Vishnu · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
एवं देव चतुर्दशात्मकजगद्रूपेण जातः पुन- स्तस्योर्ध्वं खलु सत्यलोकनिलये जातोऽसि धाता स्वयम् । यं शंसंति हिरण्यगर्भमखिलत्रैलोक्यजीवात्मकं योऽभूत् स्फीतरजोविकारविकसन्नानासिसृक्षारसः ॥1॥
सोऽयं विश्वविसर्गदत्तहृदयः संपश्यमानः स्वयं बोधं खल्वनवाप्य विश्वविषयं चिंताकुलस्तस्थिवान् । तावत्त्वं जगतां पते तप तपेत्येवं हि वैहायसीं वाणीमेनमशिश्रवः श्रुतिसुखां कुर्वंस्तपःप्रेरणाम् ॥2॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
कोऽसौ मामवदत् पुमानिति जलापूर्णे जगन्मंडले दिक्षूद्वीक्ष्य किमप्यनीक्षितवता वाक्यार्थमुत्पश्यता । दिव्यं वर्षसहस्रमात्ततपसा तेन त्वमाराधित - स्तस्मै दर्शितवानसि स्वनिलयं वैकुंठमेकाद्भुतम् ॥3॥
माया यत्र कदापि नो विकुरुते भाते जगद्भ्यो बहिः शोकक्रोधविमोहसाध्वसमुखा भावास्तु दूरं गताः । सांद्रानंदझरी च यत्र परमज्योतिःप्रकाशात्मके तत्ते धाम विभावितं विजयते वैकुंठरूपं विभो ॥4॥
यस्मिन्नाम चतुर्भुजा हरिमणिश्यामावदातत्विषो नानाभूषणरत्नदीपितदिशो राजद्विमानालयाः । भक्तिप्राप्ततथाविधोन्नतपदा दीव्यंति दिव्या जना- तत्ते धाम निरस्तसर्वशमलं वैकुंठरूपं जयेत् ॥5॥
नानादिव्यवधूजनैरभिवृता विद्युल्लतातुल्यया विश्वोन्मादनहृद्यगात्रलतया विद्योतिताशांतरा । त्वत्पादांबुजसौरभैककुतुकाल्लक्ष्मीः स्वयं लक्ष्यते यस्मिन् विस्मयनीयदिव्यविभवं तत्ते पदं देहि मे ॥6॥
तत्रैवं प्रतिदर्शिते निजपदे रत्नासनाध्यासितं भास्वत्कोटिलसत्किरीटकटकाद्याकल्पदीप्राकृति । श्रीवत्सांकितमात्तकौस्तुभमणिच्छायारुणं कारणं विश्वेषां तव रूपमैक्षत विधिस्तत्ते विभो भातु मे ॥7॥
कालांभोदकलायकोमलरुचीचक्रेण चक्रं दिशा - मावृण्वानमुदारमंदहसितस्यंदप्रसन्नाननम् । राजत्कंबुगदारिपंकजधरश्रीमद्भुजामंडलं स्रष्टुस्तुष्टिकरं वपुस्तव विभो मद्रोगमुद्वासयेत् ॥8॥
दृष्ट्वा संभृतसंभ्रमः कमलभूस्त्वत्पादपाथोरुहे हर्षावेशवशंवदो निपतितः प्रीत्या कृतार्थीभवन् । जानास्येव मनीषितं मम विभो ज्ञानं तदापादय द्वैताद्वैतभवत्स्वरूपपरमित्याचष्ट तं त्वां भजे ॥9॥
आताम्रे चरणे विनम्रमथ तं हस्तेन हस्ते स्पृशन् बोधस्ते भविता न सर्गविधिभिर्बंधोऽपि संजायते । इत्याभाष्य गिरं प्रतोष्य नितरां तच्चित्तगूढः स्वयं सृष्टौ तं समुदैरयः स भगवन्नुल्लासयोल्लाघताम् ॥10॥
Browse Related Categories: