Devi · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
ॐ बगलायै नमः । ॐ विष्णुवनितायै नमः । ॐ विष्णुशंकरभामिन्यै नमः । ॐ बहुलायै नमः । ॐ देवमात्रे नमः । ॐ महाविष्णुप्रस्वै नमः । ॐ महामत्स्यायै नमः । ॐ महाकूर्मायै नमः । ॐ महावाराहरूपिण्यै नमः । ॐ नरसिंहप्रियायै नमः । 10 ।
ॐ रम्यायै नमः । ॐ वामनायै नमः । ॐ वटुरूपिण्यै नमः । ॐ जामदग्न्यस्वरूपायै नमः । ॐ रामायै नमः । ॐ रामप्रपूजितायै नमः । ॐ कृष्णायै नमः । ॐ कपर्दिन्यै नमः । ॐ कृत्यायै नमः । ॐ कलहायै नमः । 20 ।
ॐ विकारिण्यै नमः । ॐ बुद्धिरूपायै नमः । ॐ बुद्धभार्यायै नमः । ॐ बौद्धपाषंडखंडिन्यै नमः । ॐ कल्किरूपायै नमः । ॐ कलिहरायै नमः । ॐ कलिदुर्गतिनाशिन्यै नमः । ॐ कोटिसूर्यप्रतीकाशायै नमः । ॐ कोटिकंदर्पमोहिन्यै नमः । ॐ केवलायै नमः । 30 ।
ॐ कठिनायै नमः । ॐ काल्यै नमः । ॐ कलायै नमः । ॐ कैवल्यदायिन्यै नमः । ॐ केशव्यै नमः । ॐ केशवाराध्यायै नमः । ॐ किशोर्यै नमः । ॐ केशवस्तुतायै नमः । ॐ रुद्ररूपायै नमः । ॐ रुद्रमूर्त्यै नमः । 40 ।
ॐ रुद्राण्यै नमः । ॐ रुद्रदेवतायै नमः । ॐ नक्षत्ररूपायै नमः । ॐ नक्षत्रायै नमः । ॐ नक्षत्रेशप्रपूजितायै नमः । ॐ नक्षत्रेशप्रियायै नमः । ॐ नित्यायै नमः । ॐ नक्षत्रपतिवंदितायै नमः । ॐ नागिन्यै नमः । ॐ नागजनन्यै नमः । 50 ।
ॐ नागराजप्रवंदितायै नमः । ॐ नागेश्वर्यै नमः । ॐ नागकन्यायै नमः । ॐ नागर्यै नमः । ॐ नगात्मजायै नमः । ॐ नगाधिराजतनयायै नमः । ॐ नगराजप्रपूजितायै नमः । ॐ नवीनायै नमः । ॐ नीरदायै नमः । ॐ पीतायै नमः । 60 ।
ॐ श्यामायै नमः । ॐ सौंदर्यकारिण्यै नमः । ॐ रक्तायै नमः । ॐ नीलायै नमः । ॐ घनायै नमः । ॐ शुभ्रायै नमः । ॐ श्वेतायै नमः । ॐ सौभाग्यदायिन्यै नमः । ॐ सुंदर्यै नमः । ॐ सौभगायै नमः । 70 ।
Offered for worship and study, not as prediction. Non-commercial.
ॐ सौम्यायै नमः । ॐ स्वर्णाभायै नमः । ॐ स्वर्गतिप्रदायै नमः । ॐ रिपुत्रासकर्यै नमः । ॐ रेखायै नमः । ॐ शत्रुसंहारकारिण्यै नमः । ॐ भामिन्यै नमः । ॐ मायायै नमः । ॐ स्तंभिन्यै नमः । ॐ मोहिन्यै नमः । 80 ।
ॐ शुभायै नमः । ॐ रागद्वेषकर्यै नमः । ॐ रात्र्यै नमः । ॐ रौरवध्वंसकारिण्यै नमः । ॐ यक्षिण्यै नमः । ॐ सिद्धनिवहायै नमः । ॐ सिद्धेशायै नमः । ॐ सिद्धिरूपिण्यै नमः । ॐ लंकापतिध्वंसकर्यै नमः । ॐ लंकेशरिपुवंदितायै नमः । 90 ।
ॐ लंकानाथकुलहरायै नमः । ॐ महारावणहारिण्यै नमः । ॐ देवदानवसिद्धौघपूजितायै नमः । ॐ परमेश्वर्यै नमः । ॐ पराणुरूपायै नमः । ॐ परमायै नमः । ॐ परतंत्रविनाशिन्यै नमः । ॐ वरदायै नमः । ॐ वरदाराध्यायै नमः । ॐ वरदानपरायणायै नमः । 100 ।
ॐ वरदेशप्रियायै नमः । ॐ वीरायै नमः । ॐ वीरभूषणभूषितायै नमः । ॐ वसुदायै नमः । ॐ बहुदायै नमः । ॐ वाण्यै नमः । ॐ ब्रह्मरूपायै नमः । ॐ वराननायै नमः । 108 ।
ॐ बलदायै नमः । ॐ पीतवसनायै नमः । ॐ पीतभूषणभूषितायै नमः । ॐ पीतपुष्पप्रियायै नमः । ॐ पीतहारायै नमः । ॐ पीतस्वरूपिण्यै नमः । 114 ।
Browse Related Categories: