Vishnu · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
क्रमेण सर्गे परिवर्धमाने कदापि दिव्याः सनकादयस्ते । भवद्विलोकाय विकुंठलोकं प्रपेदिरे मारुतमंदिरेश ॥1॥
मनोज्ञनैश्रेयसकाननाद्यै- रनेकवापीमणिमंदिरैश्च । अनोपमं तं भवतो निकेतं मुनीश्वराः प्रापुरतीतकक्ष्याः ॥2॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
भवद्दिद्दृक्षून्भवनं विविक्षून् द्वाःस्थौ जयस्तान् विजयोऽप्यरुंधाम् । तेषां च चित्ते पदमाप कोपः सर्वं भवत्प्रेरणयैव भूमन् ॥3॥
वैकुंठलोकानुचितप्रचेष्टौ कष्टौ युवां दैत्यगतिं भजेतम् । इति प्रशप्तौ भवदाश्रयौ तौ हरिस्मृतिर्नोऽस्त्विति नेमतुस्तान् ॥4॥
तदेतदाज्ञाय भवानवाप्तः सहैव लक्ष्म्या बहिरंबुजाक्ष । खगेश्वरांसार्पितचारुबाहु- रानंदयंस्तानभिराममूर्त्या ॥5॥
प्रसाद्य गीर्भिः स्तुवतो मुनींद्रा- ननन्यनाथावथ पार्षदौ तौ । संरंभयोगेन भवैस्त्रिभिर्मा- मुपेतमित्यात्तकृपं न्यगादीः ॥6॥
त्वदीयभृत्यावथ काश्यपात्तौ सुरारिवीरावुदितौ दितौ द्वौ । संध्यासमुत्पादनकष्टचेष्टौ यमौ च लोकस्य यमाविवान्यौ ॥7॥
हिरण्यपूर्वः कशिपुः किलैकः परो हिरण्याक्ष इति प्रतीतः । उभौ भवन्नाथमशेषलोकं रुषा न्यरुंधां निजवासनांधौ ॥8॥
तयोर्हिरण्याक्षमहासुरेंद्रो रणाय धावन्ननवाप्तवैरी । भवत्प्रियां क्ष्मां सलिले निमज्य चचार गर्वाद्विनदन् गदावान् ॥9॥
ततो जलेशात् सदृशं भवंतं निशम्य बभ्राम गवेषयंस्त्वाम् । भक्तैकदृश्यः स कृपानिधे त्वं निरुंधि रोगान् मरुदालयेश ॥10।
Browse Related Categories: