Vishnu · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
केशपाशधृतपिंछिकाविततिसंचलन्मकरकुंडलं हारजालवनमालिकाललितमंगरागघनसौरभम् । पीतचेलधृतकांचिकांचितमुदंचदंशुमणिनूपुरं रासकेलिपरिभूषितं तव हि रूपमीश कलयामहे ॥1॥
तावदेव कृतमंडने कलितकंचुलीककुचमंडले गंडलोलमणिकुंडले युवतिमंडलेऽथ परिमंडले । अंतरा सकलसुंदरीयुगलमिंदिरारमण संचरन् मंजुलां तदनु रासकेलिमयि कंजनाभ समुपादधाः ॥2॥
वासुदेव तव भासमानमिह रासकेलिरससौरभं दूरतोऽपि खलु नारदागदितमाकलय्य कुतुकाकुला । वेषभूषणविलासपेशलविलासिनीशतसमावृता नाकतो युगपदागता वियति वेगतोऽथ सुरमंडली ॥3॥
वेणुनादकृततानदानकलगानरागगतियोजना- लोभनीयमृदुपादपातकृततालमेलनमनोहरम् । पाणिसंक्वणितकंकणं च मुहुरंसलंबितकरांबुजं श्रोणिबिंबचलदंबरं भजत रासकेलिरसडंबरम् ॥4॥
स्पर्धया विरचितानुगानकृततारतारमधुरस्वरे नर्तनेऽथ ललितांगहारलुलितांगहारमणिभूषणे । सम्मदेन कृतपुष्पवर्षमलमुन्मिषद्दिविषदां कुलं चिन्मये त्वयि निलीयमानमिव सम्मुमोह सवधूकुलम् ॥5॥
स्विन्नसन्नतनुवल्लरी तदनु कापि नाम पशुपांगना कांतमंसमवलंबते स्म तव तांतिभारमुकुलेक्षणा ॥ काचिदाचलितकुंतला नवपटीरसारघनसौरभं वंचनेन तव संचुचुंब भुजमंचितोरुपुलकांकुरा ॥6॥
कापि गंडभुवि सन्निधाय निजगंडमाकुलितकुंडलं पुण्यपूरनिधिरन्ववाप तव पूगचर्वितरसामृतम् । इंदिराविहृतिमंदिरं भुवनसुंदरं हि नटनांतरे त्वामवाप्य दधुरंगनाः किमु न सम्मदोन्मददशांतरम् ॥7॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
गानमीश विरतं क्रमेण किल वाद्यमेलनमुपारतं ब्रह्मसम्मदरसाकुलाः सदसि केवलं ननृतुरंगनाः । नाविदन्नपि च नीविकां किमपि कुंतलीमपि च कंचुलीं ज्योतिषामपि कदंबकं दिवि विलंबितं किमपरं ब्रुवे ॥8॥
मोदसीम्नि भुवनं विलाप्य विहृतिं समाप्य च ततो विभो केलिसम्मृदितनिर्मलांगनवघर्मलेशसुभगात्मनाम् । मन्मथासहनचेतसां पशुपयोषितां सुकृतचोदित- स्तावदाकलितमूर्तिरादधिथ मारवीरपरमोत्सवान् ॥9॥
केलिभेदपरिलोलिताभिरतिलालिताभिरबलालिभिः स्वैरमीश ननु सूरजापयसि चारुनाम विहृतिं व्यधाः । काननेऽपि च विसारिशीतलकिशोरमारुतमनोहरे सूनसौरभमये विलेसिथ विलासिनीशतविमोहनम् ॥10॥
कामिनीरिति हि यामिनीषु खलु कामनीयकनिधे भवान् पूर्णसम्मदरसार्णवं कमपि योगिगम्यमनुभावयन् । ब्रह्मशंकरमुखानपीह पशुपांगनासु बहुमानयन् भक्तलोकगमनीयरूप कमनीय कृष्ण परिपाहि माम् ॥11॥
Browse Related Categories: