Vishnu · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
व्रजेश्वरैः शौरिवचो निशम्य समाव्रजन्नध्वनि भीतचेताः । निष्पिष्टनिश्शेषतरुं निरीक्ष्य कंचित्पदार्थं शरणं गतस्वाम् ॥1॥
निशम्य गोपीवचनादुदंतं सर्वेऽपि गोपा भयविस्मयांधाः । त्वत्पातितं घोरपिशाचदेहं देहुर्विदूरेऽथ कुठारकृत्तम् ॥2॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
त्वत्पीतपूतस्तनतच्छरीरात् समुच्चलन्नुच्चतरो हि धूमः । शंकामधादागरवः किमेष किं चांदनो गौल्गुलवोऽथवेति ॥3॥
मदंगसंगस्य फलं न दूरे क्षणेन तावत् भवतामपि स्यात् । इत्युल्लपन् वल्लवतल्लजेभ्यः त्वं पूतनामातनुथाः सुगंधिम् ॥4॥
चित्रं पिशाच्या न हतः कुमारः चित्रं पुरैवाकथि शौरिणेदम् । इति प्रशंसन् किल गोपलोको भवन्मुखालोकरसे न्यमांक्षीत् ॥5॥
दिनेदिनेऽथ प्रतिवृद्धलक्ष्मीरक्षीणमांगल्यशतो व्रजोऽयम् । भवन्निवासादयि वासुदेव प्रमोदसांद्रः परितो विरेजे ॥6॥
गृहेषु ते कोमलरूपहासमिथःकथासंकुलिताः कमन्यः । वृत्तेषु कृत्येषु भवन्निरीक्षासमागताः प्रत्यहमत्यनंदन् ॥7॥
अहो कुमारो मयि दत्तदृष्टिः स्मितं कृतं मां प्रति वत्सकेन । एह्येहि मामित्युपसार्य पाणी त्वयीश किं किं न कृतं वधूभिः ॥8॥
भवद्वपुःस्पर्शनकौतुकेन करात्करं गोपवधूजनेन । नीतस्त्वमाताम्रसरोजमालाव्यालंबिलोलंबतुलामलासीः ॥9॥
निपाययंती स्तनमंकगं त्वां विलोकयंती वदनं हसंती । दशां यशोदा कतमां न भेजे स तादृशः पाहि हरे गदान्माम् ॥10॥
Browse Related Categories: