Devi · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
उद्यद्भानुसहस्रकोटिसदृशां केयूरहारोज्ज्वलां बिंबोष्ठीं स्मितदंतपंक्तिरुचिरां पीतांबरालंकृताम् । विष्णुब्रह्मसुरेंद्रसेवितपदां तत्त्वस्वरूपां शिवां मीनाक्षीं प्रणतोऽस्मि संततमहं कारुण्यवारांनिधिम् ॥ 1 ॥
मुक्ताहारलसत्किरीटरुचिरां पूर्णेंदुवक्त्रप्रभां शिंजन्नूपुरकिंकिणीमणिधरां पद्मप्रभाभासुराम् । सर्वाभीष्टफलप्रदां गिरिसुतां वाणीरमासेवितां मीनाक्षीं प्रणतोऽस्मि संततमहं कारुण्यवारांनिधिम् ॥ 2 ॥
श्रीविद्यां शिववामभागनिलयां ह्रींकारमंत्रोज्ज्वलां श्रीचक्रांकितबिंदुमध्यवसतिं श्रीमत्सभानायकीम् । श्रीमत्षण्मुखविघ्नराजजननीं श्रीमज्जगन्मोहिनीं मीनाक्षीं प्रणतोऽस्मि संततमहं कारुण्यवारांनिधिम् ॥ 3 ॥
श्रीमत्सुंदरनायिकां भयहरां ज्ञानप्रदां निर्मलां श्यामाभां कमलासनार्चितपदां नारायणस्यानुजाम् । वीणावेणुमृदंगवाद्यरसिकां नानाविधामंबिकां मीनाक्षीं प्रणतोऽस्मि संततमहं कारुण्यवारांनिधिम् ॥ 4 ॥
नानायोगिमुनींद्रहृत्सुवसतीं नानार्थसिद्धिप्रदां नानापुष्पविराजितांघ्रियुगलां नारायणेनार्चिताम् । नादब्रह्ममयीं परात्परतरां नानार्थतत्वात्मिकां मीनाक्षीं प्रणतोऽस्मि संततमहं कारुण्यवारांनिधिम् ॥ 5 ॥
Browse Related Categories:
Offered for worship and study, not as prediction. Non-commercial.