Vishnu · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
उद्गच्छतस्तव करादमृतं हरत्सु दैत्येषु तानशरणाननुनीय देवान् । सद्यस्तिरोदधिथ देव भवत्प्रभावा- दुद्यत्स्वयूथ्यकलहा दितिजा बभूवुः ॥1॥
श्यामां रुचाऽपि वयसाऽपि तनुं तदानीं प्राप्तोऽसि तुंगकुचमंडलभंगुरां त्वम् । पीयूषकुंभकलहं परिमुच्य सर्वे तृष्णाकुलाः प्रतिययुस्त्वदुरोजकुंभे ॥2॥
का त्वं मृगाक्षि विभजस्व सुधामिमामि- त्यारूढरागविवशानभियाचतोऽमून् । विश्वस्यते मयि कथं कुलटाऽस्मि दैत्या इत्यालपन्नपि सुविश्वसितानतानीः ॥3॥
मोदात् सुधाकलशमेषु ददत्सु सा त्वं दुश्चेष्टितं मम सहध्वमिति ब्रुवाणा । पंक्तिप्रभेदविनिवेशितदेवदैत्या लीलाविलासगतिभिः समदाः सुधां ताम् ॥4॥
अस्मास्वियं प्रणयिणीत्यसुरेषु तेषु जोषं स्थितेष्वथ समाप्य सुधां सुरेषु । त्वं भक्तलोकवशगो निजरूपमेत्य स्वर्भानुमर्धपरिपीतसुधं व्यलावीः ॥5॥
त्वत्तः सुधाहरणयोग्यफलं परेषु दत्वा गते त्वयि सुरैः खलु ते व्यगृह्णन् । घोरेऽथ मूर्छति रणे बलिदैत्यमाया- व्यामोहिते सुरगणे त्वमिहाविरासीः ॥6॥
त्वं कालनेमिमथ मालिमुखांजघंथ शक्रो जघान बलिजंभवलान् सपाकान् । शुष्कार्द्रदुष्करवधे नमुचौ च लूने फेनेन नारदगिरा न्यरुणो रणं त्वम् ॥7॥
योषावपुर्दनुजमोहनमाहितं ते श्रुत्वा विलोकनकुतूहलवान् महेशः । भूतैस्समं गिरिजया च गतः पदं ते स्तुत्वाऽब्रवीदभिमतं त्वमथो तिरोधाः ॥8॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
आरामसीमनि च कंदुकघातलीला- लोलायमाननयनां कमनीं मनोज्ञाम् । त्वामेष वीक्ष्य विगलद्वसनां मनोभू- वेगादनंगरिपुरंग समालिलिंग ॥9॥
भूयोऽपि विद्रुतवतीमुपधाव्य देवो वीर्यप्रमोक्षविकसत्परमार्थबोधः । त्वन्मानितस्तव महत्त्वमुवाच देव्यै तत्तादृशस्त्वमव वातनिकेतनाथ ॥10॥
Browse Related Categories: