Vishnu · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
गरलं तरलानलं पुरस्ता- ज्जलधेरुद्विजगाल कालकूटम् । अमरस्तुतिवादमोदनिघ्नो गिरिशस्तन्निपपौ भवत्प्रियार्थम् ॥1॥
विमथत्सु सुरासुरेषु जाता सुरभिस्तामृषिषु न्यधास्त्रिधामन् । हयरत्नमभूदथेभरत्नं द्युतरुश्चाप्सरसः सुरेषु तानि ॥2॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
जगदीश भवत्परा तदानीं कमनीया कमला बभूव देवी । अमलामवलोक्य यां विलोलः सकलोऽपि स्पृहयांबभूव लोकः ॥3॥
त्वयि दत्तहृदे तदैव देव्यै त्रिदशेंद्रो मणिपीठिकां व्यतारीत् । सकलोपहृताभिषेचनीयैः ऋषयस्तां श्रुतिगीर्भिरभ्यषिंचन् ॥4॥
अभिषेकजलानुपातिमुग्ध- त्वदपांगैरवभूषितांगवल्लीम् । मणिकुंडलपीतचेलहार- प्रमुखैस्ताममरादयोऽन्वभूषन् ॥5॥
वरणस्रजमात्तभृंगनादां दधती सा कुचकुंभमंदयाना । पदशिंजितमंजुनूपुरा त्वां कलितव्रीलविलासमाससाद ॥6॥
गिरिशद्रुहिणादिसर्वदेवान् गुणभाजोऽप्यविमुक्तदोषलेशान् । अवमृश्य सदैव सर्वरम्ये निहिता त्वय्यनयाऽपि दिव्यमाला ॥7॥
उरसा तरसा ममानिथैनां भुवनानां जननीमनन्यभावाम् । त्वदुरोविलसत्तदीक्षणश्री- परिवृष्ट्या परिपुष्टमास विश्वम् ॥8॥
अतिमोहनविभ्रमा तदानीं मदयंती खलु वारुणी निरागात् । तमसः पदवीमदास्त्वमेना- मतिसम्माननया महासुरेभ्यः ॥9॥
तरुणांबुदसुंदरस्तदा त्वं ननु धन्वंतरिरुत्थितोऽंबुराशेः । अमृतं कलशे वहन् कराभ्या- मखिलार्तिं हर मारुतालयेश ॥10॥
Browse Related Categories: