नमः । ॐ क्रियासारायै नमः । ॐ क्रियावत्यै नमः । ॐ कींकींशब्दपरायै नमः । ॐ क्लां क्लीं क्लूं क्लैं क्लौं मंत्ररूपिण्यै नमः । ॐ कां कीं कूं कैं स्वरूपायै नमः । ॐ कः फट् मंत्रस्वरूपिण्यै नमः । ॐ केतकीभूषणानंदायै नमः । ॐ केतकीभरणान्वितायै नमः । ॐ कैकदायै नमः । ॐ केशिन्यै नमः । ॐ केश्यै नमः । ॐ केशिसूदनतत्परायै नमः । ॐ केशरूपायै नमः । ॐ केशमुक्तायै नमः । ॐ कैकेय्यै नमः । ॐ कौशिक्यै नमः । ॐ कैरवायै नमः । ॐ कैरवाह्लादायै नमः । 940
ॐ केशरायै नमः । ॐ केतुरूपिण्यै नमः । ॐ केशवाराध्यहृदयायै नमः । ॐ केशवासक्तमानसायै नमः । ॐ क्लैब्यविनाशिन्यै नमः । ॐ क्लैं नमः । ॐ क्लैं बीजजपतोषितायै नमः । ॐ कौशल्यायै नमः । ॐ कोशलाक्ष्यै नमः । ॐ कोशायै नमः । ॐ कोमलायै नमः । ॐ कोलापुरनिवासायै नमः । ॐ कोलासुरविनाशिन्यै नमः । ॐ कोटिरूपायै नमः । ॐ कोटिरतायै नमः । ॐ क्रोधिन्यै नमः । ॐ क्रोधरूपिण्यै नमः । ॐ केकायै नमः । ॐ कोकिलायै नमः । ॐ कोट्यै नमः । 960
ॐ कोटिमंत्रपरायणायै नमः । ॐ कोट्यनंतमंत्रयुक्तायै नमः । ॐ कैरूपायै नमः । ॐ केरलाश्रयायै नमः । ॐ केरलाचारनिपुणायै नमः । ॐ केरलेंद्रगृहस्थितायै नमः । ॐ केदाराश्रमसंस्थायै नमः । ॐ केदारेश्वरपूजितायै नमः । ॐ क्रोधरूपायै नमः । ॐ क्रोधपदायै नमः । ॐ क्रोधमात्रे नमः । ॐ कौशिक्यै नमः । ॐ कोदंडधारिण्यै नमः । ॐ क्रौंचायै नमः । ॐ कौशल्यायै नमः । ॐ कौलमार्गगायै नमः । ॐ कौलिन्यै नमः । ॐ कौलिकाराध्यायै नमः । ॐ कौलिकागारवासिन्यै नमः । ॐ कौतुक्यै नमः । 980
ॐ कौमुद्यै नमः । ॐ कौलायै नमः । ॐ कौमार्यै नमः । ॐ कौरवार्चितायै नमः । ॐ कौंडिन्यायै नमः । ॐ कौशिक्यै नमः । ॐ क्रोधज्वालाभासुररूपिण्यै नमः । ॐ कोटिकालानलज्वालायै नमः । ॐ कोटिमार्तंडविग्रहायै नमः । ॐ कृत्तिकायै नमः । ॐ कृष्णवर्णायै नमः । ॐ कृष्णायै नमः । ॐ कृत्यायै नमः । ॐ क्रियातुरायै नमः । ॐ कृशांग्यै नमः । ॐ कृतकृत्यायै नमः । ॐ क्रः फट् स्वाहा स्वरूपिण्यै नमः । ॐ क्रौं क्रौं हूं फट् मंत्रवर्णायै नमः । ॐ क्रीं ह्रीं हूं फट् नमः स्वधायै नमः । ॐ क्रीं क्रीं ह्रीं ह्रीं ह्रूं ह्रूं फट् स्वाहा मंत्ररूपिण्यै नमः । 1000
इति श्रीसर्वसाम्राज्यमेधानाम ककारादि श्री काली सहस्रनामावलिः ।
Browse Related Categories: