Vishnu · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
क्वचिदथ तपनोपरागकाले पुरि निदधत् कृतवर्मकामसूनू । यदुकुलमहिलावृतः सुतीर्थं समुपगतोऽसि समंतपंचकाख्यम् ॥1॥
बहुतरजनताहिताय तत्र त्वमपि पुनन् विनिमज्य तीर्थतोयम् । द्विजगणपरिमुक्तवित्तराशिः सममिलथाः कुरुपांडवादिमित्रैः ॥2॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
तव खलु दयिताजनैः समेता द्रुपदसुता त्वयि गाढभक्तिभारा । तदुदितभवदाहृतिप्रकारैः अतिमुमुदे सममन्यभामिनीभिः ॥3॥
तदनु च भगवन् निरीक्ष्य गोपानतिकुतुकादुपगम्य मानयित्वा। चिरतरविरहातुरांगरेखाः पशुपवधूः सरसं त्वमन्वयासीः ॥4॥
सपदि च भवदीक्षणोत्सवेन प्रमुषितमानहृदां नितंबिनीनाम् । अतिरसपरिमुक्तकंचुलीके परिचयहृद्यतरे कुचे न्यलैषीः ॥5॥
रिपुजनकलहैः पुनः पुनर्मे समुपगतैरियती विलंबनाऽभूत् । इति कृतपरिरंभणेत्वयि द्राक् अतिविवशा खलु राधिका निलिल्ये ॥6॥
अपगतविरहव्यथास्तदा ता रहसि विधाय ददाथ तत्त्वबोधम् । परमसुखचिदात्मकोऽहमात्मेत्युदयतु वः स्फुटमेव चेतसीति ॥7॥
सुखरसपरिमिश्रितो वियोगः किमपि पुराऽभवदुद्धवोपदेशैः । समभवदमुतः परं तु तासां परमसुखैक्यमयी भवद्विचिंता ॥8॥
मुनिवरनिवहैस्तवाथ पित्रा दुरितशमाय शुभानि पृच्छ्यमानैः । त्वयि सति किमिदं शुभांतरैः रित्युरुहसितैरपि याजितस्तदाऽसौ ॥9॥
सुमहति यजने वितायमाने प्रमुदितमित्रजने सहैव गोपाः । यदुजनमहितास्त्रिमासमात्रं भवदनुषंगरसं पुरेव भेजु ः ॥10॥
व्यपगमसमये समेत्य राधां दृढमुपगूह्य निरीक्ष्य वीतखेदाम् । प्रमुदितहृदयः पुरं प्रयातः पवनपुरेश्वर पाहि मां गदेभ्यः ॥11॥
Browse Related Categories: