Devi · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
ऐंद्रस्येव शरासनस्य दधती मध्येललाटं प्रभां शौक्लीं कांतिमनुष्णगोरिव शिरस्यातन्वती सर्वतः । एषासौ त्रिपुरा हृदि द्युतिरिवोष्णांशोः सदाहः स्थितात् छिंद्यान्नः सहसा पदैस्त्रिभिरघं ज्योतिर्मयी वाङ्मयी ॥ 1 ॥
या मात्रा त्रपुसीलतातनुलसत्तंतूत्थितिस्पर्धिनी वाग्बीजे प्रथमे स्थिता तव सदा तां मन्महे ते वयम् । शक्तिः कुंडलिनीति विश्वजननव्यापारबद्धोद्यमाः ज्ञात्वेत्थं न पुनः स्पृशंति जननीगर्भेऽर्भकत्वं नराः ॥ 2 ॥
दृष्ट्वा संभ्रमकारि वस्तु सहसा ऐ ऐ इति व्याहृतं येनाकूतवशादपीह वरदे बिंदुं विनाप्यक्षरम् । तस्यापि ध्रुवमेव देवि तरसा जाते तवानुग्रहे वाचःसूक्तिसुधारसद्रवमुचो निर्यांति वक्त्रांबुजात् ॥ 3 ॥
यन्नित्ये तव कामराजमपरं मंत्राक्षरं निष्कलं तत्सारस्वतमित्यवैति विरलः कश्चिद्बुधश्चेद्भुवि । आख्यानं प्रतिपर्व सत्यतपसो यत्कीर्तयंतो द्विजाः प्रारंभे प्रणवास्पदप्रणयितां नीत्वोच्चरंति स्फुटम् ॥ 4 ॥
यत्सद्यो वचसां प्रवृत्तिकरणे दृष्टप्रभावं बुधैः तार्तीयं तदहं नमामि मनसा त्वद्बीजमिंदुप्रभम् । अस्त्यौर्वोऽपि सरस्वतीमनुगतो जाड्यांबुविच्छित्तये गोशब्दो गिरि वर्तते सनियतं योगं विना सिद्धिदः ॥ 5 ॥
एकैकं तव देवि बीजमनघं सव्यंजनाव्यंजनं कूटस्थं यदि वा पृथक् क्रमगतं यद्वा स्थितं व्युत्क्रमात् । यं यं काममपेक्ष्य येन विधिना केनापि वा चिंतितं जप्तं वा सफलीकरोति सततं तं तं समस्तं नृणाम् ॥ 6 ॥
वामे पुस्तकधारिणीमभयदां साक्षस्रजं दक्षिणे भक्तेभ्यो वरदानपेशलकरां कर्पूरकुंदोज्ज्वलाम् । उज्जृंभांबुजपत्रकांतिनयनस्निग्धप्रभालोकिनीं ये त्वामंब न शीलयंति मनसा तेषां कवित्वं कुतः ॥ 7 ॥
Offered for worship and study, not as prediction. Non-commercial.
ये त्वां पांडुरपुंडरीकपटलस्पष्टाभिरामप्रभां सिंचंतीममृतद्रवैरिव शिरो ध्यायंति मूर्ध्नि स्थिताम् । अश्रांता विकटस्फुटाक्षरपदा निर्याति वक्त्रांबुजात् तेषां भारति भारती सुरसरित्कल्लोललोलोर्मिवत् ॥ 8 ॥
ये सिंदूरपरागपिंजपिहितां त्वत्तेजसाद्यामिमां उर्वीं चापि विलीनयावकरसप्रस्तारमग्नामिव । पश्यंति क्षणमप्यनन्यमनसस्तेषामनंगज्वर- -क्लांतस्रस्तकुरंगशाबकदृशो वश्या भवंति स्फुटम् ॥ 9 ॥
चंचत्कांचनकुंडलांगदधरामाबद्धकांचीस्रजं ये त्वां चेतसि तद्गते क्षणमपि ध्यायंति कृत्वा स्थिराम् । तेषां वेश्मसु विभ्रमादहरहः स्फारीभवंत्यश्चिरं माद्यत्कुंजरकर्णतालतरलाः स्थैर्यं भजंते श्रियः ॥ 10 ॥
आर्भट्या शशिखंडमंडितजटाजूटां नृमुंडस्रजं बंधूकप्रसवारुणांबरधरां प्रेतासनाध्यासिनीम् । त्वां ध्यायंति चतुर्भुजां त्रिनयनामापीनतुंगस्तनीं मध्ये निम्नवलित्रयांकिततनुं त्वद्रूपसंवित्तये ॥ 11 ॥
जातोऽप्यल्पपरिच्छदे क्षितिभुजां सामान्यमात्रे कुले निःशेषावनिचक्रवर्तिपदवीं लब्ध्वा प्रतापोन्नतः । यद्विद्याधर बृंदवंदितपदः श्रीवत्सराजोऽभवत् देवि त्वच्चरणांबुज प्रणतिजः सोऽयं प्रसादोदयः ॥ 12 ॥
चंडि त्वच्चरणांबुजार्चनकृते बिल्वादिलोल्लुंठन- -त्रुट्यत्कंटककोटिभिः परिचयं येषां न जग्मुः कराः । ते दंडांकुशचक्रचापकुलिशश्रीवत्समत्स्यांकितैः जायंते पृथिवीभुजः कथमिवांभोजप्रभैः पाणिभिः ॥ 13 ॥
विप्राः क्षोणिभुजो विशस्तदितरे क्षीराज्यमध्वासवैः । त्वां देवि त्रिपुरे परापरमयीं संतर्प्य पूजाविधौ । यां यां प्रार्थयते मनः स्थिरधियां तेषां त एव ध्रुवं तां तां सिद्धिमवाप्नुवंति तरसा विघ्नैरविघ्नीकृताः ॥ 14 ॥
शब्दानां जननी त्वमत्र भुवने वाग्वादिनीत्युच्यसे त्वत्तः केशववासव प्रभृतयोऽप्याविर्भवंति स्फुटम् । लीयंते खलु यत्र कल्पविरमे ब्रह्मादयस्तेऽप्यमी सा त्वं काचिदचिंत्यरूपमहिमा शक्तिः परा गीयसे ॥ 15 ॥
देवानां त्रितयं त्रयी हुतभुजां शक्तित्रयं त्रिः स्वराः त्रैलोक्यं त्रिपदी त्रिपुष्करमथो त्रिब्रह्म वर्णास्त्रयः । यत्किंचिज्जगति त्रिधा नियमितं वस्तु त्रिवर्गादिकं तत्सर्वं त्रिपुरेति नाम भगवत्यन्वेति ते तत्त्वतः ॥ 16 ॥
लक्ष्मीं राजकुले जयां रणभुवि क्षेमंकरीमध्वनि क्रव्यादद्विपसर्पभाजि शबरीं कांतारदुर्गे गिरौ । भूतप्रेतपिशाचजंबुकभये स्मृत्वा महाभैरवीं व्यामोहे त्रिपुरां तरंति विपदस्तारां च तोयप्लवे ॥ 17 ॥
माया कुंडलिनी क्रिया मधुमती काली कलामालिनी मातंगी विजया जया भगवती देवी शिवा शांभवी । शक्तिः शंकरवल्लभा त्रिनयना वाग्वादिनी भैरवी ह्रींकारी त्रिपुरा परापरमयी माता कुमारीत्यसि ॥ 18 ॥
आईपल्लवितैः परस्परयुतैर्द्वित्रिक्रमाद्यक्षरै काद्यैः क्षांतगतैः स्वरादिभिरथ क्षांतैश्च तैः सस्वरैः । नामानि त्रिपुरे भवंति खलु यान्यत्यंतगुह्यानि ते तेभ्यो भैरवपत्नि विंशतिसहस्रेभ्यः परेभ्यो नमः ॥ 19 ॥
बोद्धव्या निपुणं बुधैः स्तुतिरियं कृत्वा मनस्तद्गतं भारत्यास्त्रिपुरेत्यनन्यमनसा यत्राद्यवृत्ते स्फुटम् । एकद्वित्रिपदक्रमेण कथितस्तत्पादसंख्याक्षरैः मंत्रोद्धार विधिर्विशेषसहितः सत्संप्रदायान्वितः ॥ 20 ॥
सावद्यं निरवद्यमस्तु यदि वा किं वानया चिंतया नूनं स्तोत्रमिदं पठिष्यति जनो यस्यास्ति भक्तिस्त्वयि । संचिंत्यापि लघुत्वमात्मनि दृढं संजायमानं हठात् त्वद्भक्त्या मुखरीकृतेन रचितं यस्मान्मयापि धृवम् ॥ 21 ॥
इति श्रीकालिदास विरचित पंचस्तव्यां प्रथमः लघुस्तवः ।
Browse Related Categories: