Vishnu · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
मदनातुरचेतसोऽन्वहं भवदंघ्रिद्वयदास्यकाम्यया । यमुनातटसीम्नि सैकतीं तरलाक्ष्यो गिरिजां समार्चिचन् ॥1॥
तव नामकथारताः समं सुदृशः प्रातरुपागता नदीम् । उपहारशतैरपूजयन् दयितो नंदसुतो भवेदिति ॥2॥
इति मासमुपाहितव्रतास्तरलाक्षीरभिवीक्ष्य ता भवान् । करुणामृदुलो नदीतटं समयासीत्तदनुग्रहेच्छया ॥3॥
नियमावसितौ निजांबरं तटसीमन्यवमुच्य तास्तदा । यमुनाजलखेलनाकुलाः पुरतस्त्वामवलोक्य लज्जिताः ॥4॥
त्रपया नमिताननास्वथो वनितास्वंबरजालमंतिके । निहितं परिगृह्य भूरुहो विटपं त्वं तरसाऽधिरूढवान् ॥5॥
इह तावदुपेत्य नीयतां वसनं वः सुदृशो यथायथम् । इति नर्ममृदुस्मिते त्वयि ब्रुवति व्यामुमुहे वधूजनैः ॥6॥
अयि जीव चिरं किशोर नस्तव दासीरवशीकरोषि किम् । प्रदिशांबरमंबुजेक्षणेत्युदितस्त्वं स्मितमेव दत्तवान् ॥7॥
अधिरुह्य तटं कृतांजलीः परिशुद्धाः स्वगतीर्निरीक्ष्य ताः । वसनान्यखिलान्यनुग्रहं पुनरेवं गिरमप्यदा मुदा ॥8॥
विदितं ननु वो मनीषितं वदितारस्त्विह योग्यमुत्तरम् । यमुनापुलिने सचंद्रिकाः क्षणदा इत्यबलास्त्वमूचिवान् ॥9॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
उपकर्ण्य भवन्मुखच्युतं मधुनिष्यंदि वचो मृगीदृशः । प्रणयादयि वीक्ष्य वीक्ष्य ते वदनाब्जं शनकैर्गृहं गताः ॥10॥
इति नन्वनुगृह्य वल्लवीर्विपिनांतेषु पुरेव संचरन् । करुणाशिशिरो हरे हर त्वरया मे सकलामयावलिम् ॥11॥
Browse Related Categories: