Vishnu · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
वैवस्वताख्यमनुपुत्रनभागजात- नाभागनामकनरेंद्रसुतोऽंबरीषः । सप्तार्णवावृतमहीदयितोऽपि रेमे त्वत्संगिषु त्वयि च मग्नमनास्सदैव ॥1॥
त्वत्प्रीतये सकलमेव वितन्वतोऽस्य भक्त्यैव देव नचिरादभृथाः प्रसादम् । येनास्य याचनमृतेऽप्यभिरक्षणार्थं चक्रं भवान् प्रविततार सहस्रधारम् ॥2॥
स द्वादशीव्रतमथो भवदर्चनार्थं वर्षं दधौ मधुवने यमुनोपकंठे । पत्न्या समं सुमनसा महतीं वितन्वन् पूजां द्विजेषु विसृजन् पशुषष्टिकोटिम् ॥3॥
तत्राथ पारणदिने भवदर्चनांते दुर्वाससाऽस्य मुनिना भवनं प्रपेदे । भोक्तुं वृतश्चस नृपेण परार्तिशीलो मंदं जगाम यमुनां नियमान्विधास्यन् ॥4॥
राज्ञाऽथ पारणमुहूर्तसमाप्तिखेदा- द्वारैव पारणमकारि भवत्परेण । प्राप्तो मुनिस्तदथ दिव्यदृशा विजानन् क्षिप्यन् क्रुधोद्धृतजटो विततान कृत्याम् ॥5॥
कृत्यां च तामसिधरां भुवनं दहंती- मग्रेऽभिवीक्ष्यनृपतिर्न पदाच्चकंपे । त्वद्भक्तबाधमभिवीक्ष्य सुदर्शनं ते कृत्यानलं शलभयन् मुनिमन्वधावीत् ॥6॥
धावन्नशेषभुवनेषु भिया स पश्यन् विश्वत्र चक्रमपि ते गतवान् विरिंचम् । कः कालचक्रमतिलंघयतीत्यपास्तः शर्वं ययौ स च भवंतमवंदतैव ॥7॥
भूयो भवन्निलयमेत्य मुनिं नमंतं प्रोचे भवानहमृषे ननु भक्तदासः । ज्ञानं तपश्च विनयान्वितमेव मान्यं याह्यंबरीषपदमेव भजेति भूमन् ॥8॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
तावत्समेत्य मुनिना स गृहीतपादो राजाऽपसृत्य भवदस्त्रमसावनौषीत् । चक्रे गते मुनिरदादखिलाशिषोऽस्मै त्वद्भक्तिमागसि कृतेऽपि कृपां च शंसन् ॥9॥
राजा प्रतीक्ष्य मुनिमेकसमामनाश्वान् संभोज्य साधु तमृषिं विसृजन् प्रसन्नम् । भुक्त्वा स्वयं त्वयि ततोऽपि दृढं रतोऽभू- त्सायुज्यमाप च स मां पवनेश पायाः ॥10॥
Browse Related Categories: