Devi · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
ॐ छिन्नमस्तायै नमः । ॐ महाविद्यायै नमः । ॐ महाभीमायै नमः । ॐ महोदर्यै नमः । ॐ चंडेश्वर्यै नमः । ॐ चंडमात्रे नमः । ॐ चंडमुंडप्रभंजिन्यै नमः । ॐ महाचंडायै नमः । ॐ चंडरूपायै नमः । ॐ चंडिकायै नमः । 10 ।
ॐ चंडखंडिन्यै नमः । ॐ क्रोधिन्यै नमः । ॐ क्रोधजनन्यै नमः । ॐ क्रोधरूपायै नमः । ॐ कुह्वे नमः । ॐ कलायै नमः । ॐ कोपातुरायै नमः । ॐ कोपयुतायै नमः । ॐ कोपसंहारकारिण्यै नमः । ॐ वज्रवैरोचन्यै नमः । 20 ।
ॐ वज्रायै नमः । ॐ वज्रकल्पायै नमः । ॐ डाकिन्यै नमः । ॐ डाकिनीकर्मनिरतायै नमः । ॐ डाकिनीकर्मपूजितायै नमः । ॐ डाकिनीसंगनिरतायै नमः । ॐ डाकिनीप्रेमपूरितायै नमः । ॐ खट्वांगधारिण्यै नमः । ॐ खर्वायै नमः । ॐ खड्गखर्परधारिण्यै नमः । 30 ।
ॐ प्रेतासनायै नमः । ॐ प्रेतयुतायै नमः । ॐ प्रेतसंगविहारिण्यै नमः । ॐ छिन्नमुंडधरायै नमः । ॐ छिन्नचंडविद्यायै नमः । ॐ चित्रिण्यै नमः । ॐ घोररूपायै नमः । ॐ घोरदृष्ट्यै नमः । ॐ घोररावायै नमः । ॐ घनोदर्यै नमः । 40 ।
ॐ योगिन्यै नमः । ॐ योगनिरतायै नमः । ॐ जपयज्ञपरायणायै नमः । ॐ योनिचक्रमय्यै नमः । ॐ योनये नमः । ॐ योनिचक्रप्रवर्तिन्यै नमः । ॐ योनिमुद्रायै नमः । ॐ योनिगम्यायै नमः । ॐ योनियंत्रनिवासिन्यै नमः । ॐ यंत्ररूपायै नमः । 50 ।
ॐ यंत्रमय्यै नमः । ॐ यंत्रेश्यै नमः । ॐ यंत्रपूजितायै नमः । ॐ कीर्त्यायै नमः । ॐ कपर्दिन्यै नमः । ॐ काल्यै नमः । ॐ कंकाल्यै नमः । ॐ कलकारिण्यै नमः । ॐ आरक्तायै नमः । ॐ रक्तनयनायै नमः । 60 ।
ॐ रक्तपानपरायणायै नमः । ॐ भवान्यै नमः । ॐ भूतिदायै नमः । ॐ भूत्यै नमः । ॐ भूतिदात्र्यै नमः । ॐ भैरव्यै नमः । ॐ भैरवाचारनिरतायै नमः । ॐ भूतभैरवसेवितायै नमः । ॐ भीमायै नमः । ॐ भीमेश्वर्यै नमः । 70 ।
Offered for worship and study, not as prediction. Non-commercial.
ॐ देव्यै नमः । ॐ भीमनादपरायणायै नमः । ॐ भवाराध्यायै नमः । ॐ भवनुतायै नमः । ॐ भवसागरतारिण्यै नमः । ॐ भद्रकाल्यै नमः । ॐ भद्रतनवे नमः । ॐ भद्ररूपायै नमः । ॐ भद्रिकायै नमः । ॐ भद्ररूपायै नमः । 80 ।
ॐ महाभद्रायै नमः । ॐ सुभद्रायै नमः । ॐ भद्रपालिन्यै नमः । ॐ सुभव्यायै नमः । ॐ भव्यवदनायै नमः । ॐ सुमुख्यै नमः । ॐ सिद्धसेवितायै नमः । ॐ सिद्धिदायै नमः । ॐ सिद्धिनिवहायै नमः । ॐ सिद्धायै नमः । 90 ।
ॐ सिद्धनिषेवितायै नमः । ॐ शुभदायै नमः । ॐ शुभगायै नमः । ॐ शुद्धायै नमः । ॐ शुद्धसत्त्वायै नमः । ॐ शुभावहायै नमः । ॐ श्रेष्ठायै नमः । ॐ दृष्टिमयीदेव्यै नमः । ॐ दृष्टिसंहारकारिण्यै नमः । ॐ शर्वाण्यै नमः । 100 ।
ॐ सर्वगायै नमः । ॐ सर्वायै नमः । ॐ सर्वमंगलकारिण्यै नमः । ॐ शिवायै नमः । ॐ शांतायै नमः । ॐ शांतिरूपायै नमः । ॐ मृडान्यै नमः । ॐ मदनातुरायै नमः । 108
Browse Related Categories: