Vishnu · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
प्रागेवाचार्यपुत्राहृतिनिशमनया स्वीयषट्सूनुवीक्षां कांक्षंत्या मातुरुक्त्या सुतलभुवि बलिं प्राप्य तेनार्चितस्त्वम् । धातुः शापाद्धिरण्यान्वितकशिपुभवान् शौरिजान् कंसभग्ना- नानीयैनान् प्रदर्श्य स्वपदमनयथाः पूर्वपुत्रान् मरीचेः ॥1॥
श्रुतदेव इति श्रुतं द्विजेंद्रं बहुलाश्वं नृपतिं च भक्तिपूर्णम् । युगपत्त्वमनुग्रहीतुकामो मिथिलां प्रापिथं तापसैः समेतः ॥2॥
गच्छन् द्विमूर्तिरुभयोर्युगपन्निकेत- मेकेन भूरिविभवैर्विहितोपचारः । अन्येन तद्दिनभृतैश्च फलौदनाद्यै- स्तुल्यं प्रसेदिथ ददथ च मुक्तिमाभ्याम् ॥3॥
भूयोऽथ द्वारवत्यां द्विजतनयमृतिं तत्प्रलापानपि त्वम् को वा दैवं निरुंध्यादिति किल कथयन् विश्ववोढाप्यसोढाः । जिष्णोर्गर्वं विनेतुं त्वयि मनुजधिया कुंठितां चास्य बुद्धिं तत्त्वारूढां विधातुं परमतमपदप्रेक्षणेनेति मन्ये ॥4॥
नष्टा अष्टास्य पुत्राः पुनरपि तव तूपेक्षया कष्टवादः स्पष्टो जातो जनानामथ तदवसरे द्वारकामाप पार्थः । मैत्र्या तत्रोषितोऽसौ नवमसुतमृतौ विप्रवर्यप्ररोदं श्रुत्वा चक्रे प्रतिज्ञामनुपहृतसुतः सन्निवेक्ष्ये कृशानुम् ॥5॥
मानी स त्वामपृष्ट्वा द्विजनिलयगतो बाणजालैर्महास्त्रै रुंधानः सूतिगेहं पुनरपि सहसा दृष्टनष्टे कुमारे । याम्यामैंद्रीं तथाऽन्याः सुरवरनगरीर्विद्ययाऽऽसाद्य सद्यो मोघोद्योगः पतिष्यन् हुतभुजि भवता सस्मितं वारितोऽभूत् ॥6॥
सार्धं तेन प्रतीचीं दिशमतिजविना स्यंदनेनाभियातो लोकालोकं व्यतीतस्तिमिरभरमथो चक्रधाम्ना निरुंधन् । चक्रांशुक्लिष्टदृष्टिं स्थितमथ विजयं पश्य पश्येति वारां पारे त्वं प्राददर्शः किमपि हि तमसां दूरदूरं पदं ते ॥7॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
तत्रासीनं भुजंगाधिपशयनतले दिव्यभूषायुधाद्यै- रावीतं पीतचेलं प्रतिनवजलदश्यामलं श्रीमदंगम् । मूर्तीनामीशितारं परमिह तिसृणामेकमर्थं श्रुतीनां त्वामेव त्वं परात्मन् प्रियसखसहितो नेमिथ क्षेमरूपम् ॥8॥
युवां मामेव द्वावधिकविवृतांतर्हिततया विभिन्नौ संद्रष्टुं स्वयमहमहार्षं द्विजसुतान् । नयेतं द्रागेतानिति खलु वितीर्णान् पुनरमून् द्विजायादायादाः प्रणुतमहिमा पांडुजनुषा ॥9॥
एवं नानाविहारैर्जगदभिरमयन् वृष्णिवंशं प्रपुष्ण- न्नीजानो यज्ञभेदैरतुलविहृतिभिः प्रीणयन्नेणनेत्राः । भूभारक्षेपदंभात् पदकमलजुषां मोक्षणायावतीर्णः पूर्णं ब्रह्मैव साक्षाद्यदुषु मनुजतारूषितस्त्वं व्यलासीः ॥10॥
प्रायेण द्वारवत्यामवृतदयि तदा नारदस्त्वद्रसार्द्र- स्तस्माल्लेभे कदाचित्खलु सुकृतनिधिस्त्वत्पिता तत्त्वबोधम् । भक्तानामग्रयायी स च खलु मतिमानुद्धवस्त्वत्त एव प्राप्तो विज्ञानसारं स किल जनहितायाधुनाऽऽस्ते बदर्याम् ॥11॥
सोऽयं कृष्णावतारो जयति तव विभो यत्र सौहार्दभीति- स्नेहद्वेषानुरागप्रभृतिभिरतुलैरश्रमैर्योगभेदैः । आर्तिं तीर्त्वा समस्ताममृतपदमगुस्सर्वतः सर्वलोकाः स त्वं विश्वार्तिशांत्यै पवनपुरपते भक्तिपूर्त्यै च भूयाः ॥12॥
Browse Related Categories: