Vishnu · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
स्थितस्स कमलोद्भवस्तव हि नाभिपंकेरुहे कुतः स्विदिदमंबुधावुदितमित्यनालोकयन् । तदीक्षणकुतूहलात् प्रतिदिशं विवृत्तानन- श्चतुर्वदनतामगाद्विकसदष्टदृष्ट्यंबुजाम् ॥1॥
महार्णवविघूर्णितं कमलमेव तत्केवलं विलोक्य तदुपाश्रयं तव तनुं तु नालोकयन् । क एष कमलोदरे महति निस्सहायो ह्यहं कुतः स्विदिदंबुजं समजनीति चिंतामगात् ॥2॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
अमुष्य हि सरोरुहः किमपि कारणं संभ्वे- दिति स्म कृतनिश्चयस्स खलु नालरंध्राध्वना । स्वयोगबलविद्यया समवरूढवान् प्रौढधी - स्त्वदीयमतिमोहनं न तु कलेवरं दृष्टवान् ॥3॥
ततः सकलनालिकाविवरमार्गगो मार्गयन् प्रयस्य शतवत्सरं किमपि नैव संदृष्टवान् । निवृत्य कमलोदरे सुखनिषण्ण एकाग्रधीः समाधिबलमादधे भवदनुग्रहैकाग्रही ॥4॥
शतेन परिवत्सरैर्दृढसमाधिबंधोल्लसत्- प्रबोधविशदीकृतः स खलु पद्मिनीसंभवः । अदृष्टचरमद्भुतं तव हि रूपमंतर्दृशा व्यचष्ट परितुष्टधीर्भुजगभोगभागाश्रयम् ॥5॥
किरीटमुकुटोल्लसत्कटकहारकेयूरयुङ्- मणिस्फुरितमेखलं सुपरिवीतपीतांबरम् । कलायकुसुमप्रभं गलतलोल्लसत्कौस्तुभं वपुस्तदयि भावये कमलजन्मे दर्शितम् ॥6॥
श्रुतिप्रकरदर्शितप्रचुरवैभव श्रीपते हरे जय जय प्रभो पदमुपैषि दिष्ट्या दृशोः । कुरुष्व धियमाशु मे भुवननिर्मितौ कर्मठा- मिति द्रुहिणवर्णितस्वगुणबंहिमा पाहि माम् ॥7॥
लभस्व भुवनत्रयीरचनदक्षतामक्षतां गृहाण मदनुग्रहं कुरु तपश्च भूयो विधे । भवत्वखिलसाधनी मयि च भक्तिरत्युत्कटे- त्युदीर्य गिरमादधा मुदितचेतसं वेधसम् ॥8॥
शतं कृततपास्ततः स खलु दिव्यसंवत्सरा- नवाप्य च तपोबलं मतिबलं च पूर्वाधिकम् । उदीक्ष्य किल कंपितं पयसि पंकजं वायुना भवद्बलविजृंभितः पवनपाथसी पीतवान् ॥9॥
तवैव कृपया पुनस्सरसिजेन तेनैव सः प्रकल्प्य भुवनत्रयीं प्रववृते प्रजानिर्मितौ । तथाविधकृपाभरो गुरुमरुत्पुराधीश्वर त्वमाशु परिपाहि मां गुरुदयोक्षितैरीक्षितैः ॥10॥
Browse Related Categories: