Vishnu · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
अयि देव पुरा किल त्वयि स्वयमुत्तानशये स्तनंधये । परिजृंभणतो व्यपावृते वदने विश्वमचष्ट वल्लवी ॥1॥
पुनरप्यथ बालकैः समं त्वयि लीलानिरते जगत्पते । फलसंचयवंचनक्रुधा तव मृद्भोजनमूचुरर्भकाः ॥2॥
अयि ते प्रलयावधौ विभो क्षितितोयादिसमस्तभक्षिणः । मृदुपाशनतो रुजा भवेदिति भीता जननी चुकोप सा ॥3॥
अयि दुर्विनयात्मक त्वया किमु मृत्सा बत वत्स भक्षिता । इति मातृगिरं चिरं विभो वितथां त्वं प्रतिजज्ञिषे हसन् ॥4॥
अयि ते सकलैर्विनिश्चिते विमतिश्चेद्वदनं विदार्यताम् । इति मातृविभर्त्सितो मुखं विकसत्पद्मनिभं व्यदारयः ॥5॥
अपि मृल्लवदर्शनोत्सुकां जननीं तां बहु तर्पयन्निव । पृथिवीं निखिलां न केवलं भुवनान्यप्यखिलान्यदीदृशः ॥6॥
कुहचिद्वनमंबुधिः क्वचित् क्वचिदभ्रं कुहचिद्रसातलम् । मनुजा दनुजाः क्वचित् सुरा ददृशे किं न तदा त्वदानने ॥7॥
कलशांबुधिशायिनं पुनः परवैकुंठपदाधिवासिनम् । स्वपुरश्च निजार्भकात्मकं कतिधा त्वां न ददर्श सा मुखे ॥8॥
विकसद्भुवने मुखोदरे ननु भूयोऽपि तथाविधाननः । अनया स्फुटमीक्षितो भवाननवस्थां जगतां बतातनोत् ॥9॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
धृततत्त्वधियं तदा क्षणं जननीं तां प्रणयेन मोहयन् । स्तनमंब दिशेत्युपासजन् भगवन्नद्भुतबाल पाहि माम् ॥10॥
Browse Related Categories: