Vishnu · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
अन्यावतारनिकरेष्वनिरीक्षितं ते भूमातिरेकमभिवीक्ष्य तदाघमोक्षे । ब्रह्मा परीक्षितुमनाः स परोक्षभावं निन्येऽथ वत्सकगणान् प्रवितत्य मायाम् ॥1॥
वत्सानवीक्ष्य विवशे पशुपोत्करे ता- नानेतुकाम इव धातृमतानुवर्ती । त्वं सामिभुक्तकबलो गतवांस्तदानीं भुक्तांस्तिरोऽधित सरोजभवः कुमारान् ॥2॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
वत्सायितस्तदनु गोपगणायितस्त्वं शिक्यादिभांडमुरलीगवलादिरूपः । प्राग्वद्विहृत्य विपिनेषु चिराय सायं त्वं माययाऽथ बहुधा व्रजमाययाथ ॥3॥
त्वामेव शिक्यगवलादिमयं दधानो भूयस्त्वमेव पशुवत्सकबालरूपः । गोरूपिणीभिरपि गोपवधूमयीभि- रासादितोऽसि जननीभिरतिप्रहर्षात् ॥4॥
जीवं हि कंचिदभिमानवशात्स्वकीयं मत्वा तनूज इति रागभरं वहंत्यः । आत्मानमेव तु भवंतमवाप्य सूनुं प्रीतिं ययुर्न कियतीं वनिताश्च गावः ॥5॥
एवं प्रतिक्षणविजृंभितहर्षभार- निश्शेषगोपगणलालितभूरिमूर्तिम् । त्वामग्रजोऽपि बुबुधे किल वत्सरांते ब्रह्मात्मनोरपि महान् युवयोर्विशेषः ॥6॥
वर्षावधौ नवपुरातनवत्सपालान् दृष्ट्वा विवेकमसृणे द्रुहिणे विमूढे । प्रादीदृशः प्रतिनवान् मकुटांगदादि भूषांश्चतुर्भुजयुजः सजलांबुदाभान् ॥7॥
प्रत्येकमेव कमलापरिलालितांगान् भोगींद्रभोगशयनान् नयनाभिरामान् । लीलानिमीलितदृशः सनकादियोगि- व्यासेवितान् कमलभूर्भवतो ददर्श ॥8॥
नारायणाकृतिमसंख्यतमां निरीक्ष्य सर्वत्र सेवकमपि स्वमवेक्ष्य धाता । मायानिमग्नहृदयो विमुमोह याव- देको बभूविथ तदा कबलार्धपाणिः ॥9॥
नश्यन्मदे तदनु विश्वपतिं मुहुस्त्वां नत्वा च नूतवति धातरि धाम याते । पोतैः समं प्रमुदितैः प्रविशन् निकेतं वातालयाधिप विभो परिपाहि रोगात् ॥10॥
Browse Related Categories: