Vishnu · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
सत्याचार्यस्य गमने कदाचिन्मुक्ति दायकम् । काशीक्शेत्रं प्रति सह गौर्या मार्गे तु शंकरम् ॥ (अनुष्टुप्)
अंत्यवेषधरं दृष्ट्वा गच्छ गच्छेति चाब्रवीत् । शंकरःसोऽपि चांडलस्तं पुनः प्राह शंकरम् ॥ (अनुष्टुप्)
अन्नमयादन्नमयमथवा चैतन्यमेव चैतन्यात् । यतिवर दूरीकर्तुं वांछसि किं ब्रूहि गच्छ गच्छेति ॥ (आर्या वृत्त)
प्रत्यग्वस्तुनि निस्तरंगसहजानंदावबोधांबुधौ विप्रोऽयं श्वपचोऽयमित्यपि महान्कोऽयं विभेदभ्रमः । किं गंगांबुनि बिंबितेऽंबरमणौ चांडालवीथीपयः पूरे वाऽंतरमस्ति कांचनघटीमृत्कुंभयोर्वाऽंबरे ॥ (शार्दूल विक्रीडित)
जाग्रत्स्वप्नसुषुप्तिषु स्फुटतरा या संविदुज्जृंभते या ब्रह्मादिपिपीलिकांततनुषु प्रोता जगत्साक्षिणी । सैवाहं न च दृश्यवस्त्विति दृढप्रज्ञापि यस्यास्ति चे- च्चांडालोऽस्तु स तु द्विजोऽस्तु गुरुरित्येषा मनीषा मम ॥ 1॥
ब्रह्मैवाहमिदं जगच्च सकलं चिन्मात्रविस्तारितं सर्वं चैतदविद्यया त्रिगुणयाऽशेषं मया कल्पितम् । इत्थं यस्य दृढा मतिः सुखतरे नित्ये परे निर्मले चांडालोऽस्तु स तु द्विजोऽस्तु गुरुरित्येषा मनीषा मम ॥ 2॥
शश्वन्नश्वरमेव विश्वमखिलं निश्चित्य वाचा गुरो- र्नित्यं ब्रह्म निरंतरं विमृशता निर्व्याजशांतात्मना । भूतं भावि च दुष्कृतं प्रदहता संविन्मये पावके प्रारब्धाय समर्पितं स्ववपुरित्येषा मनीषा मम ॥ 3॥
या तिर्यङ्नरदेवताभिरहमित्यंतः स्फुटा गृह्यते यद्भासा हृदयाक्षदेहविषया भांति स्वतोऽचेतनाः । तां भास्यैः पिहितार्कमंडलनिभां स्फूर्तिं सदा भावय- न्योगी निर्वृतमानसो हि गुरुरित्येषा मनीषा मम ॥ 4॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
यत्सौख्यांबुधिलेशलेशत इमे शक्रादयो निर्वृता यच्चित्ते नितरां प्रशांतकलने लब्ध्वा मुनिर्निर्वृतः । यस्मिन्नित्यसुखांबुधौ गलितधीर्ब्रह्मैव न ब्रह्मविद् यः कश्चित्स सुरेंद्रवंदितपदो नूनं मनीषा मम ॥ 5॥
दासस्तेऽहं देहदृष्ट्याऽस्मि शंभो जातस्तेंऽशो जीवदृष्ट्या त्रिदृष्टे । सर्वस्याऽऽत्मन्नात्मदृष्ट्या त्वमेवे- त्येवं मे धीर्निश्चिता सर्वशास्त्रैः ॥
॥ इति श्रीमच्छंकरभगवतः कृतौ मनीषापंचकं संपूर्णम् ॥
Browse Related Categories: