Vishnu · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
त्वयि विहरणलोले बालजालैः प्रलंब- प्रमथनसविलंबे धेनवः स्वैरचाराः । तृणकुतुकनिविष्टा दूरदूरं चरंत्यः किमपि विपिनमैषीकाख्यमीषांबभूवुः ॥1॥
अनधिगतनिदाघक्रौर्यवृंदावनांतात् बहिरिदमुपयाताः काननं धेनवस्ताः । तव विरहविषण्णा ऊष्मलग्रीष्मताप- प्रसरविसरदंभस्याकुलाः स्तंभमापुः ॥2॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
तदनु सह सहायैर्दूरमन्विष्य शौरे गलितसरणिमुंजारण्यसंजातखेदम् । पशुकुलमभिवीक्ष्य क्षिप्रमानेतुमारा- त्त्वयि गतवति ही ही सर्वतोऽग्निर्जजृंभे ॥3॥
सकलहरिति दीप्ते घोरभांकारभीमे शिखिनि विहतमार्गा अर्धदग्धा इवार्ताः । अहह भुवनबंधो पाहि पाहीति सर्वे शरणमुपगतास्त्वां तापहर्तारमेकम् ॥4॥
अलमलमतिभीत्या सर्वतो मीलयध्वं दृशमिति तव वाचा मीलिताक्षेषु तेषु । क्व नु दवदहनोऽसौ कुत्र मुंजाटवी सा सपदि ववृतिरे ते हंत भांडीरदेशे ॥5॥
जय जय तव माया केयमीशेति तेषां नुतिभिरुदितहासो बद्धनानाविलासः । पुनरपि विपिनांते प्राचरः पाटलादि- प्रसवनिकरमात्रग्राह्यघर्मानुभावे ॥6॥
त्वयि विमुखमिवोच्चैस्तापभारं वहंतं तव भजनवदंतः पंकमुच्छोषयंतम् । तव भुजवदुदंचद्भूरितेजःप्रवाहं तपसमयमनैषीर्यामुनेषु स्थलेषु ॥7॥
तदनु जलदजालैस्त्वद्वपुस्तुल्यभाभि- र्विकसदमलविद्युत्पीतवासोविलासैः । सकलभुवनभाजां हर्षदां वर्षवेलां क्षितिधरकुहरेषु स्वैरवासी व्यनैषीः ॥8॥
कुहरतलनिविष्टं त्वां गरिष्ठं गिरींद्रः शिखिकुलनवकेकाकाकुभिः स्तोत्रकारी । स्फुटकुटजकदंबस्तोमपुष्पांजलिं च प्रविदधदनुभेजे देव गोवर्धनोऽसौ ॥9॥
अथ शरदमुपेतां तां भवद्भक्तचेतो- विमलसलिलपूरां मानयन् काननेषु । तृणममलवनांते चारु संचारयन् गाः पवनपुरपते त्वं देहि मे देहसौख्यम् ॥10॥
Browse Related Categories: