Devi · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
नारायण उवाच
वाग्देवतायाः स्तवनं श्रूयतां सर्वकामदम् । महामुनिर्याज्ञवल्क्यो येन तुष्टाव तां पुरा ॥ 1
गुरुशापाच्च स मुनिर्हतविद्यो बभूव ह । तदा जगाम दुःखार्तो रविस्थानं च पुण्यदम् ॥ 2 ॥
संप्राप्यतपसा सूर्यं कोणार्के दृष्टिगोचरे । तुष्टाव सूर्यं शोकेन रुरोद च पुनः पुनः ॥ 3 ॥
सूर्यस्तं पाठयामास वेदवेदांगमीश्वरः । उवाच स्तुहि वाग्देवीं भक्त्या च स्मृतिहेतवे ॥ 4 ॥
तमित्युक्त्वा दीननाथो ह्यंतर्धानं जगाम सः । मुनिः स्नात्वा च तुष्टाव भक्तिनम्रात्मकंधरः ॥ 5 ॥
याज्ञवल्क्य उवाच
कृपां कुरु जगन्मातर्मामेवं हततेजसम् । गुरुशापात्स्मृतिभ्रष्टं विद्याहीनं च दुःखितम् ॥ 6
ज्ञानं देहि स्मृतिं देहि विद्यां विद्याधिदेवते । प्रतिष्ठां कवितां देहि शक्तिं शिष्यप्रबोधिकाम् ॥ 7 ॥
ग्रंथनिर्मितिशक्तिं च सच्छिष्यं सुप्रतिष्ठितम् । प्रतिभां सत्सभायां च विचारक्षमतां शुभाम् ॥ 8 ॥
Offered for worship and study, not as prediction. Non-commercial.
लुप्तां सर्वां दैववशान्नवं कुरु पुनः पुनः । यथांकुरं जनयति भगवान्योगमायया ॥ 9 ॥
ब्रह्मस्वरूपा परमा ज्योतिरूपा सनातनी । सर्वविद्याधिदेवी या तस्यै वाण्यै नमो नमः ॥ 10 ॥
यया विना जगत्सर्वं शश्वज्जीवन्मृतं सदा । ज्ञानाधिदेवी या तस्यै सरस्वत्यै नमो नमः ॥ 11 ॥
यया विना जगत्सर्वं मूकमुन्मत्तवत्सदा । वागधिष्ठातृदेवी या तस्यै वाण्यै नमो नमः ॥ 12 ॥
हिमचंदनकुंदेंदुकुमुदांभोजसन्निभा । वर्णाधिदेवी या तस्यै चाक्षरायै नमो नमः ॥ 13 ॥
विसर्ग बिंदुमात्राणां यदधिष्ठानमेव च । इत्थं त्वं गीयसे सद्भिर्भारत्यै ते नमो नमः ॥ 14 ॥
यया विनाऽत्र संख्याकृत्संख्यां कर्तुं न शक्नुते । कालसंख्यास्वरूपा या तस्यै देव्यै नमो नमः ॥ 15 ॥
व्याख्यास्वरूपा या देवी व्याख्याधिष्ठातृदेवता । भ्रमसिद्धांतरूपा या तस्यै देव्यै नमो नमः ॥ 16 ॥
स्मृतिशक्तिर्ज्ञानशक्तिर्बुद्धिशक्तिस्वरूपिणी । प्रतिभा कल्पनाशक्तिर्या च तस्यै नमो नमः ॥ 17 ॥
सनत्कुमारो ब्रह्माणं ज्ञानं पप्रच्छ यत्र वै । बभूव जडवत्सोऽपि सिद्धांतं कर्तुमक्षमः ॥ 18 ॥
तदाजगाम भगवानात्मा श्रीकृष्ण ईश्वरः । उवाच सत्तमं स्तोत्रं वाण्या इति विधिं तदा ॥ 19 ॥
स च तुष्टाव तां ब्रह्मा चाज्ञया परमात्मनः । चकार तत्प्रसादेन तदा सिद्धांतमुत्तमम् ॥ 20 ॥
यदाप्यनंतं पप्रच्छ ज्ञानमेकं वसुंधरा । बभूव मूकवत्सोऽपि सिद्धांतं कर्तुमक्षमः ॥ 21 ॥
तदा त्वां च स तुष्टाव संत्रस्तः कश्यपाज्ञया । ततश्चकार सिद्धांतं निर्मलं भ्रमभंजनम् ॥ 22 ॥
व्यासः पुराणसूत्रं च समपृच्छत वाल्मिकिम् । मौनीभूतः स सस्मार त्वामेव जगदंबिकाम् ॥ 23 ॥
तदा चकार सिद्धांतं त्वद्वरेण मुनीश्वरः । स प्राप निर्मलं ज्ञानं प्रमादध्वंसकारणम् ॥ 24 ॥
पुराण सूत्रं श्रुत्वा स व्यासः कृष्णकलोद्भवः । त्वां सिषेवे च दध्यौ च शतवर्षं च पुष्करे ॥ 25 ॥
तदा त्वत्तो वरं प्राप्य स कवींद्रो बभूव ह । तदा वेदविभागं च पुराणानि चकार ह ॥ 26 ॥
यदा महेंद्रे पप्रच्छ तत्त्वज्ञानं शिवा शिवम् । क्षणं त्वामेव संचिंत्य तस्यै ज्ञानं दधौ विभुः ॥ 27 ॥
पप्रच्छ शब्दशास्त्रं च महेंद्रश्च बृहस्पतिम् । दिव्यं वर्षसहस्रं च स त्वां दध्यौ च पुष्करे ॥ 28 ॥
तदा त्वत्तो वरं प्राप्य दिव्यं वर्षसहस्रकम् । उवाच शब्दशास्त्रं च तदर्थं च सुरेश्वरम् ॥ 29 ॥
अध्यापिताश्च यैः शिष्याः यैरधीतं मुनीश्वरैः । ते च त्वां परिसंचिंत्य प्रवर्तंते सुरेश्वरि ॥ 30 ॥
त्वं संस्तुता पूजिता च मुनींद्रमनुमानवैः । दैत्येंद्रैश्च सुरैश्चापि ब्रह्मविष्णुशिवादिभिः ॥ 31 ॥
जडीभूतः सहस्रास्यः पंचवक्त्रश्चतुर्मुखः । यां स्तोतुं किमहं स्तौमि तामेकास्येन मानवः ॥ 32 ॥
इत्युक्त्वा याज्ञवल्क्यश्च भक्तिनम्रात्मकंधरः । प्रणनाम निराहारो रुरोद च मुहुर्मुहुः ॥ 33 ॥
तदा ज्योतिस्स्वरूपा सा तेनादृष्टाप्युवाच
तम् । सुकवींद्रो भवेत्युक्त्वा वैकुंठं च जगाम ह ॥ 34
याज्ञवल्क्य कृतं वाणीस्तोत्रं यः संयतः पठेत् । स कवींद्रो महावाग्मी बृहस्पति समो भवेत् ॥ 35 ॥
महामूर्खश्च दुर्मेधा वर्षमेकं च यः पठेत् । स पंडितश्च मेधावी सुकविश्च भवेद्ध्रुवम् ॥ 35 ॥
इति श्री ब्रह्मवैवर्ते महापुराणे प्रकृति खंडे नारद नारायण संवादे याज्ञवल्क्योक्त वाणी स्तवनं नाम पंचमोऽध्यायः ॥
Browse Related Categories: