Devi · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
(श्रीदेवीभागवतं, द्वादश स्कंधं, एकादशोऽध्यायः, मणिद्वीप वर्णन - 2)
व्यास उवाच
पुष्परागमयादग्रे कुंकुमारुणविग्रहः । पद्मरागमयः सालो मध्ये भूश्चैवतादृशी ॥ 1
दशयोजनवांदैर्घ्ये गोपुरद्वारसंयुतः । तन्मणिस्तंभसंयुक्ता मंडपाः शतशो नृप ॥ 2 ॥
मध्ये भुविसमासीनाश्चतुःषष्टिमिताः कलाः । नानायुधधरावीरा रत्नभूषणभूषिताः ॥ 3 ॥
प्रत्येकलोकस्तासां तु तत्तल्लोकस्यनायकाः । समंतात्पद्मरागस्य परिवार्यस्थिताः सदा ॥ 4 ॥
स्वस्वलोकजनैर्जुष्टाः स्वस्ववाहनहेतिभिः । तासां नामानि वक्ष्यामि शृणु त्वं जनमेजय ॥ 5 ॥
पिंगलाक्षी विशालाक्षी समृद्धि वृद्धिरेव च । श्रद्धा स्वाहा स्वधाभिख्या माया संज्ञा वसुंधरा ॥ 6 ॥
त्रिलोकधात्री सावित्री गायत्री त्रिदशेश्वरी । सुरूपा बहुरूपा च स्कंदमाताऽच्युतप्रिया ॥ 7 ॥
विमला चामला तद्वदरुणी पुनरारुणी । प्रकृतिर्विकृतिः सृष्टिः स्थितिः संहृतिरेव च ॥ 8 ॥
Offered for worship and study, not as prediction. Non-commercial.
संध्यामाता सती हंसी मर्दिका वज्रिका परा । देवमाता भगवती देवकी कमलासना ॥ 9 ॥
त्रिमुखी सप्तमुख्यन्या सुरासुरविमर्दिनी । लंबोष्टी चोर्ध्वकेशी च बहुशीर्षा वृकोदरी ॥ 10 ॥
रथरेखाह्वया पश्चाच्छशिरेखा तथा परा । गगनवेगा पवनवेगा चैव ततः परम् ॥ 11 ॥
अग्रे भुवनपाला स्यात्तत्पश्चान्मदनातुरा । अनंगानंगमथना तथैवानंगमेखला ॥ 12 ॥
अनंगकुसुमा पश्चाद्विश्वरूपा सुरादिका । क्षयंकरी भवेच्छक्ति रक्षोभ्या च ततः परम् ॥ 13 ॥
सत्यवादिन्यथ प्रोक्ता बहुरूपा शुचिव्रता । उदाराख्या च वागीशी चतुष्षष्टिमिताः स्मृताः ॥ 14 ॥
ज्वलज्जिह्वाननाः सर्वावमंत्यो वह्निमुल्बणम् । जलं पिबामः सकलं संहरामोविभावसुम् ॥ 15 ॥
पवनं स्तंभयामोद्य भक्षयामोऽखिलं जगत् । इति वाचं संगिरते क्रोध संरक्तलोचनाः ॥ 16 ॥
चापबाणधराः सर्वायुद्धायैवोत्सुकाः सदा । दंष्ट्रा कटकटारावैर्बधिरीकृत दिङ्मुखाः ॥ 17 ॥
पिंगोर्ध्वकेश्यः संप्रोक्ताश्चापबाणकराः सदा । शताक्षौहिणिका सेनाप्येकैकस्याः प्रकीर्तिता ॥ 18 ॥
एकैक शक्तेः सामर्थ्यं लक्षब्रह्मांडनाशने । शताक्षौहिणिकासेना तादृशी नृप सत्तम ॥ 19 ॥
किं न कुर्याज्जगत्यस्मिन्नशक्यं वक्तुमेव तत् । सर्वापि युद्धसामग्री तस्मिन्साले स्थिता मुने ॥ 20 ॥
रथानां गणना नास्ति हयानां करिणां तथा ॥ शस्त्राणां गणना तद्वद्गणानां गणना तथा ॥ 21 ॥
पद्मरागमयादग्रे गोमेदमणिनिर्मितः । दशयोजनदैर्घ्येण प्राकारो वर्तते महान् ॥ 22 ॥
भास्वज्जपाप्रसूनाभो मध्यभूस्तस्य तादृशी । गोमेदकल्पितान्येव तद्वासि सदनानि च ॥ 23 ॥
पक्षिणः स्तंभवर्याश्च वृक्षावाप्यः सरांसि च । गोमेदकल्पिता एव कुंकुमारुणविग्रहाः ॥ 24 ॥
तन्मध्यस्था महादेव्यो द्वात्रिंशच्छक्तयः स्मृताः । नाना शस्त्रप्रहरणा गोमेदमणिभूषिताः ॥ 25 ॥
प्रत्येक लोक वासिन्यः परिवार्य समंततः । गोमेदसाले सन्नद्धा पिशाचवदना नृप ॥ 26 ॥
स्वर्लोकवासिभिर्नित्यं पूजिताश्चक्रबाहवः । क्रोधरक्तेक्षणा भिंधि पच च्छिंधि दहेति च ॥ 27 ॥
वदंति सततं वाचं युद्धोत्सुकहृदंतराः । एकैकस्या महाशक्तेर्दशाक्षौहिणिका मता ॥ 28 ॥
सेना तत्राप्येकशक्तिर्लक्षब्रह्मांडनाशिनी । तादृशीनां महासेना वर्णनीया कथं नृप ॥ 29 ॥
रथानां नैव गणाना वाहनानां तथैव च । सर्वयुद्धसमारंभस्तत्र देव्या विराजते ॥ 30 ॥
तासां नामानि वक्ष्यामि पापनाशकराणि च । विद्या ह्री पुष्ट यः प्रज्ञा सिनीवाली कुहूस्तथा ॥ 31 ॥
रुद्रावीर्या प्रभानंदा पोषिणी ऋद्धिदा शुभा । कालरात्रिर्महारात्रिर्भद्रकाली कपर्दिनी ॥ 32 ॥
विकृतिर्दंडिमुंडिन्यौ सेंदुखंडा शिखंडिनी । निशुंभशुंभमथिनी महिषासुरमर्दिनी ॥ 33 ॥
इंद्राणी चैव रुद्राणी शंकरार्धशरीरिणी । नारी नारायणी चैव त्रिशूलिन्यपि पालिनी ॥ 34 ॥
अंबिकाह्लादिनी पश्चादित्येवं शक्तयः स्मृताः । यद्येताः कुपिता देव्यस्तदा ब्रह्मांडनाशनम् ॥ 35 ॥
पराजयो न चैतासां कदाचित्क्वचिदस्ति हि । गोमेदकमयादग्रे सद्वज्रमणिनिर्मितः ॥ 36 ॥
दशयोजन तुंगोऽसौ गोपुरद्वारसंयुतः । कपाटशृंखलाबद्धो नववृक्ष समुज्ज्वलः ॥ 37 ॥
सालस्तन्मध्यभूम्यादि सर्वं हीरमयं स्मृतम् । गृहाणिवीथयो रथ्या महामार्गां गणानि च ॥ 38 ॥
वृक्षालवाल तरवः सारंगा अपि तादृशाः । दीर्घिकाश्रेणयोवाप्यस्तडागाः कूप संयुताः ॥ 39 ॥
तत्र श्रीभुवनेश्वर्या वसंति परिचारिकाः । एकैका लक्षदासीभिः सेविता मदगर्विताः ॥ 40 ॥
तालवृंतधराः काश्चिच्चषकाढ्य करांबुजाः । काश्चित्तांबूलपात्राणि धारयंत्योऽतिगर्विताः ॥ 41 ॥
काश्चित्तच्छत्रधारिण्यश्चामराणां विधारिकाः । नाना वस्त्रधराः काश्चित्काश्चित्पुष्प करांबुजाः ॥ 42 ॥
नानादर्शकराः काश्चित्काश्चित्कुंकुमलेपनम् । धारयंत्यः कज्जलं च सिंदूर चषकं पराः ॥ 43 ॥
काश्चिच्चित्रक निर्मात्र्यः पाद संवाहने रताः । काश्चित्तु भूषाकारिण्यो नाना भूषाधराः पराः ॥ 44 ॥
पुष्पभूषण निर्मात्र्यः पुष्पशृंगारकारिकाः । नाना विलासचतुरा बह्व्य एवं विधाः पराः ॥ 45 ॥
निबद्ध परिधानीया युवत्यः सकला अपि । देवी कृपा लेशवशात्तुच्छीकृत जगत्त्रयाः ॥ 46 ॥
एता दूत्यः स्मृता देव्यः शृंगारमदगर्विताः । तासां नामानि वक्ष्यामि शृणु मे नृपसत्तम ॥ 47 ॥
अनंगरूपा प्रथमाप्यनंगमदना परा । तृतीयातु ततः प्रोक्ता सुंदरी मदनातुरा ॥ 48 ॥
ततो भुवनवेगास्यात्तथा भुवनपालिका । स्यात्सर्वशिशिरानंगवेदनानंगमेखला ॥ 49 ॥
विद्युद्दामसमानांग्यः क्वणत्कांचीगुणान्विताः । रणन्मंजीरचरणा बहिरंतरितस्ततः ॥ 50 ॥
धावमानास्तु शोभंते सर्वा विद्युल्लतोपमाः । कुशलाः सर्वकार्येषु वेत्रहस्ताः समंततः ॥ 51 ॥
अष्टदिक्षुतथैतासां प्राकाराद्बहिरेव च । सदनानि विराजंते नाना वाहनहेतिभिः ॥ 52 ॥
वज्रसालादग्रभागे सालो वैदूर्यनिर्मितः । दशयोजनतुंगोऽसौ गोपुरद्वारभूषितः ॥ 53 ॥
वैदूर्यभूमिः सर्वापिगृहाणि विविधानि च । वीथ्यो रथ्या महामार्गाः सर्वे वेदूर्यनिर्मिताः ॥ 54 ॥
वापी कूप तडागाश्च स्रवंतीनां तटानि च । वालुका चैव सर्वाऽपि वैदूर्यमणिनिर्मिता ॥ 55 ॥
तत्राष्टदिक्षुपरितो ब्राह्म्यादीनां च मंडलम् । निजैर्गणैः परिवृतं भ्राजते नृपसत्तम ॥ 56 ॥
प्रतिब्रह्मांडमातृणां ताः समष्टय ईरिताः । ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ॥57 ॥
वाराही च तथेंद्राणी चामुंडाः सप्तमातरः । अष्टमी तु महालक्ष्मीर्नाम्ना प्रोक्तास्तु मातरः ॥ 58 ॥
ब्रह्मरुद्रादिदेवानां समाकारा स्तुताः स्मृताः । जगत्कल्याणकारिण्यः स्वस्वसेनासमावृताः ॥ 59 ॥
तत्सालस्य चतुर्द्वार्षु वाहनानि महेशितुः । सज्जानि नृपते संति सालंकाराणि नित्यशः ॥ 60 ॥
दंतिनः कोटिशो वाहाः कोटिशः शिबिकास्तथा । हंसाः सिंहाश्च गरुडा मयूरा वृषभास्तथा ॥ 61 ॥
तैर्युक्ताः स्यंदनास्तद्वत्कोटिशो नृपनंदन । पार्ष्णिग्राहसमायुक्ता ध्वजैराकाशचुंबिनः ॥ 62 ॥
कोटिशस्तु विमानानि नाना चिह्नान्वितानि च । नाना वादित्रयुक्तानि महाध्वजयुतानि च ॥ 63 ॥
वैदूर्यमणि सालस्याप्यग्रे सालः परः स्मृतः । दशयोजन तुंगोऽसाविंद्रनीलाश्मनिर्मितः ॥ 64 ॥
तन्मध्य भूस्तथा वीथ्यो महामार्गा गृहाणि च । वापी कूप तडागाश्च सर्वे तन्मणिनिर्मिताः ॥ 65 ॥
तत्र पद्म तु संप्रोक्तं बहुयोजन विस्तृतम् । षोडशारं दीप्यमानं सुदर्शनमिवापरम् ॥ 66 ॥
तत्र षोडशशक्तीनां स्थानानि विविधानि च । सर्वोपस्करयुक्तानि समृद्धानि वसंति हि ॥ 67 ॥
तासां नामानि वक्ष्यामि शृणु मे नृपसत्तम । कराली विकराली च तथोमा च सरस्वती ॥ 68 ॥
श्री दुर्गोषा तथा लक्ष्मीः श्रुतिश्चैव स्मृतिर्धृतिः । श्रद्धा मेधा मतिः कांतिरार्या षोडशशक्तयः ॥ 69 ॥
नीलजीमूतसंकाशाः करवाल करांबुजाः । समाः खेटकधारिण्यो युद्धोपक्रांत मानसाः ॥ 70 ॥
सेनान्यः सकला एताः श्रीदेव्या जगदीशितुः । प्रतिब्रह्मांडसंस्थानां शक्तीनां नायिकाः स्मृताः ॥ 71 ॥
ब्रह्मांडक्षोभकारिण्यो देवी शक्त्युपबृंहिताः । नाना रथसमारूढा नाना शक्तिभिरन्विताः ॥ 72 ॥
एतत्पराक्रमं वक्तुं सहस्रास्योऽपि न क्षमः । इंद्रनीलमहासालादग्रे तु बहुविस्तृतः ॥ 73 ॥
मुक्ताप्राकार उदितो दशयोजन दैर्घ्यवान् । मध्यभूः पूर्ववत्प्रोक्ता तन्मध्येऽष्टदलांबुजम् ॥ 74 ॥
मुक्तामणिगणाकीर्णं विस्तृतं तु सकेसरम् । तत्र देवीसमाकारा देव्यायुधधराः सदा ॥ 75 ॥
संप्रोक्ता अष्टमंत्रिण्यो जगद्वार्ताप्रबोधिकाः । देवीसमानभोगास्ता इंगितज्ञास्तुपंडिताः ॥ 76 ॥
कुशलाः सर्वकार्येषु स्वामिकार्यपरायणाः । देव्यभिप्राय बोध्यस्ताश्चतुरा अतिसुंदराः ॥ 77 ॥
नाना शक्तिसमायुक्ताः प्रतिब्रह्मांडवर्तिनाम् । प्राणिनां ताः समाचारं ज्ञानशक्त्याविदंति च ॥ 78 ॥
तासां नामानि वक्ष्यामि मत्तः शृणु नृपोत्तम । अनंगकुसुमा प्रोक्ताप्यनंगकुसुमातुरा ॥ 79 ॥
अनंगमदना तद्वदनंगमदनातुरा । भुवनपाला गगनवेगा चैव ततः परम् ॥ 80 ॥
शशिरेखा च गगनरेखा चैव ततः परम् । पाशांकुशवराभीतिधरा अरुणविग्रहाः ॥ 81 ॥
विश्वसंबंधिनीं वार्तां बोधयंति प्रतिक्षणम् । मुक्तासालादग्रभागे महामारकतो परः ॥ 82 ॥
सालोत्तमः समुद्दिष्टो दशयोजन दैर्घ्यवान् । नाना सौभाग्यसंयुक्तो नाना भोगसमन्वितः ॥ 83 ॥
मध्यभूस्तादृशी प्रोक्ता सदनानि तथैव च । षट्कोणमत्रविस्तीर्णं कोणस्था देवताः शृणुः ॥ 84 ॥
पूर्वकोणे चतुर्वक्त्रो गायत्री सहितो विधिः । कुंडिकाक्षगुणाभीति दंडायुधधरः परः ॥ 85 ॥
तदायुधधरा देवी गायत्री परदेवता । वेदाः सर्वे मूर्तिमंतः शास्त्राणि विविधानि च ॥ 86 ॥
स्मृतयश्च पुराणानि मूर्तिमंति वसंति हि । ये ब्रह्मविग्रहाः संति गायत्रीविग्रहाश्च ये ॥ 87 ॥
व्याहृतीनां विग्रहाश्च ते नित्यं तत्र संति हि । रक्षः कोणे शंखचक्रगदांबुज करांबुजा ॥ 88 ॥
सावित्री वर्तते तत्र महाविष्णुश्च तादृशः । ये विष्णुविग्रहाः संति मत्स्यकूर्मादयोखिलाः ॥ 89 ॥
सावित्री विग्रहा ये च ते सर्वे तत्र संति हि । वायुकोणे परश्वक्षमालाभयवरान्वितः ॥ 90 ॥
महारुद्रो वर्ततेऽत्र सरस्वत्यपि तादृशी । ये ये तु रुद्रभेदाः स्युर्दक्षिणास्यादयो नृप ॥ 91 ॥
गौरी भेदाश्च ये सर्वे ते तत्र निवसंति हि । चतुःषष्ट्यागमा ये च ये चान्येप्यागमाः स्मृताः ॥ 92 ॥
ते सर्वे मूर्तिमंतश्च तत्र वै निवसंति हि । अग्निकोणे रत्नकुंभं तथा मणिकरंडकम् ॥ 93 ॥
दधानो निजहस्ताभ्यां कुबेरो धनदायकः । नाना वीथी समायुक्तो महालक्ष्मीसमन्वितः ॥ 94 ॥
देव्या निधिपतिस्त्वास्ते स्वगुणैः परिवेष्टितः । वारुणे तु महाकोणे मदनो रतिसंयुतः ॥ 95 ॥
पाशांकुशधनुर्बाणधरो नित्यं विराजते । शृंगारमूर्तिमंतस्तु तत्र सन्निहिताः सदा ॥ 96 ॥
ईशानकोणे विघ्नेशो नित्यं पुष्टिसमन्वितः । पाशांकुशधरो वीरो विघ्नहर्ता विराजते ॥ 97 ॥
विभूतयो गणेशस्य यायाः संति नृपोत्तम । ताः सर्वा निवसंत्यत्र महैश्वर्यसमन्विताः ॥ 98 ॥
प्रतिब्रह्मांडसंस्थानां ब्रह्मादीनां समष्टयः । एते ब्रह्मादयः प्रोक्ताः सेवंते जगदीश्वरीम् ॥ 99 ॥
महामारकतस्याग्रे शतयोजन दैर्घ्यवान् । प्रवालशालोस्त्यपरः कुंकुमारुणविग्रहः ॥ 100 ॥
मध्यभूस्तादृशी प्रोक्ता सदनानि च पूर्ववत् । तन्मध्ये पंचभूतानां स्वामिन्यः पंच संति च ॥ 101 ॥
हृल्लेखा गगना रक्ता चतुर्थी तु करालिका । महोच्छुष्मा पंचमी च पंचभूतसमप्रभाः ॥ 102 ॥
पाशांकुशवराभीतिधारिण्योमितभूषणाः । देवी समानवेषाढ्या नवयौवनगर्विताः ॥ 103 ॥
प्रवालशालादग्रे तु नवरत्न विनिर्मितः । बहुयोजनविस्तीर्णो महाशालोऽस्ति भूमिप ॥ 104 ॥
तत्र चाम्नायदेवीनां सदनानि बहून्यपि । नवरत्नमयान्येव तडागाश्च सरांसि च ॥ 105 ॥
श्रीदेव्या येऽवताराः स्युस्ते तत्र निवसंति हि । महाविद्या महाभेदाः संति तत्रैव भूमिप ॥ 106 ॥
निजावरणदेवीभिर्निजभूषणवाहनैः । सर्वदेव्यो विराजंते कोटिसूर्यसमप्रभाः ॥ 107 ॥
सप्तकोटि महामंत्रदेवताः संति तत्र हि । नवरत्नमयादग्रे चिंतामणिगृहं महत् ॥ 108 ॥
तत्र त्यं वस्तु मात्रं तु चिंतामणि विनिर्मितम् । सूर्योद्गारोपलैस्तद्वच्चंद्रोद्गारोपलैस्तथा ॥ 109 ॥
विद्युत्प्रभोपलैः स्तंभाः कल्पितास्तु सहस्रशः । येषां प्रभाभिरंतस्थं वस्तु किंचिन्न दृश्यते ॥ 110 ॥
इति श्रीदेवीभागवते महापुराणे द्वादशस्कंधे एकादशोऽध्यायः ।
Browse Related Categories: