Vishnu · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
ततश्च वृंदावनतोऽतिदूरतो वनं गतस्त्वं खलु गोपगोकुलैः । हृदंतरे भक्ततरद्विजांगना- कदंबकानुग्रहणाग्रहं वहन् ॥1॥
ततो निरीक्ष्याशरणे वनांतरे किशोरलोकं क्षुधितं तृषाकुलम् । अदूरतो यज्ञपरान् द्विजान् प्रति व्यसर्जयो दीदिवियाचनाय तान् ॥2॥
गतेष्वथो तेष्वभिधाय तेऽभिधां कुमारकेष्वोदनयाचिषु प्रभो । श्रुतिस्थिरा अप्यभिनिन्युरश्रुतिं न किंचिदूचुश्च महीसुरोत्तमाः ॥3॥
अनादरात् खिन्नधियो हि बालकाः । समाययुर्युक्तमिदं हि यज्वसु । चिरादभक्ताः खलु ते महीसुराः कथं हि भक्तं त्वयि तैः समर्प्यते ॥4॥
निवेदयध्वं गृहिणीजनाय मां दिशेयुरन्नं करुणाकुला इमाः । इति स्मितार्द्रं भवतेरिता गता- स्ते दारका दारजनं ययाचिरे ॥5॥
गृहीतनाम्नि त्वयि संभ्रमाकुला- श्चतुर्विधं भोज्यरसं प्रगृह्य ताः । चिरंधृतत्वत्प्रविलोकनाग्रहाः स्वकैर्निरुद्धा अपि तूर्णमाययुः ॥6॥
विलोलपिंछं चिकुरे कपोलयोः समुल्लसत्कुंडलमार्द्रमीक्षिते । निधाय बाहुं सुहृदंससीमनि स्थितं भवंतं समलोकयंत ताः ॥7॥
तदा च काचित्त्वदुपागमोद्यता गृहीतहस्ता दयितेन यज्वना । तदैव संचिंत्य भवंतमंजसा विवेश कैवल्यमहो कृतिन्यसौ ॥8॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
आदाय भोज्यान्यनुगृह्य ताः पुन- स्त्वदंगसंगस्पृहयोज्झतीर्गृहम् । विलोक्य यज्ञाय विसर्जयन्निमा- श्चकर्थ भर्तृनपि तास्वगर्हणान् ॥9॥
निरूप्य दोषं निजमंगनाजने विलोक्य भक्तिं च पुनर्विचारिभिः प्रबुद्धतत्त्वैस्त्वमभिष्टुतो द्विजै- र्मरुत्पुराधीश निरुंधि मे गदान् ॥10॥
Browse Related Categories: