Vishnu · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
स्फुरत्परानंदरसात्मकेन त्वया समासादितभोगलीलाः । असीममानंदभरं प्रपन्ना महांतमापुर्मदमंबुजाक्ष्यः ॥1॥
निलीयतेऽसौ मयि मय्यमायं रमापतिर्विश्वमनोभिरामः । इति स्म सर्वाः कलिताभिमाना निरीक्ष्य गोविंद् तिरोहितोऽभूः ॥2॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
राधाभिधां तावदजातगर्वामतिप्रियां गोपवधूं मुरारे । भवानुपादाय गतो विदूरं तया सह स्वैरविहारकारी ॥3॥
तिरोहितेऽथ त्वयि जाततापाः समं समेताः कमलायताक्ष्यः । वने वने त्वां परिमार्गयंत्यो विषादमापुर्भगवन्नपारम् ॥4॥
हा चूत हा चंपक कर्णिकार हा मल्लिके मालति बालवल्यः । किं वीक्षितो नो हृदयैकचोरः इत्यादि तास्त्वत्प्रवणा विलेपुः ॥5॥
निरीक्षितोऽयं सखि पंकजाक्षः पुरो ममेत्याकुलमालपंती । त्वां भावनाचक्षुषि वीक्ष्य काचित्तापं सखीनां द्विगुणीचकार ॥6॥
त्वदात्मिकास्ता यमुनातटांते तवानुचक्रुः किल चेष्टितानि । विचित्य भूयोऽपि तथैव मानात्त्वया विमुक्तां ददृशुश्च राधाम् ॥7॥
ततः समं ता विपिने समंतात्तमोवतारावधि मार्गयंत्यः । पुनर्विमिश्रा यमुनातटांते भृशं विलेपुश्च जगुर्गुणांस्ते ॥8॥
तथा व्यथासंकुलमानसानां व्रजांगनानां करुणैकसिंधो । जगत्त्रयीमोहनमोहनात्मा त्वं प्रादुरासीरयि मंदहासी ॥9॥
संदिग्धसंदर्शनमात्मकांतं त्वां वीक्ष्य तन्व्यः सहसा तदानीम् । किं किं न चक्रुः प्रमदातिभारात् स त्वं गदात् पालय मारुतेश ॥10॥
Browse Related Categories: