Vishnu · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
त्रिदिववर्धकिवर्धितकौशलं त्रिदशदत्तसमस्तविभूतिमत् । जलधिमध्यगतं त्वमभूषयो नवपुरं वपुरंचितरोचिषा ॥1॥
ददुषि रेवतभूभृति रेवतीं हलभृते तनयां विधिशासनात् । महितमुत्सवघोषमपूपुषः समुदितैर्मुदितैः सह यादवैः ॥2॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
अथ विदर्भसुतां खलु रुक्मिणीं प्रणयिनीं त्वयि देव सहोदरः । स्वयमदित्सत चेदिमहीभुजे स्वतमसा तमसाधुमुपाश्रयन् ॥3॥
चिरधृतप्रणया त्वयि बालिका सपदि कांक्षितभंगसमाकुला । तव निवेदयितुं द्विजमादिशत् स्वकदनं कदनंगविनिर्मितम् ॥4॥
द्विजसुतोऽपि च तूर्णमुपाययौ तव पुरं हि दुराशदुरासदम् । मुदमवाप च सादरपूजितः स भवता भवतापहृता स्वयम् ॥5॥
स च भवंतमवोचत कुंडिने नृपसुता खलु राजति रुक्मिणी । त्वयि समुत्सुकया निजधीरतारहितया हि तया प्रहितोऽस्म्यहम् ॥6॥
तव हृताऽस्मि पुरैव गुणैरहं हरति मां किल चेदिनृपोऽधुना । अयि कृपालय पालय मामिति प्रजगदे जगदेकपते तया ॥7॥
अशरणां यदि मां त्वमुपेक्षसे सपदि जीवितमेव जहाम्यहम् । इति गिरा सुतनोरतनोत् भृशं सुहृदयं हृदयं तव कातरम् ॥8॥
अकथयस्त्वमथैनमये सखे तदधिका मम मन्मथवेदना । नृपसमक्षमुपेत्य हराम्यहं तदयि तां दयितामसितेक्षणाम् ॥9॥
प्रमुदितेन च तेन समं तदा रथगतो लघु कुंडिनमेयिवान् । गुरुमरुत्पुरनायक मे भवान् वितनुतां तनुतां निखिलापदाम् ॥10॥
Browse Related Categories: