Devi · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
(श्रीदेवीभागवतं, द्वादश स्कंधं, दशमोऽध्यायः, , मणिद्वीप वर्णन - 1)
व्यास उवाच
– ब्रह्मलोकादूर्ध्वभागे सर्वलोकोऽस्ति यः श्रुतः । मणिद्वीपः स एवास्ति यत्र देवी विराजते ॥ 1
सर्वस्मादधिको यस्मात्सर्वलोकस्ततः स्मृतः । पुरा परांबयैवायं कल्पितो मनसेच्छया ॥ 2 ॥
सर्वादौ निजवासार्थं प्रकृत्या मूलभूतया । कैलासादधिको लोको वैकुंठादपि चोत्तमः ॥ 3 ॥
गोलोकादपि सर्वस्मात्सर्वलोकोऽधिकः स्मृतः । नैतत्समं त्रिलोक्यां तु सुंदरं विद्यते क्वचित् ॥ 4 ॥
छत्रीभूतं त्रिजगतो भवसंतापनाशकम् । छायाभूतं तदेवास्ति ब्रह्मांडानां तु सत्तम ॥ 5 ॥
बहुयोजनविस्तीर्णो गंभीरस्तावदेव हि । मणिद्वीपस्य परितो वर्तते तु सुधोदधिः ॥ 6 ॥
मरुत्संघट्टनोत्कीर्णतरंग शतसंकुलः । रत्नाच्छवालुकायुक्तो झषशंखसमाकुलः ॥ 7 ॥
वीचिसंघर्षसंजातलहरीकणशीतलः । नानाध्वजसमायुक्ता नानापोतगतागतैः ॥ 8 ॥
Offered for worship and study, not as prediction. Non-commercial.
विराजमानः परितस्तीररत्नद्रुमो महान् । तदुत्तरमयोधातुनिर्मितो गगने ततः ॥ 9 ॥
सप्तयोजनविस्तीर्णः प्राकारो वर्तते महान् । नानाशस्त्रप्रहरणा नानायुद्धविशारदाः ॥ 10 ॥
रक्षका निवसंत्यत्र मोदमानाः समंततः । चतुर्द्वारसमायुक्तो द्वारपालशतान्वितः ॥ 11 ॥
नानागणैः परिवृतो देवीभक्तियुतैर्नृप । दर्शनार्थं समायांति ये देवा जगदीशितुः ॥ 12 ॥
तेषां गणा वसंत्यत्र वाहनानि च तत्र हि । विमानशतसंघर्षघंटास्वनसमाकुलः ॥ 13 ॥
हयहेषाखुराघातबधिरीकृतदिंमुखः । गणैः किलकिलारावैर्वेत्रहस्तैश्च ताडिताः ॥ 14 ॥
सेवका देवसंगानां भ्राजंते तत्र भूमिप । तस्मिंकोलाहले राजन्नशब्दः केनचित्क्वचित् ॥ 15 ॥
कस्यचिच्छ्रूयतेऽत्यंतं नानाध्वनिसमाकुले । पदे पदे मिष्टवारिपरिपूर्णसरान्सि च ॥ 16 ॥
वाटिका विविधा राजन् रत्नद्रुमविराजिताः । तदुत्तरं महासारधातुनिर्मितमंडलः ॥ 17 ॥
सालोऽपरो महानस्ति गगनस्पर्शि यच्छिरः । तेजसा स्याच्छतगुणः पूर्वसालादयं परः ॥ 18 ॥
गोपुरद्वारसहितो बहुवृक्षसमन्वितः । या वृक्षजातयः संति सर्वास्तास्तत्र संति च ॥ 19 ॥
निरंतरं पुष्पयुताः सदा फलसमन्विताः । नवपल्लवसंयुक्ताः परसौरभसंकुलाः ॥ 20 ॥
पनसा बकुला लोध्राः कर्णिकाराश्च शिंशपाः । देवदारुकांचनारा आम्राश्चैव सुमेरवः ॥ 21 ॥
लिकुचा हिंगुलाश्चैला लवंगाः कट्फलास्तथा । पाटला मुचुकुंदाश्च फलिन्यो जघनेफलाः ॥ 22 ॥
तालास्तमालाः सालाश्च कंकोला नागभद्रकाः । पुन्नागाः पीलवः साल्वका वै कर्पूरशाखिनः ॥ 23 ॥
अश्वकर्णा हस्तिकर्णास्तालपर्णाश्च दाडिमाः । गणिका बंधुजीवाश्च जंबीराश्च कुरंडकाः ॥ 24 ॥
चांपेया बंधुजीवाश्च तथा वै कनकद्रुमाः । कालागुरुद्रुमाश्चैव तथा चंदनपादपाः ॥ 25 ॥
खर्जूरा यूथिकास्तालपर्ण्यश्चैव तथेक्षवः । क्षीरवृक्षाश्च खदिराश्चिंचाभल्लातकास्तथा ॥ 26 ॥
रुचकाः कुटजा वृक्षा बिल्ववृक्षास्तथैव च । तुलसीनां वनान्येवं मल्लिकानां तथैव च ॥ 27 ॥
इत्यादितरुजातीनां वनान्युपवनानि च । नानावापीशतैर्युक्तान्येवं संति धराधिप ॥ 28 ॥
कोकिलारावसंयुक्ता गुन्जद्भ्रमरभूषिताः । निर्यासस्राविणः सर्वे स्निग्धच्छायास्तरूत्तमाः ॥ 29 ॥
नानाऋतुभवा वृक्षा नानापक्षिसमाकुलाः । नानारसस्राविणीभिर्नदीभिरतिशोभिताः ॥ 30 ॥
पारावतशुकव्रातसारिकापक्षमारुतैः । हंसपक्षसमुद्भूत वातव्रातैश्चलद्द्रुमम् ॥ 31 ॥
सुगंधग्राहिपवनपूरितं तद्वनोत्तमम् । सहितं हरिणीयूथैर्धावमानैरितस्ततः ॥ 32 ॥
नृत्यद्बर्हिकदंबस्य केकारावैः सुखप्रदैः । नादितं तद्वनं दिव्यं मधुस्रावि समंततः ॥ 33 ॥
कांस्यसालादुत्तरे तु ताम्रसालः प्रकीर्तितः । चतुरस्रसमाकार उन्नत्या सप्तयोजनः ॥ 34 ॥
द्वयोस्तु सालयोर्मध्ये संप्रोक्ता कल्पवाटिका । येषां तरूणां पुष्पाणि कांचनाभानि भूमिप ॥ 35 ॥
पत्राणि कांचनाभानि रत्नबीजफलानि च । दशयोजनगंधो हि प्रसर्पति समंततः ॥ 36 ॥
तद्वनं रक्षितं राजन्वसंतेनर्तुनानिशम् । पुष्पसिंहासनासीनः पुष्पच्छत्रविराजितः ॥ 37 ॥
पुष्पभूषाभूषितश्च पुष्पासवविघूर्णितः । मधुश्रीर्माधवश्रीश्च द्वे भार्ये तस्य सम्मते ॥ 38 ॥
क्रीडतः स्मेरवदने सुमस्तबककंदुकैः । अतीव रम्यं विपिनं मधुस्रावि समंततः ॥ 39 ॥
दशयोजनपर्यंतं कुसुमामोदवायुना । पूरितं दिव्यगंधर्वैः सांगनैर्गानलोलुपैः ॥ 40 ॥
शोभितं तद्वनं दिव्यं मत्तकोकिलनादितम् । वसंतलक्ष्मीसंयुक्तं कामिकामप्रवर्धनम् ॥ 41 ॥
ताम्रसालादुत्तरत्र सीससालः प्रकीर्तितः । समुच्छ्रायः स्मृतोऽप्यस्य सप्तयोजनसंख्यया ॥ 42 ॥
संतानवाटिकामध्ये सालयोस्तु द्वयोर्नृप । दशयोजनगंधस्तु प्रसूनानां समंततः ॥ 43 ॥
हिरण्याभानि कुसुमान्युत्फुल्लानि निरंतरम् । अमृतद्रवसंयुक्तफलानि मधुराणि च ॥ 44 ॥
ग्रीष्मर्तुर्नायकस्तस्या वाटिकाया नृपोत्तम । शुक्रश्रीश्च शुचिश्रीश्च द्वे भार्ये तस्य सम्मते ॥ 45 ॥
संतापत्रस्तलोकास्तु वृक्षमूलेषु संस्थिताः । नानासिद्धैः परिवृतो नानादेवैः समन्वितः ॥ 46 ॥
विलासिनीनां बृंदैस्तु चंदनद्रवपंकिलैः । पुष्पमालाभूषितैस्तु तालवृंतकरांबुजैः ॥ 47 ॥
[पाठभेदः- प्राकारः] प्रकारः शोभितो एजच्छीतलांबुनिषेविभिः । सीससालादुत्तरत्राप्यारकूटमयः शुभः ॥ 48 ॥
प्राकारो वर्तते राजन्मुनियोजनदैर्घ्यवान् । हरिचंदनवृक्षाणां वाटी मध्ये तयोः स्मृता ॥ 49 ॥
सालयोरधिनाथस्तु वर्षर्तुर्मेघवाहनः । विद्युत्पिंगलनेत्रश्च जीमूतकवचः स्मृतः ॥ 50 ॥
वज्रनिर्घोषमुखरश्चेंद्रधन्वा समंततः । सहस्रशो वारिधारा मुंचन्नास्ते गणावृतः ॥ 51 ॥
नभः श्रीश्च नभस्यश्रीः स्वरस्या रस्यमालिनी । अंबा दुला निरत्निश्चाभ्रमंती मेघयंतिका ॥ 52 ॥
वर्षयंती चिबुणिका वारिधारा च सम्मताः । वर्षर्तोर्द्वादश प्रोक्ताः शक्तयो मदविह्वलाः ॥ 53 ॥
नवपल्लववृक्षाश्च नवीनलतिकान्विताः । हरितानि तृणान्येव वेष्टिता यैर्धराऽखिला ॥ 54 ॥
नदीनदप्रवाहाश्च प्रवहंति च वेगतः । सरांसि कलुषांबूनि रागिचित्तसमानि च ॥ 55 ॥
वसंति देवाः सिद्धाश्च ये देवीकर्मकारिणः । वापीकूपतडागाश्च ये देव्यर्थं समर्पिताः ॥ 56 ॥
ते गणा निवसंत्यत्र सविलासाश्च सांगनाः । आरकूटमयादग्रे सप्तयोजनदैर्घ्यवान् ॥ 57 ॥
पंचलोहात्मकः सालो मध्ये मंदारवाटिका । नानापुष्पलताकीर्णा नानापल्लवशोभिता ॥ 58 ॥
अधिष्ठाताऽत्र संप्रोक्तः शरदृतुरनामयः । इषलक्ष्मीरूर्जलक्ष्मीर्द्वे भार्ये तस्य सम्मते ॥ 59 ॥
नानासिद्धा वसंत्यत्र सांगनाः सपरिच्छदाः । पंचलोहमयादग्रे सप्तयोजनदैर्घ्यवान् ॥ 60 ॥
दीप्यमानो महाशृंगैर्वर्तते रौप्यसालकः । पारिजाताटवीमध्ये प्रसूनस्तबकान्विता ॥ 61 ॥
दशयोजनगंधीनि कुसुमानि समंततः । मोदयंति गणान्सर्वान्ये देवीकर्मकारिणः ॥ 62 ॥
तत्राधिनाथः संप्रोक्तो हेमंतर्तुर्महोज्ज्वलः । सगणः सायुधः सर्वान् रागिणो रंजयन्नपः ॥ 63 ॥
सहश्रीश्च सहस्यश्रीर्द्वे भार्ये तस्य सम्मते । वसंति तत्र सिद्धाश्च ये देवीव्रतकारिणः ॥ 64 ॥
रौप्यसालमयादग्रे सप्तयोजनदैर्घ्यवान् । सौवर्णसालः संप्रोक्तस्तप्तहाटककल्पितः ॥ 65 ॥
मध्ये कदंबवाटी तु पुष्पपल्लवशोभिता । कदंबमदिराधाराः प्रवर्तंते सहस्रशः ॥ 66 ॥
याभिर्निपीतपीताभिर्निजानंदोऽनुभूयते । तत्राधिनाथः संप्रोक्तः शैशिरर्तुर्महोदयः ॥ 67 ॥
तपःश्रीश्च तपस्यश्रीर्द्वे भार्ये तस्य सम्मते । मोदमानः सहैताभ्यां वर्तते शिशिराकृतिः ॥ 68 ॥
नानाविलाससंयुक्तो नानागणसमावृतः । निवसंति महासिद्धा ये देवीदानकारिणः ॥ 69 ॥
नानाभोगसमुत्पन्नमहानंदसमन्विताः । सांगनाः परिवारैस्तु संघशः परिवारिताः ॥ 70 ॥
स्वर्णसालमयादग्रे मुनियोजनदैर्घ्यवान् । पुष्परागमयः सालः कुंकुमारुणविग्रहः ॥ 71 ॥
पुष्परागमयी भूमिर्वनान्युपवनानि च । रत्नवृक्षालवालाश्च पुष्परागमयाः स्मृताः ॥ 72 ॥
प्राकारो यस्य रत्नस्य तद्रत्नरचिता द्रुमाः । वनभूः पक्षिनश्चैव रत्नवर्णजलानि च ॥ 73 ॥
मंडपा मंडपस्तंभाः सरान्सि कमलानि च । प्राकारे तत्र यद्यत्स्यात्तत्सर्वं तत्समं भवेत् ॥ 74 ॥
परिभाषेयमुद्दिष्टा रत्नसालादिषु प्रभो । तेजसा स्याल्लक्षगुणः पूर्वसालात्परो नृप ॥ 75 ॥
दिक्पाला निवसंत्यत्र प्रतिब्रह्मान्डवर्तिनाम् । दिक्पालानां समष्ट्यात्मरूपाः स्फूर्जद्वरायुधाः ॥ 76 ॥
पूर्वाशायां समुत्तुंगशृंगा पूरमरावती । नानोपवनसंयुक्ता महेंद्रस्तत्र राजते ॥ 77 ॥
स्वर्गशोभा च या स्वर्गे यावती स्यात्ततोऽधिका । समष्टिशतनेत्रस्य सहस्रगुणतः स्मृता ॥ 78 ॥
ऐरावतसमारूढो वज्रहस्तः प्रतापवान् । देवसेनापरिवृतो राजतेऽत्र शतक्रतुः ॥ 79 ॥
देवांगनागणयुता शची तत्र विराजते । वह्निकोणे वह्निपुरी वह्निपूः सदृशी नृप ॥ 80 ॥
स्वाहास्वधासमायुक्तो वह्निस्तत्र विराजते । निजवाहनभूषाढ्यो निजदेवगणैर्वृतः ॥ 81 ॥
याम्याशायां यमपुरी तत्र दंडधरो महान् । स्वभटैर्वेष्टितो राजन् चित्रगुप्तपुरोगमैः ॥ 82 ॥
निजशक्तियुतो भास्वत्तनयोऽस्ति यमो महान् । नैरृत्यां दिशि राक्षस्यां राक्षसैः परिवारितः ॥ 83 ॥
खड्गधारी स्फुरन्नास्ते निरृतिर्निजशक्तियुक् । वारुण्यां वरुणो राजा पाशधारी प्रतापवान् ॥ 84 ॥
महाझशसमारूढो वारुणीमधुविह्वलः । निजशक्तिसमायुक्तो निजयादोगणान्वितः ॥ 85 ॥
समास्ते वारुणे लोके वरुणानीरताकुलः । वायुकोणे वायुलोको वायुस्तत्राधितिष्ठति ॥ 86 ॥
वायुसाधनसंसिद्धयोगिभिः परिवारितः । ध्वजहस्तो विशालाक्षो मृगवाहनसंस्थितः ॥ 87 ॥
मरुद्गणैः परिवृतो निजशक्तिसमन्वितः । उत्तरस्यां दिशि महान्यक्षलोकोऽस्ति भूमिप ॥ 88 ॥
यक्षाधिराजस्तत्राऽऽस्ते वृद्धिऋद्ध्यादिशक्तिभिः । नवभिर्निधिभिर्युक्तस्तुंदिलो धननायकः ॥ 89 ॥
मणिभद्रः पूर्णभद्रो मणिमान्मणिकंधरः । मणिभूषो मणिस्रग्वी मणिकार्मुकधारकः ॥ 90 ॥
इत्यादियक्षसेनानीसहितो निजशक्तियुक् । ईशानकोणे संप्रोक्तो रुद्रलोको महत्तरः ॥ 91 ॥
अनर्घ्यरत्नखचितो यत्र रुद्रोऽधिदैवतम् । मन्युमांदीप्तनयनो बद्धपृष्ठमहेषुधिः ॥ 92 ॥
स्फूर्जद्धनुर्वामहस्तोऽधिज्यधन्वभिरावृतः । स्वसमानैरसंख्यातरुद्रैः शूलवरायुधैः ॥ 93 ॥
विकृतास्यैः करालास्यैर्वमद्वह्निभिरास्यतः । दशहस्तैः शतकरैः सहस्रभुजसंयुतैः ॥ 94 ॥
दशपादैर्दशग्रीवैस्त्रिनेत्रैरुग्रमूर्तिभिः । अंतरिक्षचरा ये च ये च भूमिचराः स्मृताः ॥ 95 ॥
रुद्राध्याये स्मृता रुद्रास्तैः सर्वैश्च समावृतः । रुद्राणीकोटिसहितो भद्रकाल्यादिमातृभिः ॥ 96 ॥
नानाशक्तिसमाविष्टडामर्यादिगणावृतः । वीरभद्रादिसहितो रुद्रो राजन्विराजते ॥ 97 ॥
मुंडमालाधरो नागवलयो नागकंधरः । व्याघ्रचर्मपरीधानो गजचर्मोत्तरीयकः ॥ 98 ॥
चिताभस्मांगलिप्तांगः प्रमथादिगणावृतः । निनदड्डमरुध्वानैर्बधिरीकृतदिंमुखः ॥ 99 ॥
अट्टहासास्फोटशब्दैः संत्रासितनभस्तलः । भूतसंघसमाविष्टो भूतावासो महेश्वरः ॥ 100 ॥
ईशानदिक्पतिः सोऽयं नाम्ना चेशान एव च ॥ 101 ॥
इति श्रीदेवीभागवते महापुराणे द्वादशस्कंधे मणिद्वीपवर्णनं नाम दशमोऽध्यायः ॥
Browse Related Categories: